अथर्ववेदः/काण्डं २०/सूक्तम् ०९९

विकिस्रोतः तः
← सूक्तं २०.०९८ अथर्ववेदः - काण्डं २०
सूक्तं २०.०९९
मेध्यातिथिः।
सूक्तं २०.१०० →
दे. इन्द्रः। प्रगाथः (बृहती)

अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
समीचीनास ऋभवः समस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥१॥
अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।
अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥२॥