अथर्ववेदः/काण्डं २/सूक्तम् १२

विकिस्रोतः तः
← सूक्तं २.११ अथर्ववेदः - काण्डं २
सूक्तं २.१२
भरद्वाजः
सूक्तं २.१३ →
दे. द्यावापृथिवी, अन्तरिक्षम्, २ देवाः, ३ इन्द्रः, ४ आदित्या वसवोऽङ्गिरसः पितरः, ५ सोम्यासः पितरः, ६ मरुतः, ७ यमसादनम्, ब्रह्म, ८ अग्निः। त्रिष्टुप्, २ जगती, ७-८ अनुष्टुप् ]])

द्यावापृथिवी उर्वन्तरिक्षं क्षेत्रस्य पत्न्युरुगायोऽद्भुतः ।
उतान्तरिक्षमुरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ॥१॥
इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यमुक्थानि शंसति ।
पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति ॥२॥
इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि ।
वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥३॥
अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः ।
इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥४॥
द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् ।
अङ्गिरसः पितरः सोम्यासः पापमार्छत्वपकामस्य कर्ता ॥५॥
अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम् ।
तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥६॥
सप्त प्राणान् अष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा ।
अया यमस्य सादनमग्निदूतो अरंकृतः ॥७॥
आ दधामि ते पदं समिद्धे जातवेदसि ।
अग्निः शरीरं वेवेष्ट्वसुं वागपि गच्छतु ॥८॥


सायणभाष्यम्

'द्यावापृथिवी उरु' इति सूक्तेन अभिचारकर्मणि दीक्षार्थं वेणुदण्डं वृश्चति । सूत्रितं हि -- ‘भरद्वाजप्रव्रस्केनाङ्गिरसं दण्डं वृश्चति' (कौसू ४७,१२) इति । तत्र ‘द्यावापृथिवी उर्वन्तरिक्षम्' इति सूक्तं भरद्वाजप्रव्रस्कम् ।

तथा अनेनैव सूक्तेन द्वेष्यनिषूदनकर्मणि दक्षिणाभिमुखं धावतः शत्रोः पदेषु वृक्षपत्राणि प्रक्षिप्य परशुना छित्त्वा सपांसून् पर्णच्छेदान् वधकपात्रे प्रक्षिप्य आनीय भ्राष्ट्रे भर्जयेत् (तु. कौसू ४७,२५-२८)


