अथर्ववेदः/काण्डं ७/सूक्तम् ०४५

विकिस्रोतः तः
← सूक्तं ७.४४ अथर्ववेदः - काण्डं ७
सूक्तं ७.४५(७.४४)
ऋषिः - प्रस्कण्वः
सूक्तं ७.४६ →
दे. इन्द्रः, विष्णुः। भुरिक् त्रिष्टुप्।

उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनयोः ।
इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥१॥