अथर्ववेदः/काण्डं २०/सूक्तम् १४२

विकिस्रोतः तः
← सूक्तं २०.१४१ अथर्ववेदः - काण्डं २०
सूक्तं २०.१४२
शशकर्णः।
सूक्तं २०.१४३ →
दे. अश्विनौ। १ - ४ अनुष्टुप्, ५-६ गायत्री।

अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः ।
व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥१॥
प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।
प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत्॥२॥
यदुषो यासि भानुना सं सूर्येण रोचसे ।
आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥३॥
यदापीतासो अंशवो गावो न दुह्र ऊधभिः ।
यद्वा वाणीरनुषत प्र देवयन्तो अश्विना ॥४॥
प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।
प्र दक्षाय प्रचेतसा ॥५॥
यन् नूनं धीभिरश्विना पितुर्योना निषीदथः ।
यद्वा सुम्नेभिरुक्थ्या ॥६॥