अथर्ववेदः/काण्डं २०/सूक्तम् ०४६

विकिस्रोतः तः
← सूक्तं २०.०४५ अथर्ववेदः - काण्डं २०
सूक्तं २०.०४६
इरिम्बिठिः।
सूक्तं २०.०४७ →
दे. इन्द्रः। गायत्री।

प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु ।
सासह्वांसं युधामित्रान् ॥१॥
स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
इन्द्रो विश्वा अति द्विषः ॥२॥
स त्वं न इन्द्र वाजोभिर्दशस्या च गातुया च ।
अच्छा च नः सुम्नं नेषि ॥३॥