अथर्ववेदः/काण्डं १/सूक्तम् १७

विकिस्रोतः तः
← सूक्तं १.१६ अथर्ववेदः - काण्डं १
सूक्तं १.१७
ब्रह्मा।
सूक्तं १.१८ →
दे. योषितः धमन्यश्च।अनुष्टुप्, १ भुरिगनुष्टुप्, ४ त्रिपदार्षी गायत्री।

अमूर्या यन्ति योषितो हिरा लोहितवाससः ।
अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः ॥१॥
तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे ।
कनिष्ठिका च तिष्ठति तिष्ठादिद्धमनिर्मही ॥२॥
शतस्य धमनीनां सहस्रस्य हिराणाम् ।
अस्थुरिन् मध्यमा इमाः साकमन्ता अरंसत ॥३॥
परि वः सिकतावती धनूर्बृहत्यक्रमीत्।
तिष्ठतेलयता सु कम् ॥४॥


सायणभाष्यम्

चतुर्थेनुवाके पञ्च सूक्तानि । तत्र 'अमूर्याः' इति प्रथमं सूक्तम् । तेन शस्त्रघातादिजरुधिरप्रवाहस्य स्त्रीरजसः अतिवर्तनस्य च निवृत्तये पञ्चपर्वणा दण्डेन रुधिरवहनस्थानाभिमन्त्रणम् व्रणमुखे रथ्यापांसुसिकताप्रक्षेपणादिकम् अर्मकपालिकाबन्धनं च इत्येवमादि कुर्यात् । सूत्रं च -– “अमूर्या' इति। पञ्चपर्वणा पांसुसिकताभिः परिकिरति । अमर्कपालिकां बध्नाति । पाययति” (कौसू २६,९-१२) इत्यादि । अर्मकपालिका नाम शुष्कपङ्कमृत्तिका, केदारमृत्तिका वा।


अमूर्या यन्ति योषितो हिरा लोहितवाससः ।

अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः ॥१॥

अमू: । याः । यन्ति । योषितः । हिराः । लोहितऽवाससः ।

अभ्रातरःऽइव । जामयः । तिष्ठन्तु । हतऽवर्चसः ॥ १ ॥

'योषितः स्त्रियाः संबन्धिन्यः अमूः एताः पुरतो दृश्यमानाः लोहितवाससः लोहितवर्णवस्त्राः। लोहितवर्णा इत्यर्थः। यद्वा लोहितस्य रुधिरस्य निवासभूताः । वस आच्छादने, वस निवासे, इत्यनयोः अन्यतरस्माद् ‘वसेर्णित्' (पाउ ४,२१८ ) इति औणादिकः असुन्प्रत्ययः। तस्य णिद्वद्भावाद् उपधावृद्धिः। ईदृश्यो या हिराः सिराः रजोवहननाड्यः यन्ति गच्छन्ति। व्याधिवशात् सर्वदा प्रवहन्तीत्यर्थः। इण् गतौ । 'इणो यण्' (पा ६,४,८१) इति यणादेशः। 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधः। ताः सिराः क्रियमाणेन अनेन भैषज्यकर्मणा हतवर्चसः हततेजस्काः प्रनष्टरोगवीर्याः सत्यः तिष्ठन्तु स्थेयासुः । मा प्रवाक्षुरित्यर्थः। तिष्ठन्तु । ष्ठा गतिनिवृत्तौ । लोटि पाघ्रा' ( पा ७,३,७८) इत्यादिना तिष्ठादेशः। स च आद्युदात्तो निपातितः । अन्यथा धातुस्वरेण अन्तोदात्तत्वे सति शपा सह एकादेशे 'अतो गुणे' (पा ६,१,९७ ) इति पररूपे 'एकादेश उदात्तेनोदात्तः' (पा ८,२,५ ) इति उदात्तत्वे कृते तिष्ठन्ति इति मध्योदात्तं पदं स्यात् । आद्युदात्तं चेष्यते । तस्माद् आद्युदात्तो निपात्यते । स निपातनस्वरो धातुस्वरस्य बाधको यथा स्यात् । पादादित्वात् निघाताभावः । तत्र दृष्टान्तः -- अभ्रातर इव । न विद्यन्ते भ्रातरो यासां ता अभ्रातरः । 'नद्यृतश्च' (पा ५,४,१५३) इति प्राप्तस्य कपः 'ऋतश्छन्दसि' (पा ५,४,१५८) इति निषेधः । यथा अभ्रातृका जामयः भगिन्यः । आह च यास्कः -- 'न जामये भगिन्यै । जामिरन्येऽस्यां जनयन्ति जाम् अपत्यम्' (या ३,६ ) इति । ता यत उत्पन्नास्तत्रैव पितृकुले संतानकर्मणे पिण्डदानाय च तिष्ठन्ति तद्वद्, इत्यर्थः ।


तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे ।

कनिष्ठिका च तिष्ठति तिष्ठादिद्धमनिर्मही ॥२॥

तिष्ठ । अवरे । तिष्ठ। परे। उत। त्वम् । तिष्ठ। मध्यमे ।

कनिष्ठिका । च । तिष्ठति । तिष्ठात् । इत्। धमनिः। मही ॥२॥

इदानीं धमनीः प्रार्थयते--हे अवरे शरीरस्य अधोभागवर्तिनि सिरे त्वं तिष्ठ शस्त्राद्यभिघातजनितरुधिरस्रावाद् निवृत्ता भव । तथा हे परे ऊर्ध्वाङ्गवर्तिनि सिरे त्वमपि तिष्ठ । अवरे इत्यस्य आमन्त्रितस्य 'आमन्त्रितं पूर्वम् अविद्यमानवत्' (पा ८,१,७२) इति अविद्यमानवद्भावेन अतिङ उत्तरत्वाभावात् तिष्ठेत्यस्य निघाताभावः । उत अपि च हे मध्यमे । मध्ये भवा मध्यमा । 'मध्यान्मः' (पा ४,३,८) इति मप्रत्ययः । शरीरस्य मध्यभागवर्तिनि सिरे त्वमपि तिष्ठ । पूर्वार्धे प्रत्यक्षेण धमनीनां स्थानभेदभिन्नानां प्रार्थना कृता । अधुना परिमाणतो भिन्नानां तासामेव पारोक्ष्येण प्रार्थना क्रियते--कनिष्ठिका । अतिशयेन अल्पा कनिष्ठा । 'युवाल्पयोः कन् अन्यतरस्याम्' (पा ५,३,६४) इति इष्ठनि अल्पशब्दस्य कन् आदेशः । स्वार्थिकः कप्रत्ययः । 'प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः' (पा ७,३,४४) इति इत्वम् । सूक्ष्मतरा च नाडी तिष्ठति । तत्र यत्नविशेषो न कर्तव्य इत्यर्थः । अस्मिन् पक्षे चकारः त्वर्थे । यद्वा पञ्चमलकारोयम् । कनिष्ठिका च तिष्ठतु महती चेति । परस्परसमुच्चयार्थश्चकारः । 'चवायोगे प्रथमा' (पा ८,१,५९) इति प्रथमा तिङ्विभक्तिर्न निहन्यते । मही महती स्थूलतरा धमनिः सिरा तिष्ठादित् तिष्ठत्वेव । अनेन प्रयोगेण निवृत्तरुधिरस्रावा अवतिष्ठताम् । ष्ठा गतिनिवृत्तौ । 'लेटोडाटौ' (पा ३,४,९४) इत्यडागमः । 'इतश्च लोपः परस्मैपदेषु' (पा ३,४,९७) इति इकारलोपः। पादादित्वात् निघाताभावः। महीति। महतीशब्दे छान्दसः अच्छब्दलोपः । ।


शतस्य धमनीनां सहस्रस्य हिराणाम् ।

अस्थुरिन् मध्यमा इमाः साकमन्ता अरंसत ॥३॥

शतस्य । धमनीनाम् । सहस्रस्य। हिराणाम् । अस्थुः । इत् । मध्यमाः । इमाः । साकम् । अन्ताः । अरंसत ॥ ३ ॥

