अथर्ववेदः/काण्डं १/सूक्तम् १८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१७ अथर्ववेदः - काण्डं १
सूक्तं १.१८
द्रविणोदाः।
सूक्तं १.१९ →
दे. विनायकः ( २ सविता, वरुणः, मित्रः, अर्यमा, देवाः, ३ सविता)। १ विराडुपरिष्टाद्बृहती, २ निचृज्जगती, ३ विराडास्तारपङ्क्तिस्त्रिष्टुप्, ४ अनुष्टुप्।

निर्लक्ष्म्यं ललाम्यं निररातिं सुवामसि ।
अथ या भद्रा तानि नः प्रजाया अरातिं नयामसि ॥१॥
निररणिं सविता साविषक्पदोर्निर्हस्तयोर्वरुणो मित्रो अर्यमा ।
निरस्मभ्यमनुमती रराणा प्रेमां देवा असाविषुः सौभगाय ॥२॥
यत्त आत्मनि तन्वां घोरमस्ति यद्वा केशेषु प्रतिचक्षणे वा ।
सर्वं तद्वाचाप हन्मो वयं देवस्त्वा सविता सूदयतु ॥३॥
रिश्यपदीं वृषदतीं गोषेधां विधमामुत ।
विलीढ्यं ललाम्यं ता अस्मन् नाशयामसि ॥४॥


सायणभाष्यम्

‘निर्लक्ष्मम्' इति सूक्तेन मुखहस्तपादाद्यङ्गेषु सामुद्रिकोक्तदुर्लक्षणयुक्तायाः स्त्रियास्तद्दोषनिवृत्तये मुखप्रक्षालनम्, अभिषेकः, फलीकरणतुषावतक्षणानां होमो वा कार्यः । सूत्रितं हि - " 'निर्लक्ष्म्यम्' इति पापलक्षणाया मुखम् उक्षत्यन्वृचं दक्षिणात् केशस्तुकात्” (कौसू ४२,१९) इत्यादि।

