अथर्ववेदः/काण्डं ६/सूक्तम् ०९०

विकिस्रोतः तः
← सूक्तं ६.०८९ अथर्ववेदः - काण्डं ६
सूक्तं ६.९०
अथर्वा।
सूक्तं ६.०९१ →
दे. रुद्रः। अनुष्टुप्, ३ आर्षी भुरिगुष्णिक्।

यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च ।
इदं तामद्य त्वद्वयं विषूचीं वि वृहामसि ॥१॥
यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः ।
तासां ते सर्वासां वयं निर्विषाणि ह्वयामसि ॥२॥
नमस्ते रुद्रास्यते नमः प्रतिहितायै ।
नमो विसृज्यमानायै नमो निपतितायै ॥३॥