शतस्य शतसंख्यानां धमनीनाम् हृदयगतानां प्रधाननाडीनाम्। तथा च कठोपनिषदि अग्रे समाम्नायते । ‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानम् अभिनिःसृतैका' (कउ ६,१६) इति । तथा सहस्रस्य सहस्रसंख्याकानां हिराणाम् सिराणां शाखानाडीनाम् । सहस्रशब्दस्य अपरिमितपर्यायत्वात् श्रुतिप्रसिद्धानां सर्वासां शाखानाडीनाम् एतद् उपलक्षणम् । तथा च प्रश्नोपनिषदि वक्ष्यति । 'अत्रैतद् एकशतं नाडीनां तासां द्वासप्ततिं द्वासप्ततिं प्रति शाखानाडीसहस्राण्यासु व्यानश्चरति' (प्रउ ३,६) इति । आचार्यैरपि प्राधान्यविवक्षया काश्चन नाड्यः परिगणिताः।

'मध्यस्थायाः सुषुम्नायाः पर्वपञ्चकसंभवाः ।

शाखोपशाखतां प्राप्ताः सिरा लक्षत्रयात् परम् ।

अर्धलक्षम् इति प्राहुः शरीरार्थविचारकाः।' इति ।

तासाम् उभयविधानां नाडीनां मध्यमाः मध्ये भवाः इमाः पूर्वं व्याधिवशात् स्रवन्त्यो नाड्यः अस्थुरित् । इच्छब्दः अवधारणे । अतिष्ठन्नेव । अधुना मन्त्रप्रभावात् निवृत्तरुधिरस्रावा भवन्त्येवेत्यर्थः । अतः परं निवृत्तरुधिरस्रावाभिर्नाडीभिः साकम् सार्धम् अन्ताः अन्तिमा अवशिष्टाः सर्वा नाड्यः अरंसत यथापूर्वं रमन्ते स्म। रमु क्रीडायाम् । अनुदात्तेत्त्वाद् आत्मनेपदम् । लुङि च्लेः सिच्' (पा ३,१,४४)।


परि वः सिकतावती धनूर्बृहत्यक्रमीत्।

तिष्ठतेलयता सु कम् ॥४॥

परि। वः । सिकतावती। धनूः। बृहती। अक्रमीत्।

तिष्ठत । इलयत । सु। कम् ॥ ४ ॥

हे नाड्यः वः युष्मान् । 'बहुवचनस्य वस्नसौ' (पा ८,१,२१) इति द्वितीयान्तस्य युष्मदः वसादेशः । सिकतावती सिकताः रजांसि तद्वती तदाधारभूता नाडी। यद्वा अश्मर्याख्यो व्याधिविशेषो यस्माद् उत्पद्यते सा नाडी सिकतावती। धनूः धनुर्वद् वंक्रो मूत्राशयो नाडीविशेषः । धन धान्ये । 'कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः' (पाउ १,८० ) इति ऊप्रत्ययः । स्मर्यते हि--

'मूत्राशयो धनुर्वक्रो वस्तिरित्यभिधीयते ।' इति ।

तथा बृहती महती । 'वर्तमाने पृषद्बृहन्महजगच्छतृवच्च' (पाउ २,८४) इति शतृवद्भावाद् ‘उगितश्च' (पा ४,१,६) इति ङीप्। 'बृहन्महतोरुपसंख्यानम्' (पावा ६,१,१७३) इति ङीप उदात्तत्वम् । उक्ता सा नाडी पर्यक्रमीत् परितो व्याप्नोत् । सर्वान् रुधिरप्रवहणमार्गान् निरुध्य वर्तत इत्यर्थः । क्रमु पादविक्षेपे । अस्मात् लुङि सिचि ‘ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्' (पा ७,२,५) इति वृद्धिप्रतिषेधः । अस्माद्धेतोः हे नाड्यः यूयं तिष्ठत निवृत्तस्रावा भवत । कम् सुखम् अस्य जनस्य सु सुष्ठु इलयत प्रेरयत । स्रवव्याधिविनिर्मुक्ताः सुखं प्रयच्छतेत्यर्थः। इल प्रेरणे इति धातुः ।

इति प्रथमं सूक्तम् ।