अथर्ववेदः/काण्डं १/सूक्तम् ३४
← सूक्तं १.३३ | अथर्ववेदः - काण्डं १ सूक्तं १.३४ अथर्वा। |
सूक्तं १.३५ → |
दे. मधुवनस्पतिः। अनुष्टुप्। |
इयं वीरुन् मधुजाता मधुना त्वा खनामसि ।
मधोरधि प्रजातासि सा नो मधुमतस्कृधि ॥१॥
जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् ।
ममेदह क्रतावसो मम चित्तमुपायसि ॥२॥
मधुमन् मे निक्रमणं मधुमन् मे परायणम् ।
वाचा वदामि मधुमद्भूयासं मधुसंदृशः ॥३॥
मधोरस्मि मधुतरो मदुघान् मधुमत्तरः ।
मामित्किल त्वं वनाः शाखां मधुमतीमिव ॥४॥
परि त्वा परितत्नुनेक्षुणागामविद्विषे ।
यथा मां कमिन्यसो यथा मन् नापगा असः ॥५॥
सायणभाष्यम्
परिषज्जयकर्मणि सभाप्रवेशात् पूर्वम् ‘इयं वीरुत्' इति सूक्तेन मधुकाख्यां वीरुधं भक्षयेत् । सूत्रितं हि--" 'इयं वीरुद्' इति मधुकं खादन् अपराजितात् परिषदम् आव्रजति" (कौसू ३७,१७) इति ।
विवाहकर्मण्यपि एतेन सूक्तेन मधुकमणिं रक्तसूत्रेण बद्ध्वा अङ्गुल्यां बध्नीयात् । सूत्रितं च--" ‘इयं वीरुद्' इति मधुकमणिं लाक्षारक्तेन सूत्रेण विग्रथ्ये अनामिकायां बध्नाति" ( कौसू ७६,८) इति।
विवाह एव चतुर्थिकाकर्मणि शयनकाले मधुकमणिं पिष्ट्वा औक्षे प्रक्षिप्य अनेन सूक्तेन अभिमन्त्र्य वधूवरौ परस्परं संगच्छेयाताम् । “मदुघमणिम् औक्षेऽपनीय' इयं वीरुत् ( अ १,३४)। अमोऽहम् ( अ १४,२,७१) इति संस्पृशतः” ( कौसू ७९,१०) इति सूत्रितत्वात् ।
अश्वमेधे ब्रह्मोद्यवदनेऽपि एतत् सूक्तम् ।
इयं वीरुन् मधुजाता मधुना त्वा खनामसि ।
मधोरधि प्रजातासि सा नो मधुमतस्कृधि ॥१॥
इयम् । वीरुत् । मधुऽजाता। मधुना । त्वा । खनामसि ।
मधोः । अधि । प्रऽजाता । असि । सा । नः । मधुऽमतः । कृधि ॥ १ ॥
इयम् पुरोवर्तिनी सभाजयादिकर्मसु विनियुज्यमाना वीरुत् विरोहणशीला लता मधुकाख्या मधुजाता मधुनि मधुररसोपेते भूतले जाता उत्पन्ना। यद्वा मधुने मध्वर्थम् उपभोक्तॄणां वचसि माधुर्यसंपादनाय जाता उत्पन्ना । अथवा मधुना क्षौद्ररसेन जाता उत्पन्ना । तस्या उत्पत्तौ क्षौद्ररस एव जलवत् कारणम् इत्यर्थः । जनी प्रादुर्भावे । कर्तरि निष्ठा । हे वीरुत् त्वा त्वाम् स्वभावतो मधुरां वयमपि मधुना मधुरूपेण खनित्रादिना खनामसि खनामः अवदारयामः । खनु अवदारणे। 'इदन्तो मसि' ( पा ७,१,४६ ) इति मस इदन्तत्वम् । यद्वा मधुना। इत्थंभावे तृतीया। मधुरेण प्रकारेण खनामः । माधुर्यरसोपेतामेव त्वां खनामः न तु केवलाम् इत्यर्थः। तथा त्वं मधोः मधुनः । लिङ्गव्यत्ययः । 