अथर्ववेदः/काण्डं २०/सूक्तम् १००

विकिस्रोतः तः
← सूक्तं २०.०९९ अथर्ववेदः - काण्डं २०
सूक्तं २०.१००
ऋ. नृमेधः।
सूक्तं २०.१०१ →
दे. इन्द्रः । उष्णिक्

अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे ।
उदेव यन्त उदभिः ॥१॥
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।
वावृध्वांसं चिदद्रिवो दिवेदिवे ॥२॥
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।
इन्द्रवाहा वचोयुजा ॥३॥