सामग्री पर जाएँ

अथर्ववेदः/काण्डं १/सूक्तम् ३२

विकिस्रोतः तः
← सूक्तं १.३१ अथर्ववेदः - काण्डं १
सूक्तं १.३२
ब्रह्मा
सूक्तं १.३३ →
दे. द्यावापृथिवी। अनुष्टुप्, २ ककुम्त्यनुष्टुप् ]])

इदं जनासो विदथ महद्ब्रह्म वदिष्यति ।
न तत्पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ॥१॥
अन्तरिक्ष आसां स्थाम श्रान्तसदामिव ।
आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा ॥२॥
यद्रोदसी रेजमाने भूमिश्च निरतक्षतम् ।
आर्द्रं तदद्य सर्वदा समुद्रस्येव श्रोत्याः ॥३॥
विश्वमन्यामभीवार तदन्यस्यामधि श्रितम् ।
दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ॥४॥

सायणभाष्यम्

'इदं जनासः' इति सूक्तेन वन्ध्यायाः पुत्रप्रजननकर्मणि तस्याः शान्तौषधिसहितोदकाभिषेकम् , पुरोडाशकन्दुकालंकारप्रदानं च कुर्यात्। सूत्रितं हि-- " 'इदं जनासः' इत्यस्यै शिंशपाशाखासु उदकान्ते शान्ता अधिशिरोवसिञ्चति। [आव्रजितायै ]' (कौसू ३४,१;२) इति।

तथा अनेन सूक्तेन पुष्टिकामः संपत्कामो वा द्यावापृथिव्योर्यागम् उपस्थानं वा कुर्यात् । आह कौशिकः-- "'इदं जनासः' इति द्यावापृथिव्यौ पुष्टिकामः। संपत्कामः” ( कौसू ५९,३,४) इति।

अत्र आद्या दर्शपूर्णमासयोः पत्न्यञ्जलौ उदपात्रनिनयने विनियुक्ता । सूत्रं च--" बर्हिषि पत्न्याञ्जलौ निनयति 'समुद्रं वः प्र हिणोमि' (अ १०,५,२३ ) इति 'इदं जनासः' (अ १,३२,१) इति वा” (कौसू ६,१७) ।


इदं जनासो विदथ महद्ब्रह्म वदिष्यति ।

न तत्पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ॥१॥

इदम् । जनासः । विदथ । महत् । ब्रह्म । वदिष्यति ।

न । तत् । पृथिव्याम् । नो । इति । दिवि । येन । प्राणन्ति । वीरुधः ॥१॥

जनासः हे जनाः । 'आज्जसेरसुक्' (पा ७,१,५०)। ज्ञातुकामा यूयम् इदम् वक्ष्यमाणं वस्तु विदथ जानीथ। विद ज्ञाने। लेटि मध्यमबहुवचने व्यत्ययेन शः। किं तद् इत्यत आह--मन्त्रद्रष्टा ऋषिः महत् महत्त्वगुणयुक्तं व्यापकं ब्रह्म ब्रह्मणः प्रथमकार्यम् । श्रूयते हि-'आपो वा इदम् अग्रे सलिलम् आसीत्' (तै ७,१,५,१) इति । स्मर्यते च-- 'अप एव ससर्जादौ तासु वीर्यमपाकिरत्' इति' ('मस्मृ १,८)। तादृशं ब्रह्म वदिष्यति कथयिष्यति । तस्योदकस्य प्रतिनियतं निवासस्थानं वक्तुं लोकप्रतीतिसिद्धं स्थानम् अपवदति--तत् उदकात्मकं ब्रह्म पृथिव्याम् भूमौ न । तिष्ठतीति शेषः। वृष्टियूर्ध्वभाविनो जलस्यैव भूमौ अवस्थानम् । ननु लोकप्रतीतिसिद्धं द्युलोक एवेत्यत आह--नो नैव दिवि द्युलोके । तिष्ठतीति शेषः । तर्हि संभाविती लोकद्वये अविद्यमानस्य तस्य खपुष्पकल्पनेत्यत आह--येन उक्तेन उदकेन वीरुधः विरोहणशीलाश्च कौशिकेनोक्ताश्चित्त्याद्या अन्याश्चौषधयः प्राणन्ति जीवन्ति । उदकम् अन्तरेण अनुपपद्यमानं वीरुधां जीवनं तत्सत्तायाः कल्पकम् इति तस्य नासत्त्वम् इत्यर्थः । श्वस प्राणने । अन च । अदादित्वात् शपो लुक् । 'अनितेः' (पा ८,४,१९ ) इति णत्वम् । 'यद्वृत्तान्नित्यम् ' ( पा ८,१,६६) इति निघातप्रतिषेधः ।


