अथर्ववेदः/काण्डं ६/सूक्तम् ०९१

विकिस्रोतः तः
← सूक्तं ६.०९० अथर्ववेदः - काण्डं ६
सूक्तं ६.०९१
भृग्वङ्गिराः
सूक्तं ६.०९२ →
दे. यक्ष्मनाशनम्, ३ आपः। अनुष्टुप्

इमं यवमष्टायोगैः षड्योगेभिरचर्कृषुः ।
तेना ते तन्वो रपोऽपाचीनमप व्यये ॥१॥
न्यग्वातो वाति न्यक् तपति सूर्यः ।
नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥२॥
आप इद्वा उ भेषजीरापो अमीवचातनीः ।
आपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥३॥