द्यावापृथिवी उर्वन्तरिक्षं क्षेत्रस्य पत्न्युरुगायोऽद्भुतः ।

उतान्तरिक्षमुरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ॥१॥

द्यावापृथिवी इति । उरु । अन्तरिक्षम् । क्षेत्रस्य । पत्नी । उरुऽगायः । अद्भुतः ।

उत । अन्तरिक्षम् । उरु । वातऽगोपम् । ते । इह । तप्यन्ताम् । मयि । तप्यमाने ॥१॥

[द्यावापृथिवी] द्यौश्च पृथिवी च द्यावापृथिव्यौ। 'दिवसश्च पृथिव्याम्' (पा ६,३,३०) इति द्यावादेशः । 'वा छन्दसि' (पा ६,१,१०६) इति पूर्वसवर्णदीर्घः । ‘देवताद्वन्द्वे च' (६,२,१४१) इति उभयपदप्रकृतिस्वरत्वम् । उरु विस्तीर्णम् अन्तरिक्षम् तयोर्मध्ये वर्तमानोऽन्तरिक्षलोकः । क्षेत्रस्य। क्षियन्ति निवसन्ति अस्मिन्निति क्षेत्रम् उक्तं लोकत्रयम् । तस्य पत्नी अधिपतिः देवता क्रमेण अग्निवायुसूर्यात्मिका। छान्दसौ ङीम्नकारौ। अद्भुतः । त्रिविक्रमरूपत्वेन सर्वलोकव्यापनाद् आश्चर्यभूतः उरुगायः उरुभिर्महानुभावैर्बहुभिर्वा गीयमानः स्तूयमानः लोकानां पालको विष्णुः। तथा च अन्यत्र आम्नातम् -- 'त्रेधा विष्णुरुरुगायो विचक्रमे' (तैब्रा ३,१,२,६) इति । के गै रै शब्दे। कर्मणि घञ् । 'थाथघञ्क्ताजबित्रकाणाम्' (पा ६,२,१४४ ) इत्यन्तोदात्तत्वम् । उत अपिच वातगोपम् । वातो वायुः सूत्रात्मा गोपाः गोपायिता यस्य, यद्वा वातेन गोप्यमानं धार्यमाणं वातगोपम् । तथा च वाजसनेयकम् –- 'वायुर्वै गौतम तत् सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि' (बृउ ३,७,२)। उरु विस्तीर्णं ब्रह्माण्डान्तर्व्यापि अन्तरिक्षम् महाकाशम् । एवं ये लोकास्तदधिपतयश्च सन्ति ते सर्वे इह अस्मिन् अभिचारकर्मणि मयि अभिचारके तप्यमाने दीक्षानियमेन उपवासादिना क्लिश्यमाने सति तप्यन्ताम् संतप्ता भवन्तु । अहं यथा द्वेष्यं नाशयितुम् उद्युक्तोस्मि एवं भवन्तोऽपि शत्रोः स्थानाद्यप्रदानेन हिंसका भवन्तु इत्यर्थः।


इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यमुक्थानि शंसति ।

पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति ॥२॥

इदम् । देवाः । शृणुत । ये । यज्ञियाः । स्थ । भरत्ऽवाजः । मह्यम् । उक्थानि । शंसति ।

पाशे । सः । बद्धः । दुःऽइते । नि । युज्यताम् । यः। अस्माकम् । मनः । इदम् । हिनस्ति ॥२॥

हे देवाः इदम् वक्ष्यमाणं मद्वाक्यं शृणुत । ये यूयं यज्ञियाः यज्ञार्हाः स्थ भवथ । 'यज्ञर्त्विग्भ्यां घखञौ' (५,१,७१ ) इति घप्रत्ययः। किं तद् इति तद् आह -- भरद्वाज: भरद् देवानां पोषकं वाजो हविर्लक्षणम् अन्नं यस्य सोयं भरद्वाजः वषट्कारेण देवानां हविषः प्रदाता एतन्नामको महर्षिः मह्यम् मदर्थं मदभिलषितसिद्धये उक्थानि शस्त्राणि शंसति पठति । यद्वा उक्थशब्दः स्तावकमन्त्रमात्रोपलक्षणपरः। अभिचारकर्मोचितदेवतास्तुतिपरान् मन्त्रान् प्रयुङ्क्त इत्यर्थः । यः शत्रुः अस्माकम् इदम् पूर्वं सन्मार्गप्रवृत्तं मनः मानसं हिनस्ति बाधते । हिसि हिंसायाम् । इदित्त्वाद् नुम् । रुधादित्वाद् श्नम् । 'श्नान्नलोपः' (पा ६,४,२३ ) इति नकारलोपः । 'यद्वृत्तान्नित्यम्' ( पा ८,१,६६ ) इति निघातप्रतिषेधः। अनभिमतकार्यकरणेन इष्टविघातेन च यो विक्षिप्तं करोति स शत्रुः पाशे पाशेन मत्कृताभिचारकर्मरूपेण बद्धः निरुद्धगतिः सन् दुरिते दुर्गते मरणरूपे नि युज्यतां नियुक्तो भवतु । अनेन कर्मणा मृतिं प्राप्नोतु इत्येतत् शृणुतेति पूर्वेण संबन्धः।


इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि ।

वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥३॥

इदम् । इन्द्र । शृणुहि । सोमऽप । यत् । त्वा । हृदा । शोचता । जोहवीमि ।

वृश्चामि । तम् । कुलिशेनऽइव । वृक्षम् । यः। अस्माकम् । मनः । इदम् । हिनस्ति ॥३॥

[ पूर्वं ] देवाः सामान्येन प्रार्थिताः। इदानीं तत्प्रधानभूत इन्द्रः प्रार्थ्यते । हे सोमप । सोमं पिबतीति सोमपः। 'आतोनुपसर्गे कः (पा ३,२,३ )। तस्य संबुद्धिः। सोमपानेन सर्वदा संतुष्टमानस हे इन्द्र इदम् वक्ष्यमाणं मदीयं वाक्यं शृणुहि शृणु। 'उतश्च प्रत्ययाच्छन्दसि वा वचनम्' ( पावा ६,४,१०६ ) इति हेर्लुगभावः । तदेव दर्शयति -- यद् इति । शोचता द्वेष्यकृतापकारैः शोकार्तेन हृदा मनसा त्वा त्वां जोहवीमि पुनःपुनराह्वयामि । आर्तस्य अनन्यगतिकस्य मम वचनं मा उपेक्षिष्ठा इति क्रियासमभिहारेण सूचितम् । ह्वयतेर्यङ्लुगन्तात् लडुत्तमैकवचने 'ह्वः संप्रसारणम् , अभ्यस्तस्य च' (पा ६,१,३२;३३ ) इति संप्रसारणम् । जोहवीमीति यत् तद् इदम् इति' संबन्धः । तं शत्रु वृश्चामि छिनद्मि । ओव्रश्चू छेदने । तुदादित्वात् शः। ग्रहिज्या' (पा ६,१,१६) इत्यादिना संप्रसारणम् । पादादित्वात् अनिघातः। किमिव कुलिशेन वज्रसदृशेन परशुना वृक्षम् इव । अत्र व्रश्चनलिङ्गाद् दीक्षादण्डच्छेदने शत्रुपदप्रक्षिप्तपर्णच्छेदने च विनियोग उपपन्नः । यो अस्माकम् इत्यादि व्याख्यातम् ।


अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः ।

इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥४॥

अशीतिऽभिः । तिसृऽभिः । सामऽगेभिः । आदित्येभिः। वसुऽभिः । अङ्गिरःऽभिः ।

इष्टापूर्तम् । अवतु । नः । पितॄणाम् । आ । अमुम् । ददे । हरसा । दैव्येन ॥ ४ ॥

तिसृभिः त्रिसंख्याकाभिः अशीतिभिः तृचाशीतिभिः। ताश्च अशीतय ऐतरेयके महाव्रतक्रतौ बृहदुक्थे समाम्नायन्ते -- 'गायत्री तृचाशीतिः औष्णिही तृचाशीतिः बार्हती तृचाशीतिः' (ऐआ १,४,३ ) ! ताभिस्तत्संख्याक्रान्तैस्तृचैः तत्प्रतिपाद्येन्द्रदेवतया वा सामगेभिः सामगैरुद्गात्रादिभिः तत्प्रयुक्तैः स्तोत्रैर्वा आदित्येभिः आदित्यैर्द्वादशभिः वसुभिः अष्टभिः अङ्गिरोभिः प्रसिद्धैः दीर्घसत्त्रानुष्ठातृभिर्महर्षिभिः। वस्वादित्यसमभिव्याहाराद् अङ्गनाद् व्यापनाद् रुद्रा वा अङ्गिरःशब्देन प्रत्येतव्याः । तैः सह। सहयोगे तृतीया । पितॄणाम् अस्मत्पूर्वपुरुषाणाम् इष्टापूर्तम् । इष्टं श्रुतिविहितं यागादि । पूर्त्तं स्मृत्युक्तं कूपारामतटाकादि । तदुभयजनितं सुकृतं नः अस्मान् अवतु शत्रोः सकाशाद् रक्षतु । यद्वा करणे तृतीया । स्तुतशस्त्रैर्वसुरुद्रादित्यरूपाभिः सवनदेवताभिश्च निष्पादितं पितॄणाम् इष्टापूर्तम् अस्मान् अवतु इति । रक्षाप्रार्थनायाः प्रयोजनम् आह -- अमुम् अपकर्तारम् अमुकनामानं शत्रुं दैव्येन देवसंबन्धिना । मत्कृताभिचारजनितकृत्यारूपदेवताकृतेनेत्यर्थः। हरसा । क्रोधनामैतत्। क्रोधेन आ ददे स्वीकरोमि। निगृह्णामीत्यर्थः। 'आङो दोऽनास्यविहरणे' (पा १,३,२०) इत्यात्मनेपदम् ।