अन्तरिक्ष आसां स्थाम श्रान्तसदामिव ।

आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा ॥२॥

अन्तरिक्षे । आसाम् । स्थाम । श्रान्तसदाम्ऽइव ।

आऽस्थानम् । अस्य । भूतस्य । विदुः । तत् । वेधसः । न । वा ॥ २ ॥

पूर्वं प्रतिपादितप्रकारेण उदकसत्ताया अवश्यंभावात् लब्धसत्ताकस्य च वस्तुनः क्वचिद् अवस्थाननियमात् अस्यापि केनचित् निवासस्थानेन भवितव्यम् इत्याशङ्क्य विवक्षितम् असाधारणं स्थानं दर्शयति--अन्तरिक्ष इति । आसाम् वीरुधां स्थाम स्थानं स्थितिहेतुभूतम् उदकम् अन्तरिक्षे द्यावापृथिव्योर्मध्यवर्तिनि लोके । वर्तत इति शेषः । स्थामेति । ष्ठा गतिनिवृत्तौ । अस्माद् मनिन्प्रत्ययः । यद्वा आसाम् वीरुज्जीवनहेतुभूतानाम् अपां स्थाम स्थानम् अन्तरिक्षे अन्तरिक्षलोके। आह च भगवान् पतञ्जलिर्महाभाष्ये -- 'अन्तरिक्षे महत् समुद्रं विततम् अस्ति' इति । श्रूयते च-- 'अस्मिन् महत्यर्णवेऽन्तरिक्षे (तै ४,५,११,१ ) इति । तत्र दृष्टान्तः--श्रान्तसदामिव । तपसा कृच्छ्रचान्द्रायणादिना श्रान्ताः सन्तः सीदन्ति निवसन्ति सुखोपभोगार्थम् इति श्रान्तसदः यक्षगन्धर्वादयः । षद्लृ विशरणगत्यवसादनेषु । अस्मात् 'सत्सूद्विष' (पा ३,२,६१ ) इत्यादिना क्विप् । तेषां यथा अन्तरिक्षं स्थानम् । 'यक्षगन्धर्वाप्सरोगणसेवितम् अन्तरिक्षम्' ( नृपू १,२) इति श्रुतेः । तथेति पूर्वेण संबन्धः । 'इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्' ( पावा २,१,४) इति समासः। लोकान्तरगतत्वेन तद् उदकं भूलोकनिवासिनाम् अनुपकारकम् इत्याशङ्कdय आह -- आस्थानम् इति । अस्य अस्मिन् लोके परिदृश्यमानस्य भूतस्य लब्धसत्ताकस्य स्थावरजङ्गमात्मकस्य जगतः आस्थानम् । आ समन्तात् तिष्ठन्ति जीवन्ति अनेनेति आस्थानम् । करणे ल्युट् । वृष्टिद्वारा जगज्जीवनकारणम् इत्यर्थः । तस्य दुर्ज्ञानत्वम् आह । तत् कारणभूतम् उदकं वेधसः विधातारो मन्वादयः विदुः जानन्ति न वा विदुः न वा जानन्ति । सर्वस्रष्टॄणां तेषामपि संदिग्धं किल तत् , किमु वक्तव्यम् अर्वाचीनानां मनुष्याणां दुर्ज्ञेयमिति इत्यर्थः । विदुष्टद् इति । 'युष्मत्तत्ततक्षु:ष्वन्तःपादम्' (पा ८,३,१०३ ) इति विसर्जनीयस्य षत्वम् ।


