अथर्ववेदः/काण्डं २०/सूक्तम् ०८६

विकिस्रोतः तः
← सूक्तं २०.०८५ अथर्ववेदः - काण्डं २०
सूक्तं २०.०८६
विश्वामित्रः।
सूक्तं २०.०८७ →
दे. इन्द्रः। त्रिष्टुप्।

ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू ।
स्थिरं रथं सुखमिन्द्राधितिष्ठन् प्रजानन् विद्वामुप याहि सोमम् ॥१॥