अथर्ववेदः/काण्डं २०/सूक्तम् ०८४

विकिस्रोतः तः
← सूक्तं २०.०८३ अथर्ववेदः - काण्डं २०
सूक्तं २०.०८४
मधुच्छन्दाः।
सूक्तं २०.०८५ →
दे. इन्द्रः। गायत्री।

इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।
अण्वीभिस्तना पूतासः ॥१॥
इन्द्रा याहि धियेषितो विप्रजुतः सुतावतः ।
उप ब्रह्माणि वाघतः ॥२॥
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।
सुते दधिष्व नश्चनः ॥३॥