अथर्ववेदः/काण्डं ७/सूक्तम् ०३०

विकिस्रोतः तः
← सूक्तं ७.०२९ अथर्ववेदः - काण्डं ७
सूक्तं ७.०३०(७.०२९)
मेधातिथिः
सूक्तं ७.०३१ →
दे. अग्नाविष्णू। त्रिष्टुप् ।

अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यस्य नाम ।
दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतमा चरण्यात्॥१॥
अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणौ ।
दमेदमे सुष्टुत्या वावृधानौ प्रति वां जिह्वा घृतमुच्चरण्यात्॥२॥