अथर्ववेदः/काण्डं १/सूक्तम् ३३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.३२ अथर्ववेदः - काण्डं १
सूक्तं १.३३
शन्तातिः।
सूक्तं १.३४ →
दे. (चन्द्रमाः) आपः (च)। त्रिष्टुप्।

हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः ।
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥१॥
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् ।
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥२॥
यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥३॥
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ।
घृतश्चुतः शुचयो याः पावकास्ता न आपः शं स्योना भवन्तु ॥४॥


सायणभाष्यम्

'हिरण्यवर्णाः' इति सूक्तस्य बृहद्गणे, लघुगणे, अपां सूक्तेषु च पाठात् तेषां यत्रयत्र विनियोगस्तत्र अस्य सूक्तस्य विनियोगोऽनुसंधेयः। गणस्वरूपसूत्रं पूर्वमेव उदाहृतम् (अ १,४)।

तथा अनेन सूक्तेन अर्थोत्थापनकर्मणि 'अम्बयो यन्ति' (अ १, ४) इति सूक्तोक्तानि कर्माणि कुर्यात् ।

तथा गोदानाख्ये संस्कारकर्मणि वपनानन्तरम् अनेन सूक्तेन माणवकं स्नापयेत्। सूत्र्यते हि – “अथैनम् उप्तकेशश्मश्रु कृत्तनखम् आप्लावयति 'हिरण्यवर्णाः' इत्येतेन सूक्तेन” (कौसू ७, ५) इति।

तथैव मधुपर्के पाद्योदकाभिमन्त्रणे च एतत् सूक्तम् । “अथोदकम् आहारयति पाद्यं भो इति। 'हिरण्यवर्णाभिः' (अ १,३३) प्रतिमन्त्र्य' (कौसू ९०,८, ९) इति सूत्रितम् ।

तद्वदेव अनुदकदेशे उदकप्रादुर्भावलक्षणे अद्भुते अनेन सूक्तेन आज्यहोमः कार्यः। सुत्रितं हि-- 'अथ यत्रैतद् अनुदक उदकोन्मीलो भवति ‘हिरण्यवर्णाः' इत्यपां सूक्तैर्जुहुयात् । सा तत्र प्रायश्चित्तिः” (कौसू १२१,१;२) इति ।

उदकपूर्णकलशभङ्गे नवकलशम् आहृत्य तत्र अनेन सूक्तेन उदकम् अभिमन्त्र्य पूरयेत् । “अथ यत्रैतत् कुम्भ उदधानः सक्तुधानी वा उखा वा अनिङ्गिता विकसति' इति प्रक्रम्य सूत्रितम् - अन्यं कृत्वा ध्रुवाभ्यां दृंहयित्वा । तत्र 'हिरण्यवर्णाः' इत्युदकम् आसेचयेत्” (कौसू १३६,१-८) इति।

पुष्पाभिषेके कलशाभिमन्त्रणेऽपि एतत् सूक्तम् । तद् उक्तं परिशिष्टे --

'सावित्र्युभयतः कुर्यात् शं-नो-देवी तथैव च ।

हिरण्यवर्णाः सूक्तं च अनुवाक्याद्यमेव च' ( अप ५,२,४ ) इति ॥


हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः ।

या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥१॥

हिरण्यवर्णाः । शुचयः । पावकाः । यासु । जातः । सविता । यासु । अग्निः ।

याः। अग्निम् । गर्भम् । दधिरे । सुऽवर्णाः । ताः। नः। आपः । शम् । स्योना। भवन्तु ॥ १ ॥

हिरण्यवर्णाः हितरमणीयवर्णाः हिरण्यसदृशवर्णा वा, हिरण्यस्य वर्ण इव वर्णो यासां तास्तथोक्ताः। 'सप्तम्युपमान' (पावा २,२,२४) इत्यादिना बहुव्रीहिः । 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' (पा ६,२,१) इति पूर्वपदप्रकृतिस्वरत्वेन आद्युदात्तत्वम् । शुचयः शुद्धाः, अत एव पावकाः अन्येषां स्नानपानादिना शोधयित्र्यः । 'प्रत्ययस्थात् कात् पूर्वस्य' ( पा ७,३,४४ ) इत्यादिना प्राप्तस्य इत्त्वस्य ‘पावकादीनां छन्दस्युपसंख्यानम्' ( पावा ७,३,४५) इति प्रतिषेधः। अपां स्वरूपपर्यालोचनया शुद्धिहेतुताम् अभिधाय शोधकानां सवित्रादीनां जन्महेतुत्वेनापि तां समर्थयते--यासु इति । यासु अप्सु सविता सर्वस्य प्राणिजातस्य प्रेरक आदित्यो जातः प्रादुर्भूतः । प्रत्यहं हि समुद्रात् सूर्य उद्यन् दृश्यते तदपेक्षोऽयं निर्देशः। जनी प्रादुर्भावे । 'श्वीदितो निष्ठायाम्' (पा ७,२,१४ ) इति इट्प्रतिषेधः। 'जनसनखनां सञ्झलोः' (पा ६, ४,४२) इति आत्वम् । तथा यासु अप्सु मेघस्थासु सामुद्रीषु च अग्निः वैद्युतवाडवरूपेण जात इति संबन्धः। गर्भरूपेण शुचिना अग्निना नित्यसंबन्धादपि अपां पूतताम् आह--या अग्निम् इति । याः सुवर्णाः शोभनवर्णा आपः अग्निम् अङ्गनादिगुणयुक्तं देवं गर्भं दधिरे गर्भत्वेन धारयन्ति । तथा च निगमः -- 'अग्ने गर्भो अपाम् असि' (तै ४,२.३,३ ) इति । डुधाञ् धारणपोषणयोः। 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६ ) इति वर्तमाने लिट् । बहुवचने आलोपे कृते तस्य 'द्विर्वचनेऽचि' (पा १,१,५९ ) इति स्थानिवत्त्वाद् द्विर्वचनम् । इरेचश्चित्त्वाद् अन्तोदात्तत्वम् । 'यद्वृत्तान्नित्यम्' (पा इति निघातप्रतिषेधः। ताः उदीरितलक्षणाः सर्वा आपः नः अस्माकम् अवसेकादिना कर्मणा शम् रोगादिशमनहेतवः स्योनाः। सुखनामैतत् । सुखकारिण्यश्च भवन्तु ।


यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् ।

या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥२॥

यासाम् । राजा । वरुणः । याति । मध्ये । सत्यानृते इति सत्यऽअनृते । अवऽपश्यन् । जनानाम् ।

याः । अग्निम । गर्भम् । दधिरे । सुवर्णाः। ताः । नः । आपः। शम् । स्योनाः । भवन्तु ॥ २॥

आप एव स्तूयन्ते । राजा राजमानो वरुणः एतत्संज्ञः पापिनो निग्रहकर्ता देवः यासाम् अपां मध्ये मध्यभागे । समुद्रमध्य इति यावत् । तत्र स्थित्वा [जनानां ] सत्यानृते । सत्यं यथार्थभाषणम्, तद्विपरीतम् अनृतम् । उभे अवपश्यन् तत्कर्तुर्निग्रहार्थम् अवयुत्य परस्परसांकर्यपरिहारेण जानन् याति गच्छति पाशहस्तस्तत्रतत्र संनिधत्ते । तथा च तैत्तिरीयकम् -- 'अनृते खलु वै क्रियमाणे वरुणो गृह्णाति' ( तैब्रा १,७,२,६) इति । अन्यद् व्याख्यातम्।


यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।

या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥३॥

यासाम् । देवाः। दिवि । कृण्वन्ति । भक्षम् । याः। अन्तरिक्षे । बहुऽधा । भवन्ति ।

याः। अग्निम् । गर्भम्। दधिरे । सुऽवर्णाः । ताः । नः। आपः। शम् । स्योनाः। भवन्तु ॥३॥

देवाः इन्द्राद्याः यासाम् अपां सारभूतम् अमृतं सोमं वा दिवि द्युलोके भक्षम् उपभोग्यम् । भक्ष अदने । कर्मणि घञ् । 'णेरनिटि' (पा ६,४,५१) इति णिलोपः ‘एरजण्यन्तानाम्' (पाकै ३,३,५६) इति अचो न प्रसङ्गः । भक्ष मन्थ भोग देह इति उञ्छादिषु पाठाद् अन्तोदात्तता । कृण्वन्ति कुर्वन्ति । कृवि हिंसाकरणयोश्च । इदित्त्वाद् नुम् । 'धिन्विकृण्व्योर च' (पा ३,१,८०) इति उप्रत्ययः तत्संनियोगेन अकारश्चान्तादेशः । अतो लोपे तस्य स्थानिवद्भावात् लघूपधगुणाभावः। सतिशिष्टस्वरबलीयस्त्वम् अन्यत्र विकरणेभ्यः' ( पावा ६,१,१५८) इति उप्रत्ययस्वरं बाधित्वा तिङः प्रत्ययस्वरेण आद्युदात्तत्वम् । तथा या आपः अन्तरिक्षे अन्तरिक्षलोके बहुधा बहुप्रकारेण । 'बहुगणवतुडति संख्या' (पा १,१,२३) इति *[संख्यासंज्ञा] । 'संख्याया विधार्थे धा' (पा ५,३,४२) इति धाप्रत्ययः। वृष्ट्यादिरूपेण नाना भवन्ति । व्याख्यातम् अन्यत्।


शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ।

घृतश्चुतः शुचयो याः पावकास्ता न आपः शं स्योना भवन्तु ॥४॥

शिवेन । मा। चक्षुषा । पश्यत । आपः। शिवा । तन्वा । उप ।स्पृशत । त्वचम् । मे।

घृतऽश्चुतः । शुचयः । याः। पावकाः । ताः। नः। आपः । शम् । स्योनाः। भवन्तु ॥४॥

हे आपः । ‘आमन्त्रितस्य च' (पा ८,१,१९) इत्याष्टमिकं सर्वानुदात्तत्वम् । अबभिमानिन्यो देवताः यूयं शिवेन अक्रूरेण सुखकरेण चक्षुषा लोचनेन मा मां सेकादिना अनिष्टपरिहारेष्टप्राप्तिकामं पश्यत अवलोकयत । 'त्वामौ द्वितीयायाः' (पा ८,१ २३) इत्यस्मदो द्वितीयान्तस्य मादेशः । तथा शिवया कल्याण्या इष्टप्राप्तिहेतुभूतया तन्वा युष्मदीयेन शरीरेण मे मम युष्मदनुग्रहाकाङ्क्षिणः त्वचम् त्वग्धातुम् उप स्पृशत संमृशत । परोक्षवद् आह--घृतश्चुतः घृतं क्षरणशीलं दीप्यमानं वा अमृतं श्चोतन्ति क्षरन्तीति घृतश्चुतः अमृतस्राविण्य आपः। श्चुतिर क्षरणे । 'क्विप् च' (पा ३,२,७६ ) इति क्विप् । अन्यद् व्याख्यातम् ।

इति पञ्चमं सूक्तम् ।