सामग्री पर जाएँ

अथर्ववेदः/काण्डं २/सूक्तम् ०२

विकिस्रोतः तः
← सूक्तं २.०१ अथर्ववेदः - काण्डं २
सूक्तं २.२
मातृनामा
सूक्तं २.०३ →
दे. गन्धर्वाप्सरसः

एतत् सूक्तं मातृनामगणे पठितम् (कौ.सू. ८.२४)

दिव्यो गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यो विक्ष्वीड्यः ।
तं त्वा यौमि ब्रह्मणा दिव्य देव नमस्ते अस्तु दिवि ते सधस्थम् ॥१॥
दिवि स्पृष्टो यजतः सूर्यत्वगवयाता हरसो दैव्यस्य ।
मृडात्गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यः सुशेवाः ॥२॥
अनवद्याभिः समु जग्म आभिरप्सरास्वपि गन्धर्व आसीत्।
समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति ॥३॥
अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ।
ताभ्यो वो देवीर्नम इत्कृणोमि ॥४॥
याः क्लन्दास्तमिषीचयोऽक्षकामा मनोमुहः ।
ताभ्यो गन्धर्वभ्योऽप्सराभ्योऽकरं नमः ॥५॥


सायणभाष्यम्

'दिव्यो गन्धर्वः' इत्येतत् सूक्तं मातृनामगणे पठितम् । सूत्रितं हि--'दिव्यो गन्धर्वः' ( अ २,२) 'इमं मे अग्ने' (अ ६,१११) 'यौ ते माता' ( अ ८,६) इति मातृनामानि" ( कौसू ८,२४) इति । अस्य सूक्तस्य गन्धर्वराक्षसाप्सरोभूतग्रहादिशान्तये घृताक्तसर्वौषधिहोमे चतुष्पथे ग्रहगृहीतशिरःस्थितमृन्मयकपालाग्निहोमादौ च विनियोगः । 'मातृनाम्नोः सर्वसुरभिचूर्णान्यन्वक्तानि हुत्वा शेषेण प्रलिम्पति । चतुष्पथे च शिरसि दर्भेण्डुकेऽङ्गारकपालेऽन्वक्तानि' । इत्यादि मौञ्जे त्रिपादे वयोनिवेशने प्रबध्नाति' (कौसू २६,२९-३२) इत्यन्तं सूत्रम् अत्र द्रष्टव्यम्।

तथा घृतमांसमधुहिरण्यपांस्वादिघोरवर्षणाद्भुते, मर्कटश्वापदादिरूपयक्षाद्भुते, गोमायुनामकमण्डूकवदनादिषु अद्भुतेषु च। अनेन सूक्तेन आज्यं जुहुयात् । 'अथ यत्रैतानि वर्षाणि वर्षन्ति घृतं मांसं मधु च यद्धिरण्यम्' इति प्रक्रम्य " 'दिव्यो गन्धर्वः' इति मातृनामभिर्जुहुयात् । xxx सा तत्र प्रायश्चित्तिः' (कौसू ९४,१-१८) इति तत्रतत्रोदाहृतं सूत्रं द्रष्टव्यम्।

तथा ग्रहयज्ञे प्रधानहोमानन्तरं शान्त्यर्थम् अनेन सूक्तेन आज्यं जुहुयात् । तद् उक्तं शान्तिकल्पे ग्रहयज्ञं प्रक्रम्य--'अथ शान्तिः कृत्यादूषणैः' ( अ २, ११; ४, १७-१९; ४०; ५, १४; ३१; ८,५; १०,१), चातनैः (अ १, ७; ८; २, १४; १८; २५; ४, २०; ३६; ३७; ५, २९; ८,३, ४), मातृनामभिः ( अ २, २; ६, १११; ८, ६), 'वास्तोष्पत्यैः (अ ३, १२; ६, ७३; ९३; १२, १) आज्यं जुहुयात्' (शाक १६ [?]) इति ।

