अथर्ववेदः/काण्डं २/सूक्तम् २२

विकिस्रोतः तः
← सूक्तं २.२१ अथर्ववेदः - काण्डं २
सूक्तं २.२२
अथर्वा।
सूक्तं २.२३ →
दे. चन्द्रः। (एकावसानम्) १-४ नृचिद्विषमा गायत्री,५ भुरिग्विषमा।

चन्द्र यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
चन्द्र यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
चन्द्र यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
चन्द्र यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
चन्द्र यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥


सायणभाष्यम्

चन्द्र यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥

चन्द्र । यत् । ते । तपः । तेन । तम् । प्रति । तप । यः ० ० ॥ १ ॥


चन्द्र यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥

चन्द्र । यत् । ते । हरः । तेन । तम् । प्रति । हर । यः ०० ॥२॥


चन्द्र यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥

चन्द्र । यत् । ते । अर्चिः । तेन । तम् । प्रति । अर्च । यः ०० ॥३॥


चन्द्र यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥

चन्द्र । यत् । ते । शोचिः । तेन । तम् । प्रति । शोच । यः ० ० ॥ ४ ॥


चन्द्र यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥

चन्द्र । यत् । ते । तेजः । तेनं । तम् । अतेजसम् । कृणु । यः ० ० ॥५॥


इति चतुर्थेऽनुवाके पञ्चमं सूक्तम् ।