अथर्ववेदः/काण्डं ६/सूक्तम् ००६
दिखावट
← सूक्तं ६.००५ | अथर्ववेदः - काण्डं ६ सूक्तं ६.००६ ऋ. अथर्वा। |
सूक्तं ६.००७ → |
दे. ब्रह्मणस्पतिः, २-३ सोमः। अनुष्टुप्। |
योऽस्मान् ब्रह्मणस्पतेऽदेवो अभिमन्यते ।
सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥१॥
यो नः सोम सुशंसिनो दुःशंस आदिदेशति ।
वज्रेणास्य मुखे जहि स संपिष्टो अपायति ॥२॥
यो नः सोमाभिदासति सनाभिर्यश्च निष्ट्यः ।
अप तस्य बलं तिर महीव द्यौर्वधत्मना ॥३॥