अथर्ववेदः/काण्डं २/सूक्तम् ०३
← सूक्तं २.०२ | अथर्ववेदः - काण्डं २ सूक्तं २.३ अङ्गिराः। |
सूक्तं २.०४ → |
दे. भैषज्यं, आयुः, धन्वन्तरिः। अनुष्टुप्, ६ त्रिपदा स्वराडुपरिष्टान्महाबृहती। |
अदो यदवधावत्यवत्कमधि पर्वतात्।
तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥१॥
आदङ्गा कुविदङ्ग शतं या भेषजानि ते ।
तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥२॥
नीचैः खनन्त्यसुरा अरुस्राणमिदं महत्।
तदास्रावस्य भेषजं तदु रोगमनीनशत्॥३॥
उपजीका उद्भरन्ति समुद्रादधि भेषजम् ।
तदास्रावस्य भेषजं तदु रोगमशीशमत्॥४॥
अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम् ।
तदास्रावस्य भेषजं तदु रोगमनीनशत्॥५॥
शं नो भवन्त्वप ओषधयः शिवाः ।
इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥६॥
सायणभाष्यम्
'अदो यत्' इति सूक्तेन ज्वरातीसारातिमूत्रनाडीव्रणेषु तदुपशान्तये मुञ्जशिरोनिर्मितरज्जुबन्धनम् , क्षेत्रमृत्तिकाया वा पायनम् , सर्पिलेपनम् , चर्मदृतिमुखेन अपानशिश्ननाडीव्रणमुखानां धमनं च कार्यम् । “ “विद्मा शरस्य' (अ१,२), 'अदो यत्' (अ २,३) इति मुञ्जशिरोरज्ज्वा बध्नाति" (कौ २५,६) इत्यादि सूत्रं द्रष्टव्यम्।
अदो यदवधावत्यवत्कमधि पर्वतात्।
तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥१॥
अदः । यत् । अवऽधावति । अवत्ऽकम् । अधि । पर्वतात् ।
तत् । ते । कृणोमि । भेषजम् । सुऽभेषजम् । या । अससि ॥ १ ॥
पर्वतात् । अत्र पर्वतशब्देन मुञ्जवान् नाम पर्वतो विवक्षितः। 'मुञ्जशिरोरज्ज्वा बध्नाति' इति विनियुक्तस्य मुख्यमुञ्जस्य तत्रैवोत्पत्तेः । तस्मात् । अधिः पञ्चम्यर्थानुवादी। 'अधिपरी अनर्थकौ' ( पा १,४,९३ ) इति स्मरणात् । अदः विप्रकृष्टं यत् प्रसिद्धम् अवत्कम् व्याधिपरिहारेण रक्षकं मुञ्जशिरः अवधावति अवरुह्य भूमौ धावति । व्याप्य वर्तत इत्यर्थः । पाघ्राध्मा' (पा ७,३,७८ ) इत्यादिना सर्तेर्वेगितायां गतौ धावादेशः। 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधे 'तिङि चोदात्तवति' (पा ८,१,७१ ) इति गतेरनुदात्तत्वम् । हे मुञ्ज ते तव त्वदीयं तत् अग्रम् । यद्वा कर्मणि षष्ठी । तत् तथाविधं ते त्वां भेषजं कृणोमि व्याधिनिवृत्त्यर्थम् औषधं करोमि । यथा येन प्रकारेण सुभेषजम् व्याधिनिवर्तनक्षमम् अतिशयितवीर्ययुक्तम् अससि । तथा कृणोमीति संबन्धः। सुभेषजम् । 'स्वती पूजायाम्' ( पावा २,२,१८) इति प्रादिसमासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अससि । अस्तेः 'बहुलं छन्दसि' (पा २,४,७३ ) इति शपो लुगभावः । 'यावद्यथाभ्याम्' (पा ८,१,३६ ) इति निघातप्रतिषेधः।
आदङ्गा कुविदङ्ग शतं या भेषजानि ते ।
तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥२॥
आत् । अङ्ग । कुवित् । अङ्ग । शतम् । या । भेषजानि । ते ।
तेषाम् । असि । त्वम् । उत्ऽतमम् । अनास्रावम् । अरोगणम् ॥ २ ॥
अङ्गेत्याभिमुख्यकरणे । हे ओषधे आत् प्रयोगसमनन्तरमेव । रोगं निवर्तयेत्यध्याहारः । तथा अङ्ग कुवित् । बहुनामैतत् । बहुधा उत्पन्नान् अतीसारादीन् रोगान् । विनाशयेति शेषः । अङ्ग इत्युभयत्र 'निपातस्य च' (पा ६,३,१३६ ) इति सांहितिको दीर्घः। तदेव प्रशंसति--हे ओषधे ते तव सबन्धीनि सजातीयानि शतम् अपरिमितानि या यानि । 'शेश्छन्दसि बहुलम्' (पा ६,१,७०) इति लोपः। भेषजानि सन्ति तेषाम् भेषजानां मध्ये त्वम् उत्तमम् उत्कृष्टतमम् असि भवसि । उत्कृष्टार्थवाचिन उच्छब्दाद् अतिशायने तमप् । 'उत्तमशश्वत्तमौ सर्वत्र' (पाग ६,१,१६०) इति उञ्छादिषु पाठात् अन्तोदात्तः । उत्तमत्वं समर्थयते--अनास्रावम् । आस्रवन्तीति आस्रावाः अतीसारातिमूत्रनाडीव्रणादयः । तेषां निवर्त्तकम् । आङ्पूर्वात् स्रवतेः ‘श्याद्व्यधास्रु' (पा ३,१,१४१) इत्यादिना णः । अरोगणम् तन्मूलरोगनिवर्तकम् । रुजो भङ्गे इत्यस्माद् भावे ल्युट् । छान्दसं कुत्वम् ।
