अथर्ववेदः/काण्डं ७/सूक्तम् ०३१

विकिस्रोतः तः
← सूक्तं ७.०३० अथर्ववेदः - काण्डं ७
सूक्तं ७.०३१(७.०३०)
भृग्वङ्गिराः।
सूक्तं ७.०३२ →
दे. द्यावापृथिवी, मित्रः, ब्रह्मणस्पतिः, सविता च। बृहती।

स्वाक्तं मे द्यावापृथिवी स्वाक्तं मित्रो अकरयम् ।
स्वाक्तं मे ब्रह्मणस्पतिः स्वाक्तं सविता करत्॥१॥