अथर्ववेदः/काण्डं २०/सूक्तम् ०९७

विकिस्रोतः तः
← सूक्तं २०.०९६ अथर्ववेदः - काण्डं २०
सूक्तं २०.०९७
कलिः।
सूक्तं २०.०९८ →
दे. इन्द्रः। प्रगाथः (बृहती)

वयमेनमिदा ह्योपीपेमेह वज्रिणम् ।
तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥१॥
वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।
सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥२॥
कदु न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् ।
केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥३॥