नीचैः खनन्त्यसुरा अरुस्राणमिदं महत्।
तदास्रावस्य भेषजं तदु रोगमनीनशत्॥३॥
नीचैः । खनन्ति । असुराः । अरुःऽस्राणम् । इदम् । महत् ।
तत् । आऽस्रावस्य । भेषजम् । तत् । ऊं इति । रोगम् । अनीनशत् ॥ ३॥
असुराः । असून् प्राणान् लान्ति आददते अपहरन्तीत्यसुराः। 'आतोनुपसर्गे कः' (पा ३,२,३) इति कप्रत्ययः। *[यद्वा] अस्यन्ति शरीरं क्षिपन्ति पातयन्तीति असुराः व्याधयो राक्षसा वा। 'असेरुरन्' ( पाउ १,४२) इति उरन्प्रत्ययः । इदम् परिदृश्यमानं महत् उल्बणम् अरुःस्राणम् अरुषो व्रणस्य पाकस्थानम् । व्रणमुखम् इत्यर्थः। "स्रै पाके इत्यस्माद् अधिकरणे ल्युट् । नीचैः खनन्ति अन्तरन्तः अवदारयन्ति । अभ्यन्तरं व्याप्नुवन्तीत्यर्थः । यद्वा असुराः । असुः प्राणः। रो मत्वर्थीयः । प्राणवन्तः । बलवन्त इत्यर्थः । अरुःस्राणम् । अरुः स्रायति पक्कं भवति उपशमनोन्मुखं भवति अनेनेति अरुःस्राणम् । करणे ल्युट् । इदम् महत् औषधं नीचैः खनन्ति समूलम् उद्धरन्ति । तत् उक्तम् औषधम् आस्रावस्य उक्तलक्षणस्य रोगस्य भेषजम् निवर्तकम् । तदु तदेव रोगम् अतीसारादिकम् अशीशमत् समूलं नाशयति। शमेर्ण्यन्तात् लुङि चङि रूपम् ।
उपजीका उद्भरन्ति समुद्रादधि भेषजम् ।
तदास्रावस्य भेषजं तदु रोगमशीशमत्॥४॥
उपऽजीकाः। उत् । भरन्ति । समुद्रात् । अधि । भेषजम् ।
तत् । आऽस्रावस्य॑ । भेषजम्। तत् । ऊं इति । रोगम् । अशीशमत् ॥ ४ ॥
उपजीका वल्मीकनिष्पादिका वम्र्यः समुद्रात् पृथिव्या अधोवस्थितात् जलराशेः । अधिः पञ्चम्यर्थानुवादी । भेषजम् रोगनिवारकम् औषधम् [उद्भरन्ति ] उद्धरन्ति । पृथिव्या ऊर्ध्वं हरन्ति । 'हृग्रहोर्भश्छन्दसि” (पावा ८,२,३२) इति भत्वम् । तत् वल्मीकमृत्तिकारूपम् औषधम् आस्रावस्येत्यादि पूर्ववत् । ।
अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम् ।
तदास्रावस्य भेषजं तदु रोगमनीनशत्॥५॥
अरुःऽस्राणम् । इदम् । महत् । पृथिव्याः। अधि । उत्ऽभृतम् ।
तत्। आऽस्रावस्य । भेषजम् । तत् । ऊं इति । रोगम् । अनीनशत् ॥ ५ ॥
अरुःस्राणम् अरुषो व्रणस्य पाचनं पृथिव्याः केदारादिक्षेत्ररूपायाः सकाशात् । अधिः पञ्चम्यर्थानुवादी । उद्भृतम् उद्धृतम् । 'गतिरनन्तरः' (पा ६,२,४९) इति गतेः प्रकृतिस्वरत्वम् । यद् इदं महत् औषधं क्षेत्रमृत्तिकारूपम् तत् आस्रावस्येत्यादि पूर्ववत् । अनीनशत् इति नशेर्ण्यन्तात् लुङि चङि रूपम् ।
शं नो भवन्त्वप ओषधयः शिवाः ।
इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥६॥
शम् । नः । भवन्तु । अपः । ओषधयः । शिवाः ।
इन्द्रस्य । वज्रः। अप । हन्तु । रक्षसः । आरात् । विऽसृष्टाः । इषवः । पतन्तु । रक्षसाम् ॥ ६ ॥
औषधार्थं प्रयुज्यमाना आपः ओषधयश्च शिवाः सुखहेतवः सत्यः नः अस्माकं शम् रोगाणां शमनाय भवन्तु । रक्षसः राक्षसान् रोगोत्पादकान् इन्द्रस्य वज्रः अप हन्तु हिनस्तु । रक्षत्यस्माद् इति 'भीमादयोपादाने' (पा ३,४,७४ ) इत्यपादाने रक्षतेः असिप्रत्ययः। 'रक्षो रक्षितव्यम् अस्मात्' इति यास्कः (नि ४,१८)। प्रत्ययाद्युदात्तत्वम् । विसृष्टाः मनुष्याणां पीडनाय प्रयुक्ता रक्षसाम् इषवः रोगादिरूपा आरात् अस्मत्तो दूरे पतन्तु।
इति द्वितीये काण्डे प्रथमेनुवाके तृतीयं सूक्तम् ।।