अथर्ववेदः/काण्डं २०/सूक्तम् ११२

विकिस्रोतः तः
← सूक्तं २०.१११ अथर्ववेदः - काण्डं २०
सूक्तं २०.११२
ऋ. सुकक्षः।
सूक्तं २०.११३ →
दे. इन्द्रः। गायत्री।

यदद्य कच्च वृत्रहन्न् उदगा अभि सूर्य ।
सर्वं तदिन्द्र ते वशे ॥१॥
यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।
उतो तत्सत्यमित्तव ॥२॥
ये सोमासः परावति ये अर्वावति सुन्विरे ।
सर्वांस्तामिन्द्र गच्छसि ॥३॥