'जनिकर्तुः प्रकृतिः' (पा १,४,३०) इति पञ्चमी । मधुरूपाद् उपादानकारणात् । अधिः पञ्चम्यर्थानुवादी । प्रजाता प्रकर्षेण जाता असि भवसि । या त्वम् उक्तप्रकारेण आश्रयतः स्वभावतः उपादानतश्च मधुमयी भवसि सा त्वं नः अस्मान् मधुमतः मधुररसोपेतान् कृधि कुरु । कायिकवाचिकमानसरूपः अस्मदीयः सकलो व्यापारः मधुररसोपेतः सन् सर्वैरुपादेयो भवतु इत्यर्थः । डुकृञ् करणे । मध्यमैकवचने छान्दसो विकरणस्य लुक् । 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा ६, ४, १०२ ) इति हेर्धिरादेशः। 'कःकरत्करतिकृधिकृतेष्वनदितेः' (पा ८, ३, ५० ) इति विसर्जनीयस्य सत्वम् ।
जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् ।
ममेदह क्रतावसो मम चित्तमुपायसि ॥२॥
जिह्वायाः । अग्रे । मधु । मे । जिह्वाऽमूले । मधूलकम् ।
मम । इत् । अहं । क्रतौ । असः । मर्म । चित्तम् । उपऽआयसि ॥ २ ॥
हे मधुकलते त्वं मे जिह्वायाः रसनाया अग्रे अग्रभागे मधु क्षौद्रं यथा भवति तथा वर्तस्व । तथा जिह्वामूले रसनाया मूलभागे मधूलकम् मधुररसबहुलं जलमधूलकवृक्षपुष्पं यथा भवति तथा तदात्मिका वा वर्तस्व । जिह्वायां मध्वादिसंनिधानेन तन्निर्वर्त्या वागपि मधुरा सर्वेषां सुश्रवा भवतु इत्यर्थः। तथा हे लते त्वं मम । इत् इति अहेति च निपातौ अवधारणार्थौ । उभाभ्याम् अन्ययोगायोगव्यवच्छेदौ क्रियेते । ममैव नान्यस्येत्यर्थः। क्रतौ कर्मणि शारीरे व्यापारे असः भव । अस भुवि । लेटि अडागमः । तथा मम चित्तम् अन्तःकरणम् उपायसि उपागच्छ। मदीयः शारीरो मानसो व्यापारश्च त्वत्संनिधानात् माधुर्यरसोपेतः सर्वश्लाघ्यो भवतु इत्यर्थः ।
मधुमन् मे निक्रमणं मधुमन् मे परायणम् ।
वाचा वदामि मधुमद्भूयासं मधुसंदृशः ॥३॥
मधुऽमत् । मे । निऽक्रमणम् । मधुऽमत् । मे । पराऽअयनम् ।
वाचा । वदामि । मधुमत् । भूयासम् । मधुऽसंदृशः ॥ ३ ॥
हे मधुकलते त्वद्धारणेन मे मम निक्रमणम् निकटगमनं संनिहितार्थेषु प्रवर्तनं मधुमत् मधुयुक्तं स्वस्य परेषां च प्रीतिकरम् । भवतु इति शेषः । तथा मे मम परायणम् परागमनं दूरगमनं मधुमत् भवतु । तथा वाचा वागिन्द्रियेण यद् वदामि कथयामि तत् सर्वx मधुमत् भवतु । इत्थं स्वकीयानां सर्वेषां व्यापाराणां मधुमयत्वात् तथाविधव्यापारयुक्तः अहमपि संदृशः संद्रष्टुः सर्वस्य पुरुषस्य मधु मधुवत् प्रीतिविषयो भूयासम् । संपूर्वाद् दृशेः 'क्विप् च' (पा ३, २, ७६ ) इति क्विप्।
मधोरस्मि मधुतरो मदुघान् मधुमत्तरः ।
