अथर्ववेदः/काण्डं २०/सूक्तम् १३१
दिखावट
← सूक्तं २०.१३० | अथर्ववेदः - काण्डं २० सूक्तं २०.१३१ कुन्तापसूक्तानि |
सूक्तं २०.१३२ → |
आमिनोनिति भद्यते ॥१॥
तस्य अनु निभञ्जनम् ॥२॥
वरुणो याति वस्वभिः ॥३॥
शतं वा भारती शवः ॥४॥
शतमाश्वा हिरण्ययाः ।
शतं रथ्या हिरण्ययाः ।
शतं कुथा हिरण्ययाः ।
अहुल कुश वर्त्तक ॥६॥
शफेन इव ओहते ॥७॥
आय वनेनती जनी ॥८॥
वनिष्ठा नाव गृह्यन्ति ॥९॥
इदं मह्यं मदूरिति ॥१०॥
ते वृक्षाः सह तिष्ठति ॥११॥
पाक बलिः ॥१२॥
शक बलिः ॥१३॥
अश्वत्थ खदिरो धवः ॥१४॥
अरदुपरम ॥१५॥
शयो हत इव ॥१६॥
व्याप पूरुषः ॥१७॥
अदूहमित्यां पूषकम् ॥१८॥
अत्यर्धर्च परस्वतः ॥१९॥
दौव हस्तिनो दृती ॥२०॥