अथर्ववेदः/काण्डं २/सूक्तम् २३

विकिस्रोतः तः
← सूक्तं २.२२ अथर्ववेदः - काण्डं २
सूक्तं २.२३
अथर्वा।
सूक्तं २.२४ →
दे. आपः। (एकावसानम्) १-४ समविषमा गायत्री,५ स्वराड्विषमा।

आपो यद्वस्तपस्तेन तं प्रति तपत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
आपो यद्वस्हरस्तेन तं प्रति हरत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
आपो यद्वस्ऽर्चिस्तेन तं प्रति अर्चत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
आपो यद्वस्शोचिस्तेन तं प्रति शोचत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
आपो यद्वस्तेजस्तेन तमतेजसं कृणुत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥


सायणभाष्यम्


आपो यद्वस्तपस्तेन तं प्रति तपत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥

आपः । यत् । वः । तपः । तेन । तम् । प्रति । तपत । यः ०० ॥१॥


आपो यद्वस्हरस्तेन तं प्रति हरत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥

आपः । यत् । वः । हरः । तेन । तम् । प्रति । हरत । यः ०० ॥२॥


आपो यद्वस्ऽर्चिस्तेन तं प्रति अर्चत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥

आपः । यत् । वः । अर्चिः । तेन । तम् । प्रति । अर्चत । यः ०० ॥३॥


आपो यद्वस्शोचिस्तेन तं प्रति शोचत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥

आपः । यत् । वः । शोचिः । तेन । तम् । प्रति । शोचत । यः ० ० ॥ ४ ॥


आपो यद्वस्तेजस्तेन तमतेजसं कृणुत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥

आपः । यत् । वः । तेजः । तेन । तम् । अतेजसम् । कृणुत । यः ०० ॥ ५ ॥


इति द्वितीयकाण्डे चतुर्थेऽनुवाके तृतीयचतुर्थपञ्चमषष्ठसूक्तानि।