द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् ।

अङ्गिरसः पितरः सोम्यासः पापमार्छत्वपकामस्य कर्ता ॥५॥

द्यावापृथिवी इति । अनु । मा । आ । दीधीथाम् । विश्वे । देवासः । अनु । मा।आ। रभध्वम् ।

अङ्गिरसः । पितरः । सोम्यासः । पापम् । आ । ऋच्छतु । अपऽकामस्य । कर्ता ॥ ५॥

द्यावापृथिवी हे द्यावापृथिव्यौ मा शत्रुनिरसनार्थं दीप्तं माम् अनु युवामपि आ दीधीथाम् आदीप्ते भवतम् । शत्रुजयार्थम् आनुकूल्यं कुरुतम् इत्यर्थः। 'अनुर्लक्षणे' (पा १,४,८४ ) इति अनोः कर्मप्रवचनीयसंज्ञायां 'कर्मप्रवचनीययुक्ते द्वितीया' (पा २,३,८ ) इति अस्मच्छब्दाद् द्वितीया । दीधीङ् दीप्तिदेवनयोः इत्यस्मात् लोटि अदादित्वात् शपो लुक् । विश्वे देवासः हे विश्वे देवाः एतन्नामानो गणदेवाः मा शत्रुजयार्थम् उद्युक्तं माम् अनु आ रभध्वम् शत्रुं निग्रहीतुम् उद्युक्ता भवत । तथा हे सोम्यासः सोमार्हा अङ्गिरसः हे तथाविधाः पितरः एतन्नामानो देवाः। यूयमपि आ रभध्वम् इति पूर्वेण संबन्धः। प्रार्थनायाः प्रयोजनं दर्शयति-- अपकामस्य अनभिमतस्य कार्यस्य द्रोहस्य कर्ता शत्रुः पापं मृतिलक्षणम् आर्च्छतु प्राप्नोतु । ऋच्छ गतौ । 'उपसर्गादृति धातौ' (पा ६,१,९१ ) इति गुणापवादो वृद्धिः।


अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम् ।

तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥६॥

अतिऽइव । यः । मरुतः । मन्यते । नः । ब्रह्म । वा । यः । निन्दिषत् । क्रियमाणम् ।

तपूंषि । तस्मै । वृजिनानि । सन्तु । ब्रह्मऽद्विषम् । द्यौः । अभिऽसंतपाति ॥ ६॥

हे मरुतः एकोनपञ्चाशत्संख्याका गणदेवाः यः शत्रुः नः अस्मान् अतीव अतिक्रान्त इव मन्यते आत्मानं जानाति । मन ज्ञाने । 'दिवादिभ्यः श्यन्' (पा ३,१,६९ )। यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधः । यश्च शत्रुः । वाशब्दः चार्थे । क्रियमाणम् अस्माभिरनुष्ठीयमानं ब्रह्म मन्त्रसाध्यं कर्म निन्दिषत् निन्देत् । णिदि कुत्सायाम् । इदित्त्वान्नुम् । 'लेटोऽडाटौ' (पा ३,४,९४ ) इत्यडागमः। 'सिब्बहुलम्' (पा ३,१,३४ ) इति सिप् । तस्मै उभयविधाय शत्रवे तपूंषि तापकानि तेजांसि आयुधानि वा वृजिनानि वर्जकानि बाधकानि सन्तु । तप संतापे इत्यस्माद् 'जनेरुसिः' (पाउ २,११५) इत्यनुवृत्तौ 'अर्तिपॄवपियजितनिधनितपित्रपिभ्यो नित्' (पाउ २,११७ ) इत्युसिप्रत्ययः । नित्त्वाद् आद्युदात्तः । वृजी वर्जने । 'वृजेः किच्च' (पाउ २,४७ ) इति इनच्प्रत्ययः । कित्त्वाद् गुणाभावः । चित्त्वाद् अन्तोदात्तः । द्यौः आदित्यः । द्युस्थानत्वात् । ब्रह्मद्विषम् मदीयं कर्म द्विषन्तं शत्रुम् अभिसंतपाति अभितः संतपतु। तपतेः पञ्चमलकारे ‘लेटोऽडाटौ' (पा ३,४,९४ ) इत्याडागमः।


