अथर्ववेदः/काण्डं ६/सूक्तम् ०९२

विकिस्रोतः तः
← सूक्तं ६.०९१ अथर्ववेदः - काण्डं ६
सूक्तं ६.०९२
अथर्वा।
सूक्तं ६.०९३ →
दे. इन्द्रः, वाजी। त्रिष्टुप्, १ जगती।

वातरंहा भव वाजिन् युजमान इन्द्रस्य याहि प्रसवे मनोजवाः ।
युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वस्ता पत्सु जवं दधातु ॥१॥
जवस्ते अर्वन् निहितो गुहा यः श्येने वाते उत योऽचरत्परीत्तः ।
तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने परयिष्णुः ॥२॥
तनूष्टे वाजिन् तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम् ।
अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात्॥३॥