तथा प्राग् उदीरितानां त्रिंशच्छान्तीनां तन्त्रभूतायां महाशान्तौ अनेन सूक्तेन आज्यं हुत्वा कुम्भे संपातान् आनयेत् । उक्तं हि शान्तिकल्पे--

'संपातान् आनयेत् कुम्भे जुह्वन्मन्त्रैरथोत्तरैः'

इत्यारभ्य

'चातनो मातृनामा च वास्तोष्पत्योऽथ पाप्महा' ( शाक २२,५; २३,१ ) ) इति ।

तथा यत्रयत्र महाशान्त्यादौ मातृनामगणस्य विनियोगस्तत्रतत्रैतत् सूक्तं द्रष्टव्यम् ।

तथा अश्वमेधे 'दिव्यो गन्धर्वः' इत्यनया ऋचा ब्रह्मा संवत्सरान्ते युज्यमानम् अश्वम् अनुमन्त्रयेत । “ 'दिव्यो गन्धर्वः' इत्येतया कौशिकः” (वैताश्रौ ३६,२८ ) इति हि वैतानं सूत्रम् ।


दिव्यो गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यो विक्ष्वीड्यः ।

तं त्वा यौमि ब्रह्मणा दिव्य देव नमस्ते अस्तु दिवि ते सधस्थम् ॥१॥

दिव्यः । गन्धर्वः । भुवनस्य । यः । पतिः । एकः । एव । नमस्यः । विक्षु । ईड्यः।

तम् । त्वा । यौमि । ब्रह्मणा । दिव्य । देव । नमः । ते । अस्तु । दिवि । ते। सधऽस्थम् ॥ १॥

दिवम् अर्हतीति दिव्यः । द्युस्थान इत्यर्थः। 'छन्दसि च' (पा ५,१,६७ ) इति यः। प्रत्ययस्वरेण अन्तोदात्तः । गाः रश्मीन् उदकं वा धारयतीति गन्धर्वः सूर्यः भुवनस्य पृथिव्यादिलोकस्य वृष्ट्यादिना पतिः पोषकः । श्रूयते हि--'यदा खलु वा असावादित्यो न्यङ् रश्मिभिः पर्यावर्ततेऽथ वर्षति' (तै २,४,१०,२) इत्यादि । अथवा भुवनस्य प्राणिजातस्य पतिः प्राणरूपेण पालकः । तथा च आथर्वणोपनिषदि आम्नायते-- 'सहस्ररश्मिः शतधा वर्तमानः प्राण: प्रजानाम् उदयत्येष सूर्यः' (प्रउ १,८) इति । 'योसौ तपन्नुदेति। स सर्वेषां भूतानां प्राणान् आदायोदेति' ( तैआ १,१४,१ ) इति हि तैत्तिरीयके । विक्षु प्रजासु एक एव नमस्यः नमस्कार्यः ईड्यः स्तुत्यश्च । नमःशब्दात् 'नमोवरिवश्चित्रङः क्यच्' (पा ३,१, १९) इति पूजायां क्यच् । तदन्ताद् ‘अचो यत्' (पा ३,१,९७ ) अतोलोपयलोपौ । यद्वा नमस्कारार्हः । तदर्हति' (पा ५,१,६३) इति छान्दसो यत् । 'तित् स्वरितम्' (पा ६,१,१८५ ) इति स्वरितत्वम् । विक्षु । 'सावेकाचः” (पा ६,१,१६८ ) इति विभक्तेरुदात्तत्वम् । ईड्यः । ईड स्तुतौ इत्यस्मात् 'ऋहलोर्ण्यत्' (पा ३,१,१२४ )। 'ईडवन्दवृशंसदुहां ण्यतः' (पा ६,१,२१४ ) इत्याद्युदात्तत्वम् । ईदृशो यो गन्धर्वः। तं त्वा ब्रह्मणा परमात्मना यौमि संयोजयामि । तद्रूपेण भावयामीत्यर्थः । यद्वा ब्रह्मणा स्तुतिलक्षणेन मन्त्रेण हविर्लक्षणेन अन्नेन वा यौमि संयोजयामि । यु मिश्रणे । 'उतो वृद्धिर्लुकि हलि' (पा ७,३,८९ ) इति वृद्धिः । हे दिव्य दिवि भव, हे देव द्योतनादिगुणविशिष्ट । दीव्यतेः इगुपधलक्षणे के प्राप्ते 'देवसेवमेषादयः पचादिषु द्रष्टव्याः' (पावा ३,१,१३४ ) इति अच् प्रत्ययः । किंच ते तुभ्यं नमोस्तु मया क्रियमाणो नमस्कारो भवतु । 'नमःस्वस्ति' (पा २,३,१६ ) इति युष्मदश्चतुर्थी । 'तेमयावेकवचनस्य' (पा ८,१,२२) इति ते आदेशः। 'अनुदात्तं सर्वमपादादौ' (पा ८,१,१८) इत्यनुदात्तः । नमस्कार्यत्वमेव उपपादयति दिवि द्युलोके खलु ते तव सधस्थम् सहस्थानम् । आवासस्थानम् इत्यर्थः । दिवि । 'ऊडिदम्' (पा ६,१,१७१ ) इत्यादिना विभक्तेरुदात्तता । सह तिष्ठन्त्यत्रेति 'घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्' (पा ३,३,५८) इत्यधिकरणे कप्रत्ययः । 'सध मादस्थयोश्छन्दसि' (पा ६,३,९६ ) इति सहस्य सधादेशः । 'अद्रिसध्रयोरन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्त्यर्थम्' (पावा ६,३,९२ ) इत्यत्र सध्रिग्रहणस्य सहादेशोपलक्षणार्थत्वात् सधशब्दस्य अन्तोदात्तता । अस्या ऋचः अश्वमेधे बध्यमानाश्वानुमन्त्रणे विनियोगस्य दर्शितत्वात् तदनुसारेण अर्थो नेयः । गन्धर्वः गन्धर्वकुलजातोश्व इत्यर्थः। 'उषा वा अश्वस्य मेध्यस्य' ( बृउ १,१,१) इत्यादिना अश्वमेधाङ्गस्य अश्वस्य बृहदारण्यके विराडात्मना उपास्यत्वदर्शनात् सर्वाणि विशेषणानि अश्वपक्षेपि युज्यन्ते ।


