अथर्ववेदः/काण्डं २/सूक्तम् २४
← सूक्तं २.२३ | अथर्ववेदः - काण्डं २ सूक्तं २.२४ ब्रह्मा। |
सूक्तं २.२५ → |
दे. आयुष्यम्। पङ्क्तिः, १-२ पुरउष्णिक्, ३-४ पुरोदेवत्या पङ्क्तिः (१-४ विराट्), ५-८ पञ्चपदा पथ्यापङ्क्तिः (५ भुरिक्, ६-७ निचृत्, ५ चतुष्पदा बृहती, ७-८ भुरिक्) |
शेरभक शेरभ पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥१॥
शेवृधक शेवृध पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥२॥
म्रोकानुम्रोक पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥३॥
सर्पानुसर्प पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥४॥
जूर्णि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥५॥
उपब्दे पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥६॥
अर्जुनि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥७॥
भरूजि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥८॥
सायणभाष्यम्
‘शेरभक' इति सप्तमसूक्तेन अलक्ष्मीविनाशकर्मणि समुद्रमध्ये शापेटस्थेऽग्नौ हुत्वा चरुं संपात्य अभिमन्त्र्य प्राश्नीयात् ।
तथा तस्मिन्नेव कर्मणि 'शेरभक' इत्यनेनैव सूक्तेन खण्डितयवानां सक्तुं रक्तवर्णाया अजाया दध्युदके क्षिप्त्वा आज्येन हुत्वा संपात्य अभिमन्व्य अश्नीयात् ।।
तथैव तस्मिन्नेव कर्मणि अनेन सूक्तेन तृणग्रन्थीन् कृत्वा उदपात्रे प्रत्यृचं विस्रस्य तेनोदकेन आप्लावनं मुखमार्जनं च कुर्यात् ।
उक्तं हि सूत्रे – “'शेरभक' इति सामुद्रम् अप्सु कर्म व्याख्यातम् अनपहतधाना लोहिताजाया द्रप्सेन संनीयाश्नाति' ( कौसू १९,९,१० )
शेरभक शेरभ पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥१॥
शेरभक । शेरभ । पुनः । वः । यन्तु । यातवः । पुनः । हेतिः । किमीदिनः ।
यस्य । स्थ । तम् । अत्त । यः । वः । प्र॒ऽअहैत् । तम् । अत्त । स्वा । मांसानि । अत्त ॥१॥
हे शेरभक स्वाश्रितानां सुखस्य प्रापक । शरभवत् सर्वेषां हिंसको वा शेरभः यातुधानाधिपतिः। असौ ग्रामणीः प्रधानभूतो यस्य तत्सचिवादेः स शेरभकः । 'स एषां ग्रामणीः' (पा ५,२,७८ ) इति कन्प्रत्ययः। हे शेरभ यातुधानाधिपते हे शेरभक तत्स्वामिक सचिवादे वः युष्मदीया अलक्ष्मीकरा युष्माभिः अस्मदभिमुखं प्रेरिता यातवः राक्षसाः पुनर्यन्तु अस्मत्तः प्रतिनिवर्तन्ताम् । तथा हेतिः हननसाधनं युष्मदीयम् आयुधजातं प्रतिनिवर्तताम् । किमीदिनः किम् इदानीं किम् इदानीं वर्तते, किम् इदं किम् इदम् इति वा पैशुन्यार्थे चरन्तीति किमीदिनश्चोराः । आह च यास्कः--'किमीदिने किम् इदानीम् इति चरते किम् इदं किम् इदम् इति वा पिशुनाय चरते' ( नि ६,११ ) इति । युष्मदीयास्तथाविधा अनुचराश्च । पुनर्यन्तु इति संबन्धः । प्रतिनिवृत्तानां तेषां कर्तव्यम् आह--हे शेरभादयः सपरिकरा राक्षसाः यूयं यस्य स्थ यस्य अस्मद्विरोधिनः समीपे भवथ तम् अत्त भक्षयत । यः प्रयोक्ता वः युष्मान् प्राहैत् प्राहैषीत् अस्मत्सकाशं प्रेषितवान् तम् अत्त तमपि भक्षयत । हि गतौ । लुङि सिचि वृद्धौ ‘बहुलं छन्दसि' (पा ७,३,९७) इति अपृक्तप्रत्ययस्य ईडभावे 'स्कोः संयोगाद्योः' ( पा ८,२,२९) इति सलोपः । अदने रुचिम् उत्पादयति सेत्यादिना । साँ। 'सुपां सुलुक्' (पा ७,१,३९ ) इति षष्ठ्याः सुः। लिङ्गव्यत्ययः । तस्य शत्रोः मांसान्यत्त । यद्वा सा हेतिः यूयं च शत्रोर्मांसानि भक्षयत । प्रेरकजीवने प्रतिनिवृत्तानामपि रक्षसां पुनःपुनःप्रेषणसंभवात् तत्प्रेरकनाशनकथनेन तेषां पुनरागमनं निरस्तम् इति भावः ।
शेवृधक शेवृध पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥२॥
शेवृधक । शेवृध । पुनः । वः । यन्तु । यातवः । ०० ॥ २ ॥
हे शेवृधक स्वाश्रितानां सुखस्य वर्धक । वृधेरन्तर्णीतण्यर्थाद् इगुपधलक्षणः कः। शेवृधो ग्रामणीर्यस्य सचिवादेः स शेवृधकः । अन्यत् पूर्ववत् ।
म्रोकानुम्रोक पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥३॥
म्रोक । अनुऽम्रोक । पुनः । वः । यन्तु । यातवः । ० ० ॥ ३ ॥
हे म्रोक । म्रोचति धनादिकम् अपहृत्य छन्नः सन् गच्छतीति म्रोकः। म्रोकम् अनुसृत्य गच्छतीति अनुम्रोकः । म्रुचु म्लुचु गतौ । 'पुंसि संज्ञायां घः प्रायेण' (पा ३,३,११८) इति व्यत्ययेन कर्तरि घः। 'चजोः कु घिण्ण्यतोः' (पा ७,३,५२ ) इति कुत्वम् । उक्तम् अन्यत् ।
सर्पानुसर्प पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥४॥
सर्प । अनुऽसर्प । पुनः । वः । यन्तु । यातवः । ०० ॥ ४ ॥ .
