अथर्ववेदः/काण्डं ६/सूक्तम् ००५

विकिस्रोतः तः
← सूक्तं ६.००४ अथर्ववेदः - काण्डं ६
सूक्तं ६.००५
अथर्वा
सूक्तं ६.००६ →
१ अग्निः, २ इन्द्रः, ३ अग्निः, सोमः, ब्रह्मणस्पतिः। अनुष्टुप्, २ भुरिक् ।

उदेनमुत्तरं नयाग्ने घृतेनाहुत ।
समेनं वर्चसा सृज प्रजया च बहुं कृधि ॥१॥
इन्द्रेमं प्रतरं कृधि सजातानामसद्वशी ।
रायस्पोषेण सं सृज जीवातवे जरसे नय ॥२॥
यस्य कृण्मो हविर्गृहे तमग्ने वर्धया त्वम् ।
तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