तथा शान्तिकल्पेपि महाशान्तौ एतत् सूक्तम् ।


निर्लक्ष्म्यं ललाम्यं निररातिं सुवामसि ।

अथ या भद्रा तानि नः प्रजाया अरातिं नयामसि ॥१॥

निः। लक्ष्म्यम् । ललाम्यम् । निः। अरांतिम् । सुवामसि ।

अथ । या । भद्रा । तानि । नः। प्रऽजायै। अरातिम् । नयामसि ॥ १॥

ललाम्यम् ललामे भवं तिलकस्थानगतम् । 'शरीरावयवाच्च' (पा ४,३,५५) इति भवार्थे यत्प्रत्ययः । 'तित् स्वरितम्' (पा ६,१,१८५) इति स्वरितत्वम् । लक्ष्मम् लक्ष्म असौभाग्यकरं चिह्नम् । लक्ष दर्शनाङ्कनयोः। बाहुलकाद् औणादिको मक्प्रत्ययः। निः सुवामसि निःसुवामः । अस्माच्छरीराद् निरवशेषम् उत्सारयामः । षू प्रेरणे । तुदादित्वात् शप्रत्ययः । 'अचि श्नुधातु' (पा ६,४,७७) इत्यादिना उवङ् । 'इदन्तो मसि' (पा ७,१,४६) इति मस इदन्तत्वम् । 'व्यवहिताश्च' (पा १,४,८२) इति निसो व्यवहितप्रयोगः । 'तिङ्ङतिङः' (पा ८,१,२८) इति निघातः । अरातिम् । राति ददाति इष्टं वस्त्विति रातिर्मित्रम् , न रातिः अरातिः शत्रुः । अरातिवद् अनिष्टकरम् अवयवान्तरगतं दुर्लक्षणं निःसुवामः। रा दाने । 'क्तिच्क्तौ च संज्ञायाम्' (पा ३,३,१७४) इति क्तिच् । नञ्समासे 'तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः' (पा ६,२,२) इत्यत्र 'अव्यये नञ्कुनिपातानाम् इति वक्तव्यम्' इति परिगणनाद् अव्ययपूर्वपदप्रकृतिस्वरत्वम्। दुर्लक्षणनिरसनरूपाम् अनिष्टनिवृत्तिम् अभिधाय सुलक्षणस्थापनरूपाम् इष्टप्राप्तिम् आह --अथ येति । अथ दुर्लक्षणनिरसनानन्तरं या यानि सामुद्रिकशास्त्रप्रसिद्धानि भद्रा भद्राणि कल्याणानि सौभाग्यकराणि चिह्नानि सन्ति । भदि कल्याणे सुखे च । इदित्त्वाद् नुम् । 'ऋज्रेन्द्राग्र० (पाउ २,२८) इति रक्प्रत्ययः नलोपश्च । उभयत्रापि शेश्छन्दसि बहुलम्' ( पा ६.१.७० ) इति शेर्लोपः । प्रत्ययलक्षणेन नुमि कृते 'सर्वनामस्थाने चासंबुद्धौ' (पा ६,४,८ ) इति उपधादीर्घः। 'नलोपः प्रातिपदिकान्तस्य' (पा ८.२,७ ) इति नलोपः। तानि उदीरितानि चिह्नानि नः अस्माकं प्रजायै पुत्रपौत्रादिरूपायै । भवन्तु इति शेषः। प्रकर्षेण जायत इति प्रजा। जनी प्रादुर्भावे । 'उपसर्गे च संज्ञायाम्' (पा ३,२,९९ ) इति जनेर्डप्रत्ययः। डित्करणसामर्थ्यात् 'टेः' (पा ६,४,१४३) इति टिलोपः । प्रत्ययस्वरेण अन्तोदात्तत्वम् । ततो गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव स्वरः शिष्यते। ततष्टापि कृते 'एकादेश उदात्तेनोदात्तः' (पा ८,२,५) इति एकादेश उदात्तः। यानि पूर्वं निःसारितानि असौभाग्यकराणि चिह्नानि सन्ति तेषाम् आश्रयम् आह - अरातिम् इति । उक्तानि, दौर्भाग्यकराणि चिह्नानि अरातिम् शत्रु नयामसि नयामः प्रापयामः । णीञ् प्रापणे । पूर्ववद् मस इदन्तत्वम् ।