दिवि स्पृष्टो यजतः सूर्यत्वगवयाता हरसो दैव्यस्य ।

मृडात्गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यः सुशेवाः ॥२॥

दिवि । स्पृष्टः । यजतः । सूर्यऽत्वक् । अवऽयाता। हरसः । दैव्यस्य ।

मृडात् । गन्धर्वः । भुवनस्य । यः । पतिः । एकः । एव । नमस्य: । सुऽशेवाः ॥ २ ॥

दिवि द्युस्थाने स्पृष्टः स्प्रष्टा । तत्र स्थित इत्यर्थः । स्पृश संस्पर्शने इत्यस्मात् कर्तरि क्तः। यजतः यष्टव्यः। 'भृमृदृशियजिपच्यमिनमिहर्यिभ्योऽतच्' (पाउ ३,११० ) इति अतच्प्रत्ययः। चित्त्वाद् अन्तोदात्तः। सूर्यस्य त्वगिव त्वग् यस्य स सूर्यत्वक् । सूर्यसमानवर्ण इत्यर्थः। 'राजसूयसूर्य' (पा ३,१,११४ ) इत्यादिना सुवतेः सरतेर्वा क्यबन्तो निपातितः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । दैव्यस्य देवसंबन्धिनो हरसः । क्रोधनामैतत् । क्रोधस्य अवयाता अपगमयिता । ‘देवाद् यञञौ' (पावा ४,१,८५) इति प्राग्दीव्यतीयेषु अर्थेषु यञ् । 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७ ) इत्याद्युदात्तः। न केवलं दैव्यस्य क्रोधस्य निवारकः अपितु सुखप्रदोपि अयमेव इत्याह -– मृडात् मृडयतु । मृड सुखने इत्यस्मात् लेटि आडागमः । 'इतश्च लोपः परस्मैपदेषु' (पा ३,४,९७) इति इकारलोपः। गन्धर्व इत्यादि पूर्ववत् । सुशेवाः । शेवम् इति सुखनाम । शोभनं सुखं यस्य स तथोक्तः । व्यत्ययेन बहुवचनम् । 'इण्शीङ्भ्यां वन्' (पाउ १,१५२ ) इति वन्प्रत्ययः। 'आद्युदात्तं द्य्मच् छन्दसि' (पा ६,२,११९) इति बहुव्रीहौ उत्तरपदाद्युदात्तत्वम् । यद्वा एवृ शेवृ केवृ सेवने तालव्यादिः पठ्यते । अस्माद् भावे असुनि शोभनं शेवः शेवनं यस्येति बहुव्रीहौ 'सोर्मनसी अलोमोषसी' (पा ६,२,११७) इत्युत्तरपदाद्युदात्तत्वम् । अनायासेन सेव्य इत्यर्थः।


