सामग्री पर जाएँ

अथर्ववेदः/काण्डं २/सूक्तम् १३

विकिस्रोतः तः
← सूक्तं २.१२ अथर्ववेदः - काण्डं २
सूक्तं २.१३
अथर्वा
सूक्तं २.१४ →
दे. अग्निः, २-३ बृहस्पतिः, ४-५ विश्वे देवाः। त्रिष्टुप्, ४ अनुष्टुप्, ५ विराड्जगती ]]

आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।
घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षतादिमम् ॥१॥
परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।
बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥२॥
परीदं वासो अधिथाः स्वस्तयेऽभूर्गृष्टीनामभिशस्तिपा उ ।
शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥३॥
एह्यश्मानमा तिष्ठाश्मा भवतु ते तनूः ।
कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥४॥
यस्य ते वासः प्रथमवास्यं हरामस्तं त्वा विश्वेऽवन्तु देवाः ।
तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥५॥


सायणभाष्यम्

'आयुर्दाः' इति सूक्तं गोदानाख्ये संस्कारकर्मणि शान्त्युदके अनुयोजयेत् । तत्रैव कर्मणि अनेनैव सूक्तेन आज्यं हुत्वा ब्रह्मचारिणो मूर्ध्नि संपातान् आनयेत्। " 'आयुर्दाः' इति गोदानं कारयिष्यन्” इति प्रक्रम्य सूत्रितम् 'शान्त्युदकं करोति । तत्रैतत् सूक्तम् अनुयोजयति' इति, “ 'आयुर्दाः' इत्येतेन सूक्तेन आज्यं जुह्वन् मूर्ध्नि संपातान् आनयति" ( कौसू ५३,१-७ ; १३ ) इति च।

तत्रैव कर्मणि 'परि धत्त' (२,३) इति द्वाभ्यां नवं वासः प्रयच्छेत् । 'एह्यश्मानम्' [४] इत्यनया दक्षिणेन पादेन अश्मानम् आस्थापयेत् । 'यस्य ते वासः' (५) इत्यनया पूर्वपरिहितं वासः कर्ता गृह्णीयात् । “अथैनम् अहतेन वसनेन परिधापयति 'परिधत्त' इति द्वाभ्याम् । 'एह्यश्मानम्'” ( कौसू ५४,७; ८) इत्यादि सूत्रम् अत्र द्रष्टव्यम्।

तथा 'परि धत्त' (२;३) इति द्व्यृचेन पुरोहितः प्रातःप्रातर्वस्त्रम् अभिमन्त्र्य राज्ञे दद्यात् । उक्तं परिशिष्टे--'अथ पुरोहितकर्माणि' इति प्रक्रम्य “ 'परि धत्त' इति द्वाभ्यां राज्ञो वस्त्रम् अभिमन्त्र्य प्रयच्छेत् " (अप ४,१,१-४) इति ।

तथा आरात्रिकविधाने चतस्रः शर्कराः प्रतिदिशं क्षिप्त्वा पञ्चमीम् ‘एह्यश्मानम्' (४) इत्यनया राजानम् आस्थापयेत् । उक्तं परिशिष्टे--" एह्यश्मानम् आ तिष्ठ' इति पञ्चमीम् अधिष्ठापयेत्” ( अप ४,४,६) इति ।


आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।

घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षतादिमम् ॥१॥

आयुःऽदाः । अग्ने । जरसम् । वृणानः । घृतऽप्रतीकः । घृतऽपृष्ठः । अग्ने ।

घृतम् । पीत्वा । मधु । चारु । गव्यम् । पिताऽइव । पुत्रान् । अभि । रक्षतात् । इमम् ॥ १ ॥

हे अग्ने आयुर्दाः आयुषो दाता। माणवकस्य भवेति शेषः। कियत्पर्यन्तं तद् आयुरिति तत्राह -- जरसम् जरां वृणानः संभजमानः। जरापर्यन्तं शतसंवत्सरपरिमितं दीर्घम् आयुः प्रयच्छेत्यर्थः। हे अग्ने त्वं घृतप्रतीकः घृताहुतिभिः उद्भूतज्वालारूपावयवः घृतपृष्टः घृतमेव पृष्ठं पृष्ठवंशवत् सर्वावयवाधारभूतं गात्रं यस्य स तथोक्तः। घृतोपादानकशरीर इत्यर्थः। यत एवम् अतो हेतोः मधु मधुरं चारु निर्मलं मन्त्रसिद्धं गव्यम् गवि भवम् । 'सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यद् वक्तव्यः' ( पावा ४,१,८५ ) इति यत् । 'यतोऽनावः' (पा ६,१,२१३ ) इत्याद्युदात्तत्वम् । एवंगुणविशिष्टं घृतम् अस्माभिर्हुतं पीत्वा यथेच्छं स्वीकृत्य तुष्टः सन् पिता जनकः पुत्रान् आत्मीयानिव इमम् माणवकम् अभि रक्षतात् अभिरक्ष। पिता यथा सापराधानपि पुत्रान् पालयति एवं त्वम् एनं पाहीत्यर्थः । रक्ष पालने । लोण्मध्यमैकवचने हेस्तातङ् आदेशः।।


परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।

बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥२॥

परि । धत्त । धत्त । नः । वर्चसा । इमम् । जराऽमृत्युम् । कृणुत । दीर्घम् । आयुः।

बृहस्पतिः । प्र । अयच्छत् । वासः । एतत् । सोमाय । राज्ञे । परिऽधातवै । ऊं इति ॥२॥

वाससः सर्वदेवत्यत्वात् तदभिमानिदेवानामेव संबोध्यत्वम् । तथात्वं च वाससः तैत्तिरीयके समाम्नायते--'अग्नेस्तूषाधानम्' इति प्रक्रम्य 'तद् वा एतत् सर्वदेवत्यं यद् वासः' (तै ६,१,१,३; ४ ) इति । हे देवाः परि धत्त । अन्तर्भावितण्यर्थः। इमम् माणवकं वासः परिधापयत । नः अस्मदीयम् इमं वर्चसा तेजसा धत्त पोषयत । तेजस्विनं कुरुतेत्यर्थः । किञ्च । इममेव माणवकं जरामृत्युम् । जरयैव मृत्युर्मृतिर्यस्य स तथोक्तः। तथाविधं कृणुत कुरुत । अकालमृतिर्मा भूद् इत्यर्थः। एतदेव आह -- दीर्घम् इति । अस्य माणवकस्य दीर्घं शतपरिमितम् आयुरस्तु। तदेव वासः प्रशंसति -- बृहस्पतिः ब्रहताम् इन्द्रादीनां पतिः एतन्नामा देवः। 'तद्बृहतोः करपत्योः ( पाग ६,१,१५७ ) इति सुट्तलोपौ । 'पत्यावैश्वर्ये' (पा ६,२,१८ ) इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते 'उभे वनस्पत्यादिषु युगपत् ' (पा ६,२,१४०) इत्युभयपदप्रकृतिस्वरत्वम् । एतन्नामा देवः एतत् प्रकृतं वासः सोमाय राज्ञे ब्राह्मणानां स्वामिने । सोमोऽस्माकं ब्राह्मणानां राजा' (तै १.८,१०,२) इति श्रुतेः। परिधातवै परिधातुम् । 'तुमर्थे सेसेन्” (पा ३,४,९) इति तवैप्रत्ययः। 'तवै चान्तश्च युगपत्' (पा ६,२,५१) इति उभयपदप्रकृतिस्वरत्वम् । प्रायच्छत् अददात् । दाण् दाने इत्यस्मात् लङि 'पाघ्रा' (पा ७,३,७८ ) इत्यादिना यच्छादेशः। उ इति पदपूरणः। अनेन वस्त्राणां सोमदेवताकत्वं सूचितम् । तथा च श्रुत्यन्तरम् -– 'सौम्यं वै वासः। स्वयैवैनद् देवतया प्रतिगृह्णाति' (तैब्रा २,२,५,२) इति ।


परीदं वासो अधिथाः स्वस्तयेऽभूर्गृष्टीनामभिशस्तिपा उ ।

शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥३॥

परि । इदम् । वासः । अधिथाः । स्वस्तये । अभूः । गृष्टीनाम् । अभिशस्तिऽपाः। ऊं इति ।

