सामग्री पर जाएँ

अथर्ववेदः/काण्डं २/सूक्तम् १४

विकिस्रोतः तः
← सूक्तं २.१३ अथर्ववेदः - काण्डं २
सूक्तं २.१४
चातनः।
सूक्तं २.१५ →
दे. शालाग्निदैवत्यम्। अनुष्टुप्, २ भुरिक्, ४ उपरिष्टाद्विराड्बृहती।

निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम् ।
सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः ॥१॥
निर्वो गोष्ठादजामसि निरक्षान् निरुपानशात्।
निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे ॥२॥
असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः ।
तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥३॥
भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः ।
गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥४॥
यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः ।
यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ॥५॥
परि धामान्यासामाशुर्गाष्ठामिवासरम् ।
अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः ॥६॥


सायणभाष्यम्

'निःसालाम्' इति सूक्तेन मृतापत्यायाः स्त्रिया अपत्यनाशपरिहाराय त्रिषु मण्डपेषु एकैकस्मिन्नुदपात्रे सीसेषु च संपातानयनम् सीसोपरि स्थितायास्तस्याः संपातितोदकेन आप्लावनं च कृत्वा स्वगृहम् आनीय शान्त्युदकेन अभिषिच्य तस्यै पुरोडाशकन्दुकालङ्कारान् अभिमन्त्र्य दद्यात् ।

अथवा एकस्मिन्नेव मण्डपे अनेन सूक्तेन औदुम्बरीः समिधस्तया आधाप्य पूर्ववत् शान्त्युदकाभिषेकादिकं कुर्यात् ।

सूत्रितं हि -- “ 'निःसालाम्' इत्यवतोकायै कृष्णवसनायै त्रिषु विमितेषु” इत्यादि औदुम्बरीराधापयति उक्तम् आव्रजितायै' (कौसू ३४,३-११) इत्यन्तम् ।

यस्य गृहे गवादिर्वन्ध्या भवति तद् गृहं दैवहतं भवति तद्दोषनिवृत्तये तयैव वशया यागः कार्यः। तत्र अनेन सूक्तेन तस्याः पर्यग्निकरणं कुर्यात् । “ 'य आत्मदा' (अ ४,२) इति वशाशमनम्” इति प्रक्रम्य सूत्रितम् । “निःसालाम्' इत्युल्मुकेन त्रिः प्रसव्यं परिहरति” ( कौसू ४४,१-११) इति।

आवसथ्याधाने क्रव्यादाग्निनिर्हरणानन्तरं शालाप्रोक्षणेपि एतत् सूक्तं विनियुक्तम् । 'एकाग्निम् आधास्यन्' इति प्रक्रम्य सूत्रितम् “ 'निःसालाम्' इति शालानिवेशनं संप्रोक्ष्य 'ऊर्जं बिभ्रत्' ( अ ७,६२) इति प्रपादयति" ( कौसू ६९,१-७२,५) इति। ।

एतत् सूक्तं चातनगणेऽपि पठितम् । अतः 'चातनानाम् अपनोदनेन व्याख्यातम्' (कौसू २५,२२), 'चातनो मातृनामा च' (शाक २३,१), 'चातनैर्मातृनामभिः' (शाक १५[?]) इत्यादिप्रदेशेष्वपि एतत् सूक्तं द्रष्टव्यम् ।


निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम् ।

सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः ॥१॥

निःऽसालाम् । धृष्णुम् । धिषणम् । एकऽवाद्याम् । जिघत्ऽस्वम् ।

सर्वाः । चण्डस्य । नप्त्यः । नाशयामः । सदान्वाः ॥ १॥

निःसालाम् । षल गतौ। निःसालयति निर्गमयति अपसारयतीति निःसाला एतन्नामधेया पिशाची । यद्वा सालो वृक्षविशेषः। ततो निर्गता निःसाला । ततोऽपि उन्नतगात्रीत्यर्थः । तां धृष्णुम् धर्षणशीलां भयस्य जनयित्रीम् एतन्नामिकां पिशाचीम् । 'त्रसिगृधिधृषिक्षिपेः क्नुः' (पा ३,२,१४०)। धिषणम् । धृष्णोति अभिभवतीति धिषणः। 'धृषेर्धिष च संज्ञायाम्' ( पाउ २,८२) इति क्युः । एतन्नामानं पापग्रहम् । एकवाद्याम् एकम् एकप्रकारं परुषरूपं वाद्यं वचनं यस्याः सा तथोक्ता । यद्वा एकवारमेव वाद्यं वचनं यस्याः सा । सकृद्भाषिणीत्यर्थः। ताम् एतन्नामिकां ज़िघत्स्वम् जिघत्सुं भक्षणेच्छुम् । सर्वदा भक्षणशीलाम् इत्यर्थः । अदेः सनि घस्लादेशे 'सः स्यार्धधातुके' (पा ७,४,४९) इति तत्वम्। 'सनाशंसभिक्ष उः' (पा ३,२,१६८ ) इति उप्रत्ययः । 'वा छन्दसि' (पा ६,१,१०६ ) इति अमिपूर्वत्वस्य विकल्पनाद् यणादेशः । तां च । नाशयाम इति सर्वत्र संबन्धः । तथा चण्डस्य क्रुद्धस्य एतन्नामकस्य पापग्रहस्य नप्त्यः नप्त्रीः अपत्यभूताः सर्वाः निखिलाः सदान्वाः सदा नोनूयमानाः आक्रोशकारिणीः पिशाचीश्च नाशयामः । उक्तं यास्केन -- “ 'सदान्वे' ( निघ ४,३ ) । सदानोनुवे शब्दकारिके" ( नि ६,३०) इति । नौतेः शब्दकर्मणो यङ्लुगन्तात् पचाद्यचि ‘द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्' ( पावा ६,१,८ ) इति वचनाद् द्विर्वचनाभावः । 'न धातुलोप आर्धधातुके' (पा १,१,४) इति गुणप्रतिषेधे छान्दसो यणादेशः।


