अथर्ववेदः/काण्डं ६/सूक्तम् ००६

विकिस्रोतः तः
← सूक्तं ६.००५ अथर्ववेदः - काण्डं ६
सूक्तं ६.००६
ऋ. अथर्वा।
सूक्तं ६.००७ →
दे. ब्रह्मणस्पतिः, २-३ सोमः। अनुष्टुप्।

योऽस्मान् ब्रह्मणस्पतेऽदेवो अभिमन्यते ।
सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥१॥
यो नः सोम सुशंसिनो दुःशंस आदिदेशति ।
वज्रेणास्य मुखे जहि स संपिष्टो अपायति ॥२॥
यो नः सोमाभिदासति सनाभिर्यश्च निष्ट्यः ।
अप तस्य बलं तिर महीव द्यौर्वधत्मना ॥३॥