अथर्ववेदः/काण्डं २०/सूक्तम् १३९

विकिस्रोतः तः
← सूक्तं २०.१३८ अथर्ववेदः - काण्डं २०
सूक्तं २०.१३९
शशकर्णः।
सूक्तं २०.१४० →
दे. अश्विनौ। १ अनुष्टुप्, २-३ गायत्री, ४ बृहती, ५ ककुप्।

आ नूनमश्विना युवं वत्सस्य गन्तमवसे ।
प्रास्मै यच्छतमवृकं पृथु छर्दिर्युयुतं या अरातयः ॥१॥
यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषामनु ।
नृम्नं तद्धत्तमश्विना ॥२॥
ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।
एवेत्काण्वस्य बोधतम् ॥३॥
अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।
अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥४॥
यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् ।
तेन माविष्टमश्विना ॥५॥