सप्त प्राणान् अष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा ।

अया यमस्य सादनमग्निदूतो अरंकृतः ॥७॥

सप्त । प्राणान् । अष्टौ । मन्यः। तान् । ते । वृश्चामि । ब्रह्मणा ।

अयाः । यमस्य । सदनम् । अग्निऽदूतः । अरम्ऽकृतः ॥ ७ ॥

सप्त सप्तसंख्याकान् प्राणान् शीर्षण्यान् चक्षुरादीन्द्रियाणि । छिद्रापेक्षया सप्तसंख्या । 'सप्त वै शीर्षण्याः प्राणाः' (तैब्रा १,२,३,३) इति श्रुतेः। अष्टौ मन्यः धमन्यः कण्ठगता नाडीविशेषाः। तान् अष्टौ अष्टसंख्याकान् प्रधानभूतांश्च वृश्चामीत्यन्वयः। ते तव संबन्धिनस्तान् प्रसिद्धान् अवशिष्टावयवान् ब्रह्मणा मन्त्रेण तत्साध्याभिचारकर्मणा वा वृश्चामि छिनद्मि। एवं मन्त्रप्रभावेन छिन्नसर्वाङ्गस्त्वं यमस्य अन्तकस्य सदनम् गृहम् अयाः याहि गच्छ। यातेश्छान्दसे लुङि ‘मन्त्रे घस' (पा २,४,८०) इति च्लेर्लुक् । गमनप्रकारम् आह --अग्निर्दूतः अग्निर्दूतः अनुचरो यस्य स तथोक्तः दाहार्थे तस्यैव आनीयमानत्वात् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अरंकृतः अलंकृतः शवालंकारेण विभूषितः । 'वालमूललघ्वलमङ्गुलीनाम्” ( पावा ८,२,१८) इति रत्वविकल्पः। 'भूषणेऽलम्' (पा १,४,६४ ) इति [गति] संज्ञायां गतिरनन्तरः' (पा ६,२,४९) इति गतेः प्रकृतिस्वरत्वम् ।


आ दधामि ते पदं समिद्धे जातवेदसि ।

अग्निः शरीरं वेवेष्ट्वसुं वागपि गच्छतु ॥८॥

आ। दधामि । ते । पदम् । सम्ऽईद्धे । जातऽवेदसि।

अग्निः । शरीरम् । वेवेष्टु । असुम् । वाक् । अपि । गच्छतु ॥ ८ ॥

समिद्धे सम्यग्दीप्ते ज्वलिते जातवेदसि अग्नौ । जातानि जनिमन्ति भूतानि वेत्ति, तैर्विद्यते ज्ञायते इति वा, जातेषु सर्वेषु भूतेषु वैश्वानररूपेण विद्यते सत्तां लभत इति वा जातवेदाः । यद् उक्तं यास्केन--'जातवेदाः कस्मात् । जातानि वेद, जातानि वैनं विदुः, जातेजाते विद्यत इति वा' (नि ७,१९) इत्यादि । तस्मिन्नग्नौ हे शत्रो ते तव पदम् छिन्नपर्णसहितं पदपांसुम् आ दधामि प्रक्षिपामि । भ्राष्ट्रेऽग्निसंतप्ते भर्जयामीत्यर्थः। अग्निः शरीरं त्वदीयं वेवेष्टु पदपांसुद्वारा पादं प्रविश्य कृत्स्नम् अङ्गं व्याप्नोतु । दहतु इत्यर्थः। विष्लृ व्याप्तौ। जुहोत्यादित्वात् शपः श्लुः। 'निजां त्रयाणां गुणः श्लौ' (पा ७,४,७५) इत्यभ्यासस्य गुणः । वागपि वागिन्द्रियं च असुम् प्राणं गच्छतु प्राप्नोतु । उपलक्षणम् एतत् । सर्वेन्द्रियव्यवहारशून्यो भवतु इत्यर्थः।


। इति द्वितीयकाण्डे तृतीयेऽनुवाके द्वितीयं सूक्तम् ।

[सम्पाद्यताम्]