यद्रोदसी रेजमाने भूमिश्च निरतक्षतम् ।

आर्द्रं तदद्य सर्वदा समुद्रस्येव श्रोत्याः ॥३॥

यत् । रोदसी इति । रेजमाने इति । भूमिः । च । निःऽअतक्षतम् ।

आर्द्रम् । तत् । अद्य । सर्वदा । समुद्रस्यऽइव । स्रोत्याः ॥ ३ ॥

तस्योदकस्य उत्पत्तिप्रकारम् आह । रोदसी हे द्यावापृथिव्यौ रेजमाने कम्पमाने जलम् उत्पादयितुं व्याप्रियमाणे । रेजृ कम्पने इति धातुः। भ्यसते रेजत इति भयवेपनयोः इति यास्कः (३,२१)। भूमिः चकारात् द्यौश्च युवां यत् प्रागुदीरितम् उदकं निरतक्षतम् उदपादयतम् । सृष्टस्योदकस्य सर्वदा धारणात् प्राधान्यं सूचयितुं भूमेः अवयुत्यापि निर्देशः। तक्षू त्वक्षू तनूकरणे । अस्मात् लङि मध्यमद्विवचने रूपम् । 'यद्वृत्तान्नित्यम्' (पा ८,१,६६ ) इति निघातप्रतिषेधः । तत् उदकम् अद्य इदानीं वर्तमानकाले सर्वदा सर्वस्मिन् काले आर्द्रम् आर्द्रगुणयुक्तं शोषरहितम् । वर्तत इति शेषः । वृष्टिद्वारा उदके निर्गतेपि पुनरपि अन्तरिक्षगतम् उदकम् अनुपक्षीणं वर्तत इत्यर्थः । तत्र दृष्टान्तः-- समुद्रस्येव स्रोत्याः - यथा समुद्रगामिन्यो नद्यः अक्षीणोदका वर्तन्ते तद्वद् इत्यर्थः । 'स्रोतसो विभाषा ड्यड्ड्यौ' (पा ४, ४, ११३ ) इति ड्यप्रत्ययः। डित्त्वात् टिलोपः।


विश्वमन्यामभीवार तदन्यस्यामधि श्रितम् ।

दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ॥४॥

विश्वम् । अन्याम् । अभिऽवार । तत् । अन्यस्याम् । अधि । श्रितम् ।

दिवे । च । विश्वऽवेदसे । पृथिव्यै । च । अकरम् । नमः ॥ ४ ॥

विशिष्टकारणजन्यत्वेन आप्यं श्रैष्ठ्यं सूचयितुं कारणत्वेन उक्ते द्यावापृथिव्यौ प्रशंसति । विश्वम् । कर्मणि षष्ठ्यभावश्छान्दसः विश्वस्य अन्याम् । सुपां सुपो भवन्ति' (पावा ७,१,३९) इति सोः अम् आदेशः । अन्या द्यौः अभीवारः अभितो वरणं छादनम् । भवतीति शेषः। वृञ् वरणे । वृणोतेराच्छादने' (पा ३,३,५४) इति अभिपूर्वादपि व्यत्ययेन घञ् । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' (पा ६,३,१२२) इति पूर्वपदस्य दीर्घः। अथवा विश्वम् कृत्स्नं जगत् अन्याम् अन्यया दिवा । व्यत्ययेन द्वितीया। अभीवारः अभिवृतम् । कर्मणि घञ् । आच्छन्नम् इत्यर्थः । लिङ्गव्यत्ययः । यद्वा । विश्वम् कर्तृभूतं जगत् अन्याम् दिवम् उद्दिश्य अभीवारः । अभितः संभजनयुक्तं वृष्टिविषयप्रार्थनायुक्तम् अभूत् । वृङ् संभक्तौ । भावे घञ् । तद् उक्तं विश्वम् अन्यस्याम् पृथिव्याम् अधि श्रितम आश्रितं वर्तते । दिवे उक्तलक्षणाय द्युलोकाय विश्ववेदसे । वेद इति धननाम । विश्वस्य जगतो धनभूताय । वृष्टिप्रदानेन सर्वधनहेतुत्वाद् धनात्मकत्वम् । यद्वा वेद इति ज्ञाननाम । विश्वं विश्वविषयं ज्ञानं यस्याः सा तथोक्ता तस्यै । तथा पृथिव्यै विश्वाधारभूतायै । परस्परसमुच्चयार्थौ चकारौ। नमः। अन्ननामैतत् । हविर्लक्षणम् अन्नं नमस्कारं वा अकरम् करोमि । 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६) इति करोतेर्वर्तमाने लुङ् । 'कृमृदृरुहिभ्यश्छन्दसि' (पा ३,१,५९) इति च्लेः अङ् आदेशः। ‘तिड्ङतिङः' (पा ८,१,२८) इति निघातः।

इति षष्ठेऽनुवाके चतुर्थ सूक्तम् ।