अथर्ववेदः/काण्डं २०/सूक्तम् १२९

विकिस्रोतः तः
← सूक्तं २०.१२८ अथर्ववेदः - काण्डं २०
सूक्तं २०.१२९
कुन्तापसूक्तानि
सूक्तं २०.१३० →

20.129
एता अश्वा आ प्लवन्ते ॥१॥
प्रतीपं प्राति सुत्वनम् ॥२॥
तासामेका हरिक्निका ॥३॥
हरिक्निके किमिछासि ॥४॥
साधुं पुत्रं हिरण्ययम् ॥५॥
क्वाहतं परास्यः ॥६॥
यत्रामूस्तिस्रः शिंशपाः ॥७॥
परि त्रयः ॥८॥
पृदाकवः ॥९॥
शृङ्गं धमन्त आसते ॥१०॥
अयन्महा ते अर्वाहः ॥११॥
स इच्छकं सघाघते ॥१२॥
सघाघते गोमीद्या गोगतीरिति ॥१३॥
पुमां कुस्ते निमिच्छसि ॥१४॥
पल्प बद्ध वयो इति ॥१५॥
बद्ध वो अघा इति ॥१६॥
अजागार केविका ॥१७॥
अश्वस्य वारो गोशपद्यके ॥१८॥
श्येनीपती सा ॥१९॥
अनामयोपजिह्विका ॥२०॥