अथर्ववेदः/काण्डं २०/सूक्तम् १३०

विकिस्रोतः तः
← सूक्तं २०.१२९ अथर्ववेदः - काण्डं २०
सूक्तं २०.१३०
कुन्तापसूक्तानि
सूक्तं २०.१३१ →

20.130
को अर्य बहुलिमा इषूनि ॥१॥
को असिद्याः पयः ॥२॥
को अर्जुन्याः पयः ॥३॥
कः कार्ष्ण्याः पयः ॥४॥
एतं पृच्छ कुहं पृच्छ ॥५॥
कुहाकं पक्वकं पृच्छ ॥६॥
यवानो यतिष्वभिः कुभिः ॥७॥
अकुप्यन्तः कुपायकुः ॥८॥
आमणको मणत्सकः ॥९॥
देव त्वप्रतिसूर्य ॥१०॥
एनश्चिपङ्क्तिका हविः ॥११॥
प्रदुद्रुदो मघाप्रति ॥१२॥
शृङ्ग उत्पन्न ॥१३॥
मा त्वाभि सखा नो विदन् ॥१४॥
वशायाः पुत्रमा यन्ति ॥१५॥
इरावेदुमयं दत ॥१६॥
अथो इयन्नियन्न् इति ॥१७॥
अथो इयन्निति ॥१८॥
अथो श्वा अस्थिरो भवन् ॥१९॥
उयं यकांशलोकका ॥२०॥