मामित्किल त्वं वनाः शाखां मधुमतीमिव ॥४॥
मधोः । अस्मि । मधुऽतरः । मदुघात् । मधुमत्ऽतरः ।
माम् । इत् । किल । त्वम् । वनाः । शाखाम् । मधुमतीम्ऽइव ॥ ४ ॥
हे मधुकलते त्वत्संनिधानात् मधोः मधुनः क्षौद्रात् । लिङ्गव्यत्ययः । मधुतरः अतिशयेन मधुररसोपेतः अस्मि भवामि । मधुशब्दात् तरप् । मदुघात् मधुदुघात् । दुह प्रपूरणे । मधुशब्दोपपदाद् अस्माद् 'दुहः कब् घश्च' (पा ३,२,७०) इति कप् प्रत्ययः, तत्संनियोगेन घत्वं च । मधुशब्दे धुलोपश्छान्दसः। मधुस्राविणः पदार्थविशेषात् मधुमत्तरः अतिशयेन मधुमान् अस्मि । मधुशब्दाद् मतुप् । तदन्तात् 'द्विवचनविभज्योपपदे तरबीयसुनौ' (पा ५,३,५७) इति तरप् । स्वस्य अतिशयेन मधुमत्त्वे हेतुम् आह--मामित् इति । हे मधुकलते त्वं मामित् । इच्छब्दः अवधारणे। किल शब्दः प्रसिद्धौ । मामेव खलु वनाः संभजेः । यतस्त्वं मय्येव संनिहिता अतोहं सर्वस्माद् मधुतर इत्यर्थः । वन षण संभक्तौ । अस्मात् लेटि मध्यमे 'लेटोऽडाटौ' (पा ३,४,९४) इत्याडागमः। तत्र दृष्टान्तः -- मधुमतीमिव मधुयुक्तां शाखाम् वृक्षसंबन्धिनीं यथा जनः सेवते तद्वद् इत्यर्थः।
परि त्वा परितत्नुनेक्षुणागामविद्विषे ।
यथा मां कमिन्यसो यथा मन् नापगा असः ॥५॥
परि । त्वा । परिऽतत्नुना । इक्षुणा । अगाम् । अविऽद्विषे ।
यथा । माम् । कामिनी । असः । यथा । मत् । न । अपऽगाः । असः ॥ ५ ॥
हे जाये त्वा त्वां परितत्नुना परिततेन सर्वतो व्याप्तेन । तनु विस्तारे । 'तनिपत्योश्छन्दसि' ( पा ६,४,९९ ) इति उपधालोपः । तथाविधेन इक्षुणा इक्षुवद् अतिशयितमाधुर्यरसोपेतेन मधुकेन अविद्विषे आवयोः परस्परं विद्वेषणाभावाय पर्यगाम् परितः प्राप्तवान् अस्मि । इण् गतौ । 'इणो गा लुङि' (२,४,४५) इति गादेशः । 'व्यवहिताश्च' (पा १,४,८२) इति परेर्व्यवहितप्रयोगः । परिगमनस्य न केवलम् अविद्वेषमात्रं फलम् अपितु यथा येन प्रकारेण हे जाये त्वं माम् पतिं कामिनी कामयमाना असः भवेः। अस्तेर्लेटि अडागमः । यथा च मत् मत्तः सकाशात् । 'एकवचनस्य च' (पा ७,१,२२) इति अस्मद् उत्तरस्य ङसेः अदादेशः । त्वमावेकवचने' (पा ७,२,९७ ) इति मपर्यन्तस्य मादेशे 'शेषे लोपः' (पा ७,२,९० ) इति लोपः । अपगाः अपहाय गच्छन्ती नाऽसः न भवेः । गाङ् गतौ । अस्माद् अपपूर्वाद् 'आतो मनिन्क्वनिब्वनिपश्च' (पा ३,२,७४) इति विच्प्रत्ययः । तथा त्वां पर्यगाम् इति पूर्वेण संबन्धः।
इति प्रथमकाण्डे षष्ठेनुवाके षष्ठं सूक्तम् ।