अथर्ववेदः/काण्डं २०/सूक्तम् ११३
दिखावट
← सूक्तं २०.११२ | अथर्ववेदः - काण्डं २० सूक्तं २०.११३ ऋ. भर्गः। |
सूक्तं २०.११४ → |
दे. इन्द्रः। प्रगाथः। |
उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत्॥१॥
तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः ।
उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥२॥