अथर्ववेदः/काण्डं २०/सूक्तम् १३८

विकिस्रोतः तः
← सूक्तं २०.१३७ अथर्ववेदः - काण्डं २०
सूक्तं २०.१३८
वत्सः।
सूक्तं २०.१३९ →
दे. इन्द्रः। गायत्री।

महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमामिव ।
स्तोमैर्वत्सस्य वावृधे ॥१॥
प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
विप्रा ऋतस्य वाहसा ॥२॥
कण्वाः इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
जामि ब्रुवत आयुधम् ॥३॥