अनवद्याभिः समु जग्म आभिरप्सरास्वपि गन्धर्व आसीत्।

समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति ॥३॥

अनव॒द्याभिः। सम् । ऊं इति । जग्मे । आभिः । अप्सरासु । अपि । गन्धर्वः। आसीत्।

समुद्रे । आसाम् । सदनम् । मे । आहुः । यतः । सद्यः।आ। च । परा। च। यन्ति ॥ ३ ॥

अनवद्याभिः अगर्ह्याभिः। प्रशस्तरूपाभिरित्यर्थः। 'अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु' (पा ३,१,१०१) इति गर्ह्यार्थे अवद्यशब्दो यत्प्रत्ययान्तो निपातितः । बहुव्रीहौ 'नञ्सुभ्याम्' (पा ६,२,१७२ ) इत्युत्तरपदान्तोदात्तत्वम् । आभिरप्सरोभिः मरीचिरूपाभिः। 'सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरसः' ( तै ३,४,७,१ ) इति श्रुतेः। सूर्यरूपो गन्धर्वः सं जग्मे संगतवान् । उशब्दः पदपूरणार्थः प्रसिद्ध्यर्थो वा । 'समो गम्यृच्छि' (पा १,३,२९ ) इत्यादिना अकर्मकाद् गमेरात्मनेपदम् । ‘गमहन” (पा ६,४,९८) इत्युपधालोपः । अप्सरासु अप्सरःस्वपि गन्धर्वः सूर्यनामा आसीत् संगतोऽभवत्। गन्धर्वाप्सरसां परस्परसाहित्यप्रतिपादनेन तेषाम् अविनाभावस्य सिद्धत्वात् सहैव तेषां पूजाहोमादिकं कार्यम् इति तात्पर्यार्थः । अत एव तैत्तिरीयके 'गन्धर्वाप्सरसो वा एतम् उन्मादयन्ति य उन्माद्यति' इति प्रक्रम्य तस्मै स्वाहा ताभ्यः स्वाहेति जुहोति तेनैवैनान् शमयति' ( तै ३,४,८,४ ) इति होमसाहित्यम् आम्नातम् । अप्सरास्विति । आप इत्यन्तरिक्षनाम, उदकं वा । तत्र सरतीत्यप्सरा । बाहुलकाद् अच् । यद्वा अप्स इति रूपनाम । रो मत्वर्थीयः । उभयत्र टाप् । अथवा अप्सु सरतीति अप्शब्दोपपदात् सर्तेः असुन् । अप्सुशब्दोपपदात ला आदाने इत्यस्माद वा रत्वे असुन् । रा दाने इत्यस्माद् वा असुन् । तथा च सकारान्तोऽप्सरःशब्दः। तस्यैव व्यत्ययेन सकारस्य आत्वम् । एतत् सर्वं यास्केनोक्तम्-- 'अप्सरा अप्सारिणी । अपि वाऽप्स इति रूपनाम । अप्सातेः । अप्सानीयं भवति । आदर्शनीयम् । व्यापनीयं वा' इति । 'तद्रा भवति रूपवती । तदनयात्तम् इति वा। तदस्यै दत्तमिति वा।' ( नि ५,१३) इति च । अत एव व्युत्पत्त्यनवधारणात् पदकारा नावगृह्णते । अप्सरसां स्थानम् आह -- समुद्र इति । आसाम् अप्सरसां मरीचिरूपाणां सदनम् । सीदन्त्यस्मिन्निति सदनम् आवासस्थानम् । अधिकरणे ल्युट् । समुद्रे समुद्द्रवन्ति अस्माद् आप इति वा, संमोदन्तेस्मिन् भूतानीति वा समुद्रशब्देन आदित्य उच्यते। तत्र इति मे मम आहुः कथयन्ति अभिज्ञाः। इति मन्त्रद्रष्टुर्वचनम् एतत् । तदेव उपपादयति -- यतः यस्माद् आदित्यात् सद्यः सूर्योदयसमकालमेव आ यन्ति च आगच्छन्ति च परा यन्ति च अस्मात् स्थानात् तत् पुनः परागच्छन्ति च। अस्तमयकाले तदेव प्रविशन्तीत्यर्थः। अथवा गन्धर्वशब्दः प्रसिद्धगन्धर्वजातिवाचकः । अप्सरःशब्दोपि प्रसिद्धाप्सरोजातिवाची। समु जग्म इति परस्परानुरागविशेषेण स्त्रीपुंसात्मकानां तेषां गतिरुक्ता । समुद्रशब्देन अन्तरिक्षलोक उच्यते। यतः यस्माद् अन्तरिक्षलोकाद् आयन्ति प्रजापीडार्थम् आविर्भवन्ति पुनस्तत्रैव परा यन्ति । तिरोभवन्तीत्यर्थः। अन्यत् पूर्ववद् योज्यम् ।


अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ।

ताभ्यो वो देवीर्नम इत्कृणोमि ॥४॥

अभ्रिये । दिद्युत् । नक्षत्रिये । याः । विश्वऽवसुम् । गन्धर्वम् । सचध्वे ।

ताभ्यः । वः । देवीः । नमः । इत् । कृणोमि ॥ ४ ॥

हे अभ्रिये । अभ्रेषु भवा अभ्रिया। 'समुद्राभ्राद् घः' (पा ४,४,११८ ) इति भवार्थे घप्रत्ययः। घस्य इयादेशः । हे दिद्युत् द्योतनस्वभावे । द्युत दीप्तौ इत्यस्मात् 'द्युतिगमिजुहोतीनां द्वे च' ( पावा ३,२,१७८ ) इति क्विपि द्विर्वचने 'द्युतिस्वाप्योः संप्रसारणम्' (पा ७,४,६७ ) इत्यभ्यासस्य संप्रसारणम् । हे नक्षत्रिये नक्षत्ररूपिणि । 'नक्षत्राद् घः' (पा ४,४,१४१) इति स्वार्थे घप्रत्ययः। 'चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसः' (तै ३,४,७,१) इति श्रुतेर्नक्षत्राणाम् अप्सरस्त्वम् । यद्वा अभ्रिये । अभ्रम् अन्तरिक्षम् । तत्र भवः अभ्रियो मेघः । तस्मिन् । दिद्युत् । व्यत्ययेनैकवचनम् । द्योतमाना या अप्सरसः। 'पर्जन्यो गन्धर्वस्तस्य विद्युतोऽप्सरसः' (तै ३,४,७,२ ) इति श्रुतेः । नक्षत्रिये । जातावेकवचनम् । सुकृतफलोपभोगायतनानि नक्षत्राणि । 'देवगृहा वै नक्षत्राणि' (तैब्रा १,५,२,६ ) इति श्रुतेः । तेषु च या अप्सरसः या यूयं विश्वावसुम् । विश्वं वसु यस्मिन् स विश्वावसुः। 'विश्वस्य वसुराटोः' ( पा ६,३,१२८) इति पूर्वपदस्य दीर्घः । 'बहुव्रीहौ विश्वं संज्ञायाम्' (पा ६,२,१०६) इति पूर्वपदान्तोदात्तत्वम् । एतन्नामानं गन्धर्वं सचध्वे संगता भवथ । षच समवाये । हे देवीः देव्यो द्योतमानाः । 'वा छन्दसि' (पा ६,१,१०६) इति पूर्वसवर्णदीर्घः। ताभ्यः उक्तरूपाभ्यो वः युष्मभ्यम् 'बहुवचनस्य वस्नसौ' (पा ८,१,२१) इति चतुर्थीबहुवचनान्तस्य युष्मदो वस् आदेशः। नमः। अन्ननामैतत् । हविर्लक्षणम् अन्नं नमस्कारं वा । इच्छब्दः अवधारणे । कृणोमि करोमि । कवि हिंसाकरणयोश्च । 'धिन्विकृण्व्योर च ( पा ३,१,८० ) इति उप्रत्ययः।