निर्वो गोष्ठादजामसि निरक्षान् निरुपानशात्।

निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे ॥२॥

निः । वः । गोऽस्थात् । अजामसि । निः । अक्षात् । निः । उपऽआनसात् ।

निः । वः । मगुन्द्याः । दुहितरः । गृहेभ्यः । चातयामहे ॥ २ ॥

हे मगुन्द्या दुहितरः मगुन्दी नाम काचन पिशाची तस्याः पुत्र्यः वः युष्मान् गोष्ठात् । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठं गोशाला। 'घञर्थे कविधानम्' ( पावा ३,३,५८) इति कः। 'अम्बाम्बगोभूमि' ( पा ८,३,९७ ) इत्यादिना षत्वम् । तस्माद गोष्ठात् निरजामसि निरजामः निःसारयामः । अज गतिक्षेपणयोः। 'इदन्तो मसि' ( पा ७,१,४६ )। तथा अक्षात् अक्षक्रीडास्थानाद द्यूतशालायाः सकाशाद् निरजामः। एवम् उपासनात्। अनसः समीपम् उपानसं धान्यगृहम। तस्माद् निरजामः। 'अव्ययीभावे शरत्प्रभृतिभ्यः' (पा ५,४,१०७) इति शरत्प्रभृतिषु अनःशब्दस्य पाठात् टच् समासान्तः। यद्वा उपगतं च तद् अनश्च उपानसं धान्यपूर्णं शकटम् । 'अनोश्मायःसरसां जातिसंज्ञयोः (पा ५,४,९४ ) इति तत्पुरुषे टच् समासान्तः। तथा गृहेभ्यः आवासमन्दिरेभ्यो वः युष्मान् निश्चातयामहे निःसार्य निःशेषेण वा विनाशयामः। 'चातयतिर्नाशने' (नि ६,३० ) इति यास्कः।


असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः ।

तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥३॥

असौ । यः । अधरात् । गृहः । तत्र । सन्तु । अराय्यः ।

तत्र । सेदिः । नि । उच्यतु । सर्वाः । च । यातुऽधान्यः ॥ ३ ॥

असौ विप्रकृष्टो यः प्रसिद्धः अधरात् अधरः अस्माल्लोकाद् अधरभूतः अधस्ताद्देशे वा वर्तमानो गृहः गृहवन्निवासभूतः पाताललोकोस्ति। 'उत्तराधरदक्षिणादातिः' (पा ५.३.३४ ) इति आतिप्रत्ययः । तत्र लोके अराय्यः अदायिन्यः दानोपलक्षितनिखिलश्रेयोविघ्नकारिण्यः एतत्संज्ञिकाः पिशाच्यः सन्तु। इमं लोकं विसृज्य अत्यन्तविप्रकृष्टं पातालं गच्छन्तु इत्यर्थः। रा दाने इत्यस्मात् नञ्युपपदे सुप्यजातौ णिनिस्ताच्छील्ये' (पा ३,२,७८ ) इति णिनिः। छान्दसोऽन्त्यलोपः। यद्वा रायते दीयत इति रायो धनम। कर्मणि घञ् । न रायः अरायः अधनम् आसाम् अस्तीत्यराय्यः अलक्ष्म्यः । 'छन्दसीवनिपौ' ( पावा ५,२,१०९) इति मत्वर्थीय ईकारः। 'अरायि काणे विकटे गिरिं गच्छ सदान्वे' ( ऋ १०,१५५,१) इति हि श्रुत्यन्तरम् । सादयति नाशयतीति सेदिर्निर्ऋतिः । 'जहामि सेदिम् अनिराम् अमीवाम्' (तै ४,२,७,२ ) इति श्रुत्यन्तरात् । 'उत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्' ( पावा ३,२,१७१ ) इति सदः किप्रत्ययः । तस्य लिड्वद्भावाद् द्विर्वचने एत्वाभ्यासलोपौ। सापि तत्र पाताले न्युच्यतु । नीचीना समवैतु । इमं लोकं विहाय पूर्वोक्ताभिः सह निवसतु इत्यर्थः। उच समवाये दिवादिः। किञ्च सर्वाः निखिला यातुधान्यः यातवो यातनाः पीडास्ताः प्राणिभ्यो धीयन्ते क्रियन्त आभिरिति यातुधान्यः उक्ताभ्योऽन्याः पिशाच्यः । करणे ल्युट् । तत्र न्युच्यन्तु इति वचनविपरिणामेन संबन्धः ।


भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः ।

गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥४॥

भूतऽपतिः । निः । अजतु । इन्द्रः । च । इतः । सदान्वाः ।

गृहस्य । बुध्ने । आसीनाः । ताः । इन्द्रः । वज्रेण । अधि । तिष्ठतु ॥ ४ ॥

भूतपतिः भूतानां पालको रुद्रः सदान्वाः सदा नोनूयमाना आक्रोशकारिणीः पिशाचीः इतः अस्माद् मदीयात् स्थानात् निरजतु निःसारयतु । इन्द्रश्च ता निरजतु। गृहस्य मदीयस्य बुध्ने मूले अधःप्रदेशे। 'बन्धेर्ब्रधिबुधी च' ( पाउ ३,५ ) इति नक्प्रत्ययः। आसीनास्ताः पिशाचीः इन्द्रः इराया भूमेर्दारको देवः। 'इन्द्र इरां दृणातीति वा।xxx। इरां दारयत इति वा' इति हि निरुक्तम् (१०,८)। वज्रेण आयुधेन अधि तिष्ठतु । यथा पुनर्नोत्तिष्ठन्ति तथा आक्रम्य तिष्ठतु इत्यर्थः।


यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः ।

यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ॥५॥

यदि । स्थ । क्षेत्रियाणाम् । यदि । वा । पुरुषऽइषिताः ।

यदि । स्थ । दस्युऽभ्यः । जाताः । नश्यत । इतः । सदान्वाः ॥५॥

हे सदान्वाः। पिशाच्य इति शेषः। यूयं क्षेत्रियाणाम् क्षेत्रात् परक्षेत्रात् मातापितृशरीराद् आगतानां कुष्ठापस्मारग्रहण्यादिरोगाणां निदानभूता यदि स्थ भवथ । यदि वा पुरुषेषिताः पुरुषैः शत्रुभिः प्रेषिता भवथ । इष गतौ इत्यस्मात् कर्मणि निष्ठा । 'तीषसहलुभरुषरिषः' (पा ७,२,४८) इत्यत्र इषु इच्छायाम् इत्यस्यैव ग्रहणात् 'यस्य विभाषा' (पा ७,२,१५) इति तस्यैव निष्ठायाम् इट्प्रतिषेधो न तु इष गतौ इत्यस्य इति निष्ठायाम् इट् भवति । 'तृतीया कर्मणि' (पा ६,२,४८ ) इति पूर्वपदप्रकृतिस्वरत्वम् । दस्युभ्यः उपक्षयकारिभ्यश्चोरादिभ्यः । दसु उपक्षये। 'यजिमनिशुन्धिदसिजनिभ्यो युच्' ( पाउ ३,२०) इति युच्प्रत्ययः । तेभ्यः सकाशात् यदि जाताः प्रादुर्भूताः [स्थ] भवथ । एवं बहुविधम् आगता यूयम् इतः अस्मात् स्थानात् निर्गताः सत्यो नश्यत विनष्टा भवत।


परि धामान्यासामाशुर्गाष्ठामिवासरम् ।

अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः ॥६॥

परि । धामानि । आसाम् । आशुः । गाष्ठामऽइव । असरन् ।

अजैषम् । सर्वान् । आजीन् । वः । नश्यत । इतः । सदान्वाः ॥६॥

आसाम् पिशाचीनां धामानि निवासस्थानानि पर्यसरम् परितः सर्वत आक्रमिषम् । तत्र दृष्टान्तः--आशुः । अश्वनामैतत् । शीघ्रगामी अश्वः ग्लाष्ठामिव । परिधावनेन ग्लानः सन् यत्र तिष्ठति सा ग्लाष्ठा गन्तव्यावधिः आज्यन्तः काष्ठापरपर्यायः। तामिव । असरम् इति । सृ गतौ इत्यस्मात् लुङि ‘सर्तिशास्त्यर्तिभ्यश्च' (पा ३,१,५६) इति च्लेः अङ् । 'ऋदृशोऽङि गुणः' (पा ७,४,१६)। हे सदान्वाः वः युष्माकं सर्वान् आजीन् संग्रामान् अजैषम् जितवान् अस्मि । इतः अस्मात् कारणात् भवदीयस्य निखिलस्य वासस्थानस्य अस्माभिराक्रान्तत्वाद् निराश्रयाः सत्यो यूयं नश्यत ।


इति द्वितीये काण्डे तृतीयेऽनुवाके चतुर्थं सूक्तम् ।