अथर्ववेदः/काण्डं २०/सूक्तम् ०९८

विकिस्रोतः तः
← सूक्तं २०.०९७ अथर्ववेदः - काण्डं २०
सूक्तं २०.०९८
शंयुः।
सूक्तं २०.०९९ →
दे. इन्द्रः। प्रगाथः (बृहती)

त्वामिद्धि हवामहे साता वाजस्य कारवः ।
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥१॥
स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।
गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥२॥