याः क्लन्दास्तमिषीचयोऽक्षकामा मनोमुहः ।

ताभ्यो गन्धर्वभ्योऽप्सराभ्योऽकरं नमः ॥५॥

याः। क्लन्दाः । तमिषीचयः । अक्षऽकामाः । मनःऽमुहः ।

ताभ्यः । गन्धर्वऽपत्नीभ्यः । अप्सराभ्यः । अकरम् । नमः ॥ ५॥

क्लन्दाः क्लन्दयित्र्यो मनुष्यान् आविश्य उपद्रवकरणेन रोदयित्र्यः । कदि क्रदि क्लदि आह्वाने रोदने च इत्यत्र क्लन्देर्ण्यन्तात् पचाद्यच् । तमिषीचयः। तविषीति बलनाम । तद् अञ्चन्ति प्राप्नुवन्ति चिन्वन्ति वेति तविषीचयः । बलवत्य इत्यर्थः । तवेर्वृद्ध्यर्थात् 'तवेर्णिद्वा (पाउ १,४८) इति टिषच्प्रत्ययः । टित्त्वाद् ङीप् । वर्णव्यत्ययश्छान्दसः। ततः अञ्चतेश्चिनोतेर्वा क्विनि पृषोदरादित्वाद् रूपसिद्धिः । तमु ग्लानौ इत्यस्माद् वा बाहुलकात् टिषच् प्रत्ययः । तमिषीं ग्लानिं परेषाम् आविष्टानाम् उपचिन्वन्तीति तमिषीचयः । अक्षकामाः अक्षाणि इन्द्रियाणि तानि नाशयितुं कामयमानाः । कमेर्णिङ् । 'कर्मण्यण्' (पा ३,२,१) इति अणि प्राप्ते 'शीलिकामिभक्ष्याचरिभ्यो णः' ( पावा ३,२,१) इति णप्रत्ययः । मनोमुहः मनसो मोहयित्र्यः । उन्मादकारिण्य इत्यर्थः। श्रूयते हि तैत्तिरीयके-- 'गन्धर्वाप्सरसो वा एतम् उन्मादयन्ति य उन्माद्यति' (तै ३,४,८,४ ) इति । एवंविधा या अप्सरसः ताभ्यो गन्धर्वपत्नीभ्यः गन्धर्वाः पतयो यासाम् । 'विभाषा सपूर्वस्य' (पा ४,१,३४ ) इति ङीन्बकारौ । अप्सराभ्यः अप्सरोभ्यः नमः हविर्लक्षणम् अन्नं नमस्कारं वा अकरम् करोमि । 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६) इति करोतेश्छान्दसे लुङि 'कृमृदृरुहिभ्यश्छन्दसि' (पा ३,१,५९ ) इति च्लेः अङादेशः। 'ऋदृशोऽङि गुणः' ( पा ७,४,१६ ) इति गुणः ।


इति द्वितीये काण्डे प्रथमेऽनुवाके द्वितीयं सूक्तम् ।