निररणिं सविता साविषक्पदोर्निर्हस्तयोर्वरुणो मित्रो अर्यमा ।

निरस्मभ्यमनुमती रराणा प्रेमां देवा असाविषुः सौभगाय ॥२॥

निः । अरणिम् । सविता । साविषक् । पदोः । निः । हस्तयोः । वरुणः। मित्रः ।अर्यमा ।

निः । अस्मभ्यम् । अनुमतिः। रराणा । प्र। इमाम् । दे॒वाः । असाविषुः । सौभगाय ॥ २॥

सविता सर्वस्य प्रेरको देवः अरणीम अरमणीम् अलक्ष्मीम् । दौर्भाग्यकरं चिह्नम् इत्यर्थः। मकारलोपश्छान्दसः। यद्वा अरणीम् सर्वदा पर्यटनकारिणीम् आर्तिकरीं वा अलक्ष्मीम् । अर्तेः औणादिकः अनिप्रत्ययः। 'कृदिकाराद् अक्तिनः' (पावा ४,१,४५) इति ङीष्प्रत्ययः। एवंभूताम् अलक्ष्मीं पदोः पादयोः। वर्तमानाम् इति शेषः । 'पद्दन्नोमास्' (पा ६,१,६३ ) इत्यादिना पादशब्दस्य पद् आदेशः। 'ऊडिदंपदाद्यप्पुम्रैद्युभ्यः' (पा ६,१,१७१ ) इति विभक्तेरुदात्तत्वम् । निः साविषत् निःसुवतु निःसारयतु । षू प्रेरणे । अस्मात् पञ्चमलकारे 'लेटोऽडाटौ' (पा ३,४,९४ ) इति अडागमः। 'सिब्बहुलम् (पा ३,१,३४ ) इति सिप् । ‘स च णिद् वक्तव्यः' (पावा ३,१,३४ ) इति वचनात् 'अचो ञ्णिति' (पा ७,२,११५ ) इति वृद्धिः । 'आर्धधातुकस्येड् वलादेः' (पा ७,२,३५) इति सिप इडागमः। तथा वरुणः वारको देवः। मित्रः सर्वेषां मित्रभूतो देवः। अर्यमा अभिमतफलप्रदाता देवः। 'अर्यमेति तम् आहुर्यो ददाति' (तैब्रा १,१,२,४ ) इति श्रुतेः। एते देवाः प्रत्येकं हस्तयोर्वर्तमानाम् अरणीम् अलक्ष्मीं निःसुवन्तु । हस्तपादयोर्वर्तमानम् असौभाग्यकरं लक्षणम् एते सर्वे देवा निर्गमयन्तु इत्यर्थः। तथा अनुमतिः सर्वेषाम् अनुमन्त्री देवता अस्मभ्यम् अस्मदर्थं रराणा मा भैषीरिति शब्दायमाना अस्माभिः स्तूयमाना वा। रै शब्दे । कर्तरि कर्मणि वा लिट् । 'लिटः कानज्वा' (पा ३,२, १०६ ) इति कानजादेशः। 'चितः' (पा ६,१,१६३ ) इति अन्तोदात्तत्वम् । यद्वा रा दाने। राति ददाति अभिमतफलम् इति रराणा । पूर्ववत् कानजादेशः । एवंभूता सती देवी सर्वेषु शरीरावयवेषु वर्तमानं दुर्लक्षणं निःसुवतु । निसः श्रवणात् तत्सहचरितसाविषत् इति क्रियापदस्य अनुषङ्गः । सतीष्वपि अन्यासु देवतासु अस्या एव प्रार्थनायां हेतुम् आह - प्रेमाम् इति । देवाः इन्द्रादयः इमाम् उक्ताम् अनुमतिं सौभगाय सौभाग्याय अस्माकं सौभाग्यं दातुं प्रासाविषुः प्रेरितवन्तः । यत एवम् अत इति पूर्वत्र संबन्धः । षू प्रेरणे । अस्मात् लुङि 'सिचि वृद्धिः परस्मैपदेषु' (पा ७,२,१ ) इति वृद्धिः । व्यवहिताश्च' (पा १,४,८२ ) इति प्रोपसर्गस्य व्यवहितप्रयोगः। सौभगायेति । शोभनो भगोऽस्य अस्तीति सुभगः। तस्य भावः सौभगम् । उद्गात्रादिगणे 'सुभग मन्त्रे' इति पाठात् 'प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्' (पा ५,१,१२९) इति अञ् । 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७ ) इति आद्युदात्तत्वम् ।


यत्त आत्मनि तन्वां घोरमस्ति यद्वा केशेषु प्रतिचक्षणे वा ।

सर्वं तद्वाचाप हन्मो वयं देवस्त्वा सविता सूदयतु ॥३॥

यत् ।ते। आत्मनि । तन्वाम् । घोरम् । अस्ति। यत् । वा। केशेषु । प्रतिऽचक्षणे । वा।

सर्वम् । तत् । वाचा । अप। हन्मः । वयम्। देवः। त्वा । सविता। सूदयतु ॥ ३ ॥

हे दुर्लक्ष्मोपेत पुरुष ते तव आत्मनि आत्मीयायां तन्वाम् शरीरे घोरम् भयंकरं दुर्लक्षणं यद् अस्ति । यद्वा आत्मनि शरीरोपहिते पुरुषे घोरम् भयंकरं पापं तन्वाम् शरीरे दुर्लक्षणं यद् अस्ति । वा अथवा केशेषु शिरोरुहेषु [वा] अथवा प्रतिचक्षणे दर्शनसाधने चक्षुषि यद् घोरम् अस्ति। चष्टिः पश्यतिकर्मा । करणे ल्युट् । 'असनयोश्च' (पावा २,४,५४ ) इति ख्याञादेशप्रतिषेधः । तद् आभ्यन्तरं बाह्यं च सर्वम् घोरजातं वयम् प्रयोगकुशलाः वाचा मन्त्ररूपया अप हन्मः हिंस्मः । हन हिंसागत्योः । अदादित्वात् शपो लुक् । 'सावेकाचस्तृतीयादिर्विभक्तिः' (पा ६.१,१६८) इति वाच उत्तरस्यास्तृतीयाया उदात्तत्वम् । अनिष्टनिवृत्तिं विधाय इष्टप्राप्तिं प्रार्थयते -- देवः द्योतनात्मकः सविता प्रेरको देवः त्वा त्वां सूदयतु श्रेयसे प्रेरयतु । दूरगतदुर्लक्षणं त्वां श्रेयसा संबद्धं करोतु इत्यर्थः । षूद क्षरणे।


