अथर्ववेदः/काण्डं २०/सूक्तम् ०४७

विकिस्रोतः तः
← सूक्तं २०.०४६ अथर्ववेदः - काण्डं २०
सूक्तं २०.०४७
१-३ सुकक्षः, ७-९ इरिम्बिठिः, ४-६, १०-१२ मधुच्छन्दाः, १३-२१ प्रस्कण्वः।
सूक्तं २०.०४८ →
दे. इन्द्रः, १३-२१ सूर्यः। गायत्री।

तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत्॥१॥
इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
द्युम्नी श्लोकी स सोम्यः ॥२॥
गिरा वज्रो न संभृतः सबलो अनपच्युतः ।
ववक्ष ऋष्वो अस्तृतः ॥३॥
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥४॥
इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ॥५॥
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
वि गोभिरद्रिमैरयत्॥६॥
आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
एदं बर्हिः सदो मम ॥७॥
आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
उप ब्रह्माणि नः शृणु ॥८॥
ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
सुतावन्तो हवामहे ॥९॥
युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि ॥१०॥
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
शोणा धृष्णू नृवाहसा ॥११॥
केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
समुषद्भिरजायथाः ॥१२॥
उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥१३॥
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
सूराय विश्वचक्षसे ॥१४॥
अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।
भ्राजन्तो अग्नयो यथा ॥१५॥
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
विश्वमा भासि रोचन ॥१६॥
प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।
प्रत्यङ्विश्वं स्वर्दृशे ॥१७॥
येना पावक चक्षसा भुरण्यन्तं जनामनु ।
त्वं वरुण पश्यसि ॥१८॥
वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।
पश्यं जन्मानि सूर्य ॥१९॥
सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
शोचिष्केशं विचक्षणम् ॥२०॥
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
ताभिर्याति स्वयुक्तिभिः ॥२१॥