अथर्ववेदः/काण्डं २०/सूक्तम् ११३

विकिस्रोतः तः
← सूक्तं २०.११२ अथर्ववेदः - काण्डं २०
सूक्तं २०.११३
ऋ. भर्गः।
सूक्तं २०.११४ →
दे. इन्द्रः। प्रगाथः।

उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत्॥१॥
तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः ।
उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥२॥