शतम् । च । जीव । शरदः । पुरूचीः । रायः । च । पोषम् । उपऽसंव्ययस्व ॥ ३ ॥

हे माणवक इदम् उक्तं वासः वस्त्रं स्वस्तये क्षेमाय पर्यधिथाः परिहितवानसि । परिपूर्वाद् धाञो लुङि 'स्थाध्वोरिच्च' (पा १,२,१७ ) इति इत्त्वकित्त्वे । ह्रस्वादङ्गात्' (पा ८,२,२७ ) इति सिज्लोपः। तेन परिधानेन गृष्टीनाम् गवाम् अभिशस्तिपाः । अभिशस्तिः अभितो विशसनं हिंसा। तन्निमित्ताद् भयात् पालकोऽभूः । पुरा खलु देवा मनुष्याणां दृढतरां त्वचं छित्त्वा क्षीरप्रदानक्षेत्रकर्षणभारोद्वहनादिबहुविधोपकारकारिषु गोषु न्यदधुः । ते च तया त्वचा संवीतगात्राः शीतवातातपादिसहनशीला बभूवुः । अत एव कारणाद् नग्नं पुरुषं दृष्ट्वा स्वकीयां त्वचम् अस्मासु स्थिताम् असौ ग्रहीतुम् आगच्छतीति बिभ्यति । तस्माद् गोसमीपं विवसनो न गच्छेद् इति। तथा च शतपथब्राह्मणे तृतीयकाण्डे दीक्षाप्रकरणे समाम्नायते- अथ वासः परिधत्ते । सर्वत्वायैव स्वामेवास्मिन्नेतत् त्वचं दधाति । या ह वा इयं गोस्त्वक् पुरुषे हैषाग्र आस । ते देवा अब्रुवन् । गौर्वा इदं सर्वं बिभर्ति । हन्त येयं पुरुषे त्वग् गव्येतां दधाम । तयैषा वर्षन्तं तया हिमं तया घृणिं तितिक्षिष्यत इति । तेऽवच्छाय पुरुषं गव्येतां त्वचम् अदधुः । तयैषा वर्षन्तं तया हिमं तया घृणिं तितिक्षते। अवच्छितो हि वै पुरुषः । तस्माद् अस्य यत्रैव क्व च कुशो वा यद् वा विकृन्तति तत एव लोहितम् उत्पतति तस्मिन्नेतां त्वचम् अदधुर्वास एव। तस्मान्नान्यः पुरुषाद् वासो बिभर्त्येतां ह्यास्मिंस्त्वचमदधुः तस्मादु सुवसा एव बुभूषेत् । स्वया त्वचा समृद्ध्या इति तस्मादप्यश्लीलं सुवाससं दिदृक्षन्ते स्वया हि त्वचा समृद्धो भवति । नो हान्ते गोर्नग्नः स्यात् । वेद ह गौरहम् अस्य त्वचं बिभर्मीति । सा बिभ्यती त्रसति त्वचं म आदास्यत' ( शब्रा ३,१,२,१३-१७ ) इति । एषैव त्वगादानभीतिः अत्र अभिशस्तिशब्देन विवक्षिता। तस्या अभिशस्तेर्वासः परिधानेन ता निवर्तयेत्यभिप्रायः। किञ्च पुरूचीः बहुकालम् अञ्चन्तीः बहुविधान पुत्रपौत्रादीन् वा व्याप्नुवतीः । पुरुपूर्वाद् अञ्चतेः 'ऋत्विग्' (पा ३,२,५६ ) इत्यादिना क्विन् । 'अनिदिताम्” ( पा ६,४,२४ ) इति नलोपः। 'अञ्चतेश्चोपसंख्यानम्' ( पावा ४,१,६ ) इति ङीप् । 'अचः' (पा ६,४, १३८) इत्यकारलोपे 'चौ (पा ६,३,१३८) इति दीर्घः । शतम् शतसंख्याकाः शरदः संवत्सरान् जीव । अपिच रायः धनस्य पोषम् पुष्टिं समृद्धिम् उपसंव्ययस्व परिधत्स्व । एतद्वासःपरिधानेन धनादिसमृद्धिर्भवतीति भावः।


एह्यश्मानमा तिष्ठाश्मा भवतु ते तनूः ।

कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥४॥

आ। इहि । अश्मानम् । आ । तिष्ठ । अश्मा । भवतु । ते । तनूः ।

कृण्वन्तु । विश्वे । दे॒वाः । आयुः । ते । शरदः । शतम् ॥ ४ ॥

हे माणवक एहि आगच्छ । अश्मानम् आ तिष्ठ दक्षिणेन पादेन आक्राम। ते तव तनुः शरीरम् अश्मा भवतु । अश्मवद् रोगादिविनिर्मुक्तं दृढं भवतु । विश्वे देवाश्च ते तव शरदः शतम् शतसंवत्सरपरिमितम् आयुः कृण्वन्तु कुर्वन्तु । 'युष्मत्तत्ततक्षुःष्वन्तःपादम्' (पा ८,३,१०३ ) इति सकारस्य षत्वम् ।


यस्य ते वासः प्रथमवास्यं हरामस्तं त्वा विश्वेऽवन्तु देवाः ।

तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥५॥

यस्य । ते । वासः । प्रथमऽवास्यम् । हरामः । तम् । त्वा । विश्वे । अवन्तु । दे॒वाः ।

तम् । त्वा । भ्रातरः । सुवृधा । वर्धमानम् । अनु । जायन्ताम् । बहवः । सुऽजातम् ॥५॥

हे माणवक यस्य परिहितवस्त्रस्य ते तव प्रथमवास्यम् पूर्वं परिहितं वासः वस्त्रं हरामः स्वीकुर्मः । वस आच्छादने इत्यस्मात् 'ऋहलोर्ण्यत्' (पा ३,१,१२४ ) इति कर्मणि ण्यत् । 'तित् स्वरितम्' (पा ६,१,१८५) इति स्वरितत्वम् । तम् तादृशं त्वा त्वां विश्वे सर्वे देवा अवन्तु रक्षन्तु । तम् उक्तरूपं सुवृधा शोभनया वृद्ध्या वर्धमानम् पशुपुत्रधनादिभिरुपचीयमानं सुजातम् संस्कारविशेषेण शोभनजन्मयुक्तं त्वा त्वाम् अनु बहवो भ्रातरो जायन्ताम् उत्पद्यन्ताम्।


इति द्वितीयकाण्डे तृतीयेऽनुवाके तृतीयं सूक्तम् ।