अथर्ववेदः/काण्डं २०/सूक्तम् १०१
दिखावट
← सूक्तं २०.१०० | अथर्ववेदः - काण्डं २० सूक्तं २०.१०१ ऋ. मेध्यातिथिः। |
सूक्तं २०.१०२ → |
दे. अग्निः। गायत्री। |
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
अस्य यज्ञस्य सुक्रतुम् ॥१॥
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
हव्यवाहं पुरुप्रियम् ॥२॥
अग्ने देवामिहा वह जज्ञानो वृक्तबर्हिषे ।
असि होता न ईड्यः ॥३॥