हे सर्प । सर्पति कुटिलं गच्छतीति सर्पः एतत्संज्ञो यातुधानाधिपतिः । तम् अनुसृत्य गच्छतीति अनुसर्पः। सृप्लृ गतौ इत्यस्मात् पचाद्यच् । गतम् अन्यत् ।
जूर्णि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥५॥
जूर्णि । पुनः । वः । यन्तु । यातवः । पुनः । हेतिः । किमीदिनीः । ०० ॥ ५ ॥
जीर्यति जीर्णं भवति प्राणिशरीरम् अनयेति जूर्णिः एतत्संज्ञा राक्षसी तस्याः संबुद्धिः । जॄ वयोहानौ इत्यस्मात् करणे क्तिन् । 'बहुलं छन्दसि' (पा ७,१,१०३) इति अनोष्य् पूर्वस्यापि उत्वम् । 'ऋकारत्वादिभ्यः क्तिन् निष्ठावद् भवतीति वक्तव्यम्' ( पावा ८,२,४४ ) इति निष्ठावद्भावाद् नत्वम् । यद्वा ज्वरति अनयेति करणे क्तिन् । 'ज्वरत्वर' (पा ६,४,२० ) इत्यादिना वकारोपधयोरूठ् । छान्दसं नत्वम् संबुद्धिगुणाभावश्च । यद्वा 'वीज्याज्वरिभ्यो निः' ( पाउ ४,४८) इति औणादिको निप्रत्ययः । पूर्ववद् ऊठ् । 'कृदिकारादक्तिनः' (पाग ४,१,४५) इति ङीषि 'अम्बार्थनद्योर्ह्रस्वः' (पा ७,३,१०७) इति ह्रस्वत्वम् । जूर्णेः स्त्रीत्वाद् यातवोऽत्र यातुधान्यः । किम् इदानीं किम् इदानीम् इति चरन्त्यो राक्षस्यः किमीदिन्यः' । जसि ‘वा छन्दसि' ( पा ६,१,१०६) इति पूर्वसवर्णदीर्घः । अन्यत् समानम् ।
उपब्दे पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥६॥
उपब्दे । पुनः । वः । यन्तु । यातवः । ०० ॥ ६ ॥
हे उपब्दे क्रूरशब्दकारिणि । उपपूर्वाद् वदतेः शब्दनार्थात्, पद्यतेर्वा, बद स्थैर्य इत्यस्माद् वा 'सर्वधातुभ्यः इन्' ( पाउ ४,११८) इति इन् । पृषोदरादित्वाद् रूपसिद्धिः । गतम् अन्यत् ।
अर्जुनि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥७॥
अर्जुनि । पुनः । वः । यन्तु । यातवः । ०० ॥ ७ ॥
हे अर्जुनि अर्जुनशीले अर्जुनवर्णे वा । अन्यत् समानम् ।
भरूजि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥८॥
भरूजि । पुनः । वः । यन्तु । यातवः । ०० ॥८॥
हे भरूचि भ्रियते पोष्यत इति भरुः शरीरम् । तद् अपहर्तुम् अञ्चति गच्छतीति भरूची । डुभृञ् धारणपोषणयोः इत्यस्मात् 'भृमृशी' ( पाउ १,७ ) इत्यादिना उप्रत्यये भरुः। तस्मिन्नुपपदे 'ऋत्विग्' (पा ३,२,५९ ) इत्यादिना अञ्चतेः क्विन् । 'अञ्चतेश्चोपसंख्यानम्' (पावा ४,१,६) इति ङीप् । 'अचः (पा ६,४,१३८) इत्यकारलोपे 'चौ' (पा ६,३,१३८) इति दीर्घः। उक्तम् अन्यत् ।
इति द्वितीये काण्डे चतुर्थेऽनुवाके सप्तमं सूक्तम् ।