अथर्ववेदः/काण्डं २०/सूक्तम् ०४५

विकिस्रोतः तः
← सूक्तं २०.०४४ अथर्ववेदः - काण्डं २०
सूक्तं २०.०४५
शुनःशेपो देवरातापरनामा।
सूक्तं २०.०४६ →
दे. इन्द्रः। गायत्री।

अयमु ते समतसि कपोत इव गर्भधिम् ।
वचस्तच्चिन् न ओहसे ॥१॥
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
विभूतिरस्तु सूनृता ॥२॥
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन् वाजे शतक्रतो ।
समन्येषु ब्रवावहै ॥३॥