अथर्ववेदः/काण्डं २०/सूक्तम् ०८५

विकिस्रोतः तः
← सूक्तं २०.०८४ अथर्ववेदः - काण्डं २०
सूक्तं २०.०८५
१-२ प्रगाथः, ३-४ मेध्यातिथिः।
सूक्तं २०.०८६ →
दे. इन्द्रः। प्रगाथः(बृहती-सतोबृहती)।

मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।
इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥१॥
अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।
विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम् ॥२॥
यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये ।
अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥३॥
वि तर्तूर्यन्ते मघवन् विपश्चितोऽर्यो विपो जनानाम् ।
उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥४॥