अथर्ववेदः/काण्डं २०/सूक्तम् १४१

विकिस्रोतः तः
← सूक्तं २०.१४० अथर्ववेदः - काण्डं २०
सूक्तं २०.१४१
शशकर्णः।
सूक्तं २०.१४२ →
दे. अश्विनौ। १ विराट्, २ जगती, ३ अनुष्टुप्, ४-५ बृहती।

यातं छर्दिष्पा उत परस्पा भूतं जगत्पा उत नस्तनूपा ।
वर्तिस्तोकाय तनयाय यातम् ॥१॥
यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।
यदादित्येभिर्ऋभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥२॥
यदद्याश्विनावहं हुवेय वाजसातये ।
यत्पृत्सु तुर्वणे सनस्तच्छ्रेष्ठमश्विनोरवः ॥३॥
आ नूनं यातमश्विनेमा हव्यानि वां हिता ।
इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥४॥
यन् नासत्या पराके अर्वाके अस्ति भेषजम् ।
तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥५॥