रिश्यपदीं वृषदतीं गोषेधां विधमामुत ।

विलीढ्यं ललाम्यं ता अस्मन् नाशयामसि ॥४॥

रिश्यऽपदीम्। वृषऽदतीम् । गोऽसेधाम् । विऽधमाम् । उत ।

विऽलीढ्यम् । ललाम्यम् । ताः । अस्मत् । नाशयामसि ॥ ४ ॥

ऋश्यपदीम् ऋश्यस्य सारङ्गस्येव पादौ यस्याः सा ऋश्यपदी ईदृशदुर्लक्षणोपेता स्त्री ताम् । 'सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च' (पावा २, २, २४) इति बहुव्रीहिसमासे पादस्य लोपोऽहस्त्यादिभ्यः' (पा ५,४,१३८) इति पादशब्दस्य अन्त्यलोपः । 'पादोऽन्यतरस्याम्' (पा ४,१,८) इति ङीप् । भसंज्ञायां 'पादः पत्' (पा ६,४,१३० ) इति पद्भावः। तथा वृषदतीम् । वृषस्येव दन्ता यस्याः सा वृषदती स्थूलदन्ता नारी [ताम्] । पूर्ववद् बहुव्रीहौ 'अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च' (पा ५,४,१४५ ) इति दन्तशब्दस्य दतृ आदेशः 'उगितश्च' (पा ४,१,६) इति ङीप् । तथा गोसेधाम् गौरिव सेधति गच्छतीति गोसेधा स्त्री ताम् । षिधु गत्याम् । पचाद्यच् । तथा विधमाम् विकृतं धमति शब्दायते इति विधमा [ताम्] ।। ध्मा शब्दाग्निवक्त्रसंयोगयोः। अस्मात् 'पाघ्राध्माधेड्दृशः शः' (पा ३,१,१३७) इति शप्रत्ययः । 'पाघ्राध्मास्थाम्नादाण्दृश्यर्ति' (पा ७,३,७८ ) इत्यादिना धमादेशः। फूत्कारादिविविधशब्दकारिणीम् इत्यर्थः । यद्वा । 'धमतिर्गतिकर्मा' ( या ६,२) इति यास्कः। विकृतगमनाम् । उतशब्दः अप्यर्थे ताः सर्वा ऋश्यपद्याद्याः अस्मत् अस्मत्तः सकाशात् नाशयामसि नाशयामः। अस्मत्संबन्धिनीनां स्त्रीणाम् ऋश्यपदीत्वादिरूपं यद् दुर्लक्ष्म तद् मन्त्रप्रभावात् निवर्तयाम इत्यर्थः । णश अदर्शने । 'इदन्तो मसि' (पा ७,१,४६ )। तथा ललाम्यम् ललामस्थाने ललाटप्रान्ते भवम् । 'शरीरावयवाच्च' (पा ४,३,५५) इति यत् । 'तित् स्वरितम्' (पा ६, १,१८५) इति स्वरितत्वम् । तथाविधं विलीढ्यम् । विशेषेण लीढं विलीढम् । लिह आस्वादने। भावे निष्ठा । 'हो ढः' (पा ८,२,३१) इति ढत्वम् । 'झषस्तथोर्धोऽधः' (पा ८,४,४० ) इति धत्वम्। ततः ष्टुत्वे कृते 'ढो ढे लोपः' (पा ८,३,१३) इति ढलोपे 'ढ्रलोपे पूर्वस्य दीर्घोऽणः' (पा ६,३,१११) इति दीर्घः । विलीढे भवं विलीढ्यम् । 'भवे छन्दसि' (पा ४,४,११०) इति यत् । पूर्ववत् स्वरितत्वम