अथर्ववेदः/काण्डं ७/सूक्तम् ०४६

विकिस्रोतः तः
← सूक्तं ७.४५ अथर्ववेदः - काण्डं ७
सूक्तं ७.४६ - ४७(७.४५)
ऋषिः - १-२ प्रस्कण्वः, २ अथर्वा।
सूक्तं ७.४८ →
दे. ईर्ष्यापनयनम्, भेषजम्। अनुष्टुप्।

जनाद्विश्वजनीनात्सिन्धुतस्पर्याभृतम् ।
दूरात्त्वा मन्य उद्भृतमीर्ष्याया नाम भेषजम् ॥१॥
अग्नेरिवास्य दहतो दावस्य दहतः पृथक्।
एतामेतस्येर्ष्यामुद्राग्निमिव शमय ॥१॥