अथर्ववेदः/काण्डं १/सूक्तम् १६
← सूक्तं १.१५ | अथर्ववेदः - काण्डं १ सूक्तं १.१६ चातनः। |
सूक्तं १.१७ → |
दे. १ अग्निः, २ इन्द्रः, वरुणः, (२-४ दधत्यं सीसम्)। अनुष्टुप्, ४ ककुम्मती अनुष्टुप्। |
येऽमावास्यां रात्रिमुदस्थुर्व्राजमत्त्रिणः ।
अग्निस्तुरीयो यातुहा सो अस्मभ्यमधि ब्रवत्॥१॥
सीसायाध्याह वरुणः सीसायाग्निरुपावति ।
सीसं म इन्द्रः प्रायच्छत्तदङ्ग यातुचातनम् ॥२॥
इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः ।
अनेन विश्वा ससहे या जातानि पिशाच्याः ॥३॥
यदि नो गां हंसि यद्यश्वं यदि पूरुषम् ।
तं त्वा सीसेन विध्यामो यथा नोऽसो अवीरहा ॥४॥
सायणभाष्यम्
'येमावास्यां रात्रिम्' इति सूक्तेन द्वेष्यमारणार्थम् अभिमन्त्रितसीसचूर्णमिश्रान्नप्रदानम् तद्गात्रस्थाभरणसंस्पर्शनम् स्वयंछिन्नवेणुयष्ट्या ताडनं च कुर्यात् । सूत्रं च--"'येमावास्यां रात्रिम्' इति संनह्य सीसचूर्णानि" (कौसू ४७,२३) इत्यादि । अत्र सीसशब्देन 'सीसनदीसीसे अयोरजांसि कृकलाशशिरः सीसानि' ( कौसू ८,१८) इति परिभाषासूत्रोक्तानि प्रत्येतव्यानि । अत्र नदीसीसम् इति नदीफेनम् उच्यते ।
येऽमावास्यां रात्रिमुदस्थुर्व्राजमत्त्रिणः ।
अग्निस्तुरीयो यातुहा सो अस्मभ्यमधि ब्रवत्॥१॥
ये । अमावास्याम् । रात्रिम् । उत्ऽअस्थुः । व्राजम् । अत्त्रिणः ।
अग्निः । तुरीयः । यातुऽहा । सः । अस्मभ्यम् । अधि । ब्रवत् ॥ १ ॥
ये प्रसिद्धा अत्त्रिणः अदनशीला रक्षःपिशाचादयः। अद भक्षणे इत्यस्माद् 'अदेस्त्रिनिश्च' (पाउ ४,६८) इति औणादिकस्त्रिनिप्रत्ययः। अमावास्याम् । अमा सह वसतः अस्यां तिथौ सूर्याचन्द्रमसौ इति अमावास्या। वस निवासे । अस्मात् ण्यति 'अमावस्यद् अन्यतरस्याम्' (पा ३,१,१२२) इति वृद्ध्यभावनिपातनस्य पाक्षिकत्वाद् अत्र वृद्धिः। 'तस्येदम्' (पा ४,३,१२० ) अर्थे विहितस्य अणः छान्दसो लुक् । 'तित् स्वरितम्' (पा ६,१,१८५) इति अन्तस्वरितत्वम् । अमावास्यासंबन्धिनीम् इत्यर्थः । यद्वा 'सुपां सुपो भवन्ति' (पावा ७,१,३९) इति षष्ठ्या अमादेशः । अमावास्याया इत्यर्थः । रात्रिम् रजनीं भ्राजम् भ्राजमानां तारकाभिर्दीप्यमानाम् । भ्राजृ दीप्तौ । 'भ्राजभास' (पा ३,२,१७७ ) इत्यादिना क्विप् । रात्रिम् इति । 'कालाध्वनोरत्यन्तसंयोगे' (पा २,३,५) इति द्वितीया । सर्वस्यां रात्रौ उदस्थुः उत्तिष्ठन्ति । मनुष्यान् हिंसितुं रात्रौ संचरन्तीत्यर्थः। यद्वा भ्राजं भ्राजमानं रोगाद्यभावेन पुष्टाङ्गं पुरुषं हिंसितुम् उदस्थुः । अत एव अमावस्यासंबन्धिन्यां रात्रौ रक्षसां संचरणं निमित्तीकृत्य राक्षोघ्नेष्टिर्विहिता - 'अग्नये रक्षोघ्ने पुरोडाशम् अष्टाकपालम् अमावास्यायां निशायां निर्वपेत्' (तु. तै २,२,२,२) इति । तथैव तेषां संचरणमेव निमित्तीकृत्य तस्यां रात्रौ आत्मरक्षा कर्तव्येति तेनैव आपस्तम्बेनोक्तम् -–'दिवादित्यः सत्त्वानि गोपायति नक्तं चन्द्रमास्तस्माद् अमावास्यायां निशायां स्वाधीन आत्मनो गुप्तिम् इच्छेत्' ( आपध १,११,३ ) इति । अस्थुरिति । ष्ठा गतिनिवृत्तौ। 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६) इति वर्तमाने लुङ् । अत्र च ऊर्ध्वगमनस्य विवक्षितत्वात् 'उदोऽनूर्ध्वकर्मणि' (पा १,३,२४ ) इति ऊर्ध्वकर्मणः पर्युदस्तत्वाद् आत्मनेपदाभावः । ‘गातिस्था' (पा २,४,७७ ) इति सिचो लुक् । 'आतः' (पा ३,४, ११० ) इति झेर्जुस् । 'उस्यपदान्तात्' ( पा ६,१,९६ ) इति पररूपत्वम। यत एवं रक्षांसि अस्याम् उत्तिष्ठन्ति अतः कारणात् तुरीयः चतुर्थः अग्निः। पूर्वं देवानां हव्यवाहकास्त्रयः अग्नयो मृताः, तदपेक्षया अस्य वर्तमानस्य अग्नेस्तुरीयत्वम् । श्रूयते हि तैत्तिरीयके- 'अग्नेस्त्रयो ज्यायांसो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त' (तै २,६,६,१) इति । यद्वा वैतानाग्नयस्त्रयः, तदपेक्षया गार्ह्योग्निश्चतुर्थः। अथवा वैतानिकः गार्ह्यः सांग्रामिकश्चेति त्रयः अग्नयः, तदपेक्षया आङ्गिरसोग्निश्चतुर्थः। पूरणेर्थे 'चतुरश्छ्यतावाद्यक्षरलोपश्च' (पावा ५,२,५१) इति छप्रत्ययः। तत्संन्नियोगेन चकारस्य लोपः । सोग्निः यातुहा यातूनां रक्षसां हन्ता । 'अग्निः खलु वै रक्षोहा' (तै ६,१,४,६) इति तैत्तिरीयकम् । हन हिंसागत्योः । अस्माद् यातुशब्दोपपदात् 'बहुलं छन्दसि' (पा ३,२,८८ ) इति क्विप् । स तथाविधोग्निः अस्मभ्यम् अस्मदर्थम् अधि ब्रवत् अधिब्रवीतु । अस्मान् स्वकीयत्वेन स्वीकृत्य तेभ्यो रक्षःपिशाचेभ्यः प्राप्तां भीतिं निवर्तयतु इत्यर्थः। ब्रूञ् व्यक्तायां वाचि । अस्मात् लेटि अडागमः।
सीसायाध्याह वरुणः सीसायाग्निरुपावति ।
सीसं म इन्द्रः प्रायच्छत्तदङ्ग यातुचातनम् ॥२॥
सीसाय । अधि । आह । वरुणः । सीसाय । अग्निः। उप । अवति ।
सीसम् । मे। इन्द्रः। प्र। अयच्छत् । तत् । अङ्ग। यातुऽचातनम् ॥२॥
अनया प्रयोगसाधनं द्रव्यं स्तूयते । सीसाय प्राक् सूत्रपरिभाषया प्रदर्शिताय नदीफेनादिरूपाय । तादर्थ्ये चतुर्थी । तदर्थं वरुणः जलाधिपतिर्देवः अध्याह अधिब्रवीति । मदीयम् एतद् इत्यभिमन्यते । अस्य सीसस्य रक्षापिशाचाद्यनभिमतनिवृत्तिसाधनत्वेन इतरपदार्थेभ्यो विशिष्टत्वात् अत्रैव असाधारण्येन पक्षपातं करोतीत्यर्थः। आहेति । ब्रूञ् व्यक्तायां वाचि । 'ब्रुवः पञ्चानाम् आदित आहो ब्रुवः' (पा ३,४,८४ ) इति तिपो णलादेशः तत्संनियोगेन प्रकृतेः आहादेशश्च । तथा सीसाय उक्तद्रव्यार्थम् अग्निः अङ्गनादिगुणयुक्तो देवः उप अवति उपरक्षति । निरन्तरम् एतत् सीसं समीपे स्थापयित्वा रक्षोनिबर्हणसामर्थ्याधानेन पालयतीत्यर्थः । यद्वा सीसायेति 'क्रियाग्रहणं कर्तव्यम्' (पावा १,४,३२) इति कर्मणः संप्रदानत्वात् चतुर्थी । सीसम् उक्तप्रकारेण रक्षतीत्यर्थः । उदीरितसामर्थ्योपेतं सीसं मे मह्यं द्वेष्यादिनिरसनकामाय इन्द्रः परमैश्वर्ययुक्तो देवानां पतिः प्रायच्छत् प्रादात् । अनेन त्वदभिमतं साधयेति प्रदत्तवान् इत्यर्थः । दाण् दाने । लङि 'पाघ्रा' (पा ७,३,७८) इत्यादिना यच्छादेशः । सत्सु अन्येषु उत्कृष्टेषु द्रव्येषु किम् अनेन निकृष्टेन द्रव्येणेत्याह --तदङ्ग इति । अङ्ग इति आभिमुख्यकरणे । हे साधक देवदत्त तत् खलु उक्तसामर्थ्योपेतं सीसं यातुचातनम् यातूनां रक्षःपिशाचादीनां नाशकम् । 'चातयतिर्नाशने' (या ६,३०) इति हि यास्कः ।
इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः ।
अनेन विश्वा ससहे या जातानि पिशाच्याः ॥३॥
इदम् । विऽस्कन्धम् । सहते। इदम् । बाधते। अत्त्रिणः ।
अनेन । विश्वा । ससहे। या। जातानि। पिशाच्याः ॥३॥
अपि च इदम् सीसं विष्कन्धम् गतिप्रतिबन्धकम् । रक्षःपिशाचादिकृतं विघ्नजातम् इत्यर्थः। सहते अभिभवति निःसारयति । षह अभिभवे इति धातुः। विष्कन्धम् इति । स्कन्दिर् गतिशोषणयोः। भावे घञ् । प्रादिसमासे 'वेः स्कन्देरनिष्ठायाम्' (पा ८,३,७३ ) इति षत्वम्। व्यत्ययेन धकारः ।अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तथा इदम् सीसम् अत्त्रिणः अदनशीलान् राक्षसान् बाधते हिनस्ति । न केवलं रक्षःपिशाचादिकृतं विघ्नं निवर्तयति अपितु विघ्नोत्पादकान् रक्षःप्रभृतीनपि विनाशयतीत्यर्थः। यत एवम् अतः अनेन उक्तप्रभावोपेतेन सीसेन विश्वा विश्वानि सर्वाणि । ‘शेश्छन्दसि बहुलम्' (पा ६,१,७०) इति शेर्लोपः । ससहे अभिभवामि । सह अभिभवे । लटि उत्तमैकवचने 'बहुलं छन्दसि' (पा २,४,७६) इति शपः श्लुः । कानि पुनस्तानि इत्याह पिशाच्याः पिशिताशिन्या राक्षस्याः अस्याः सकाशात् जातानि उत्पन्नानि या यानि पीडाकराणि उपद्रवजातानि। सन्तीति शेषः। तानीति पूर्वेण संबन्धः। पिशितम् अश्नातीति पिशिताशः। 'पृषोदरादीनि यथोपदिष्टम्' (पा ६,३, १०९) इत्यत्र गणे पिशाचशब्दस्य पाठात् पिशिताशशब्दस्य पिशाचादेशः । जातिलक्षणो ङीष् ।
यदि नो गां हंसि यद्यश्वं यदि पूरुषम् ।
तं त्वा सीसेन विध्यामो यथा नोऽसो अवीरहा ॥४॥
यदि । नः । गाम् । हंसि । यदि । अश्वम् । यदि । पूरुषम् ।
तम् । त्वा । सीसेन । विध्यामः । यथा । नः । असः । अवीरऽहा ॥ ४ ॥
हे शत्रो त्वं नः अस्माकं संबन्धिनीं गाम् गोजातं यदि हंसि मारयसि । हन हिंसागत्योः। लटि शपि अदादित्वात् शपो लुक् । तथा अश्वं यदि हंसि । पूरुषम् अस्मदीयं भृत्यादिरूपं यदि हंसि । अत्र सर्वत्र यदिशब्दप्रयोगाद् अपकर्तुरेव हिंस्यत्वम् न अनपकर्तुः इति द्योत्यते । तम् तथाविधं मदीयगवाश्वादिहननेन अपकर्तारं त्वा त्वां शत्रुभूतम् । 'त्वामौ द्वितीयायाः' (पा ८,१,२३ ) इति युष्मदस्त्वादेशः। ‘अनुदात्तं सर्वम् अपादादौ' (पा ८,१,१८ ) इत्यनुवृत्तेः अनुदात्तत्वम् । सीसेन उक्तमहिमोपेतेन विध्यामः ताडयामः मारयामः । व्यध ताडने । दिवादित्वात् श्यन् । 'ग्रहिज्यावयिव्यधि' (पा ६,१,१६ ) इत्यादिना संप्रसारणम् । शत्रुणा घातितानां गवादीनां पुनरुद्भवासंभवात् किमिति शत्रुहिंसा क्रियत इत्यत आह -- यथेति । इतः परमपि यथा येन प्रकारेण हे शत्रो त्वं नः अस्माकम् अवीरहा । वीर्याज्जायन्त इति वीराः पुत्राः, तेषां हन्ता वीरहा, न वीरहा अवीरहा। असः भवसि । अस्तेर्लेटि अडागमः । इतः परमपि अस्मदीयान् पुत्र पश्वादीन् यथा न बाधसे तथा ताडयाम इति पूर्वेण संबन्धः । इति पञ्चमं सूक्तम् ।
इति प्रथमकाण्डे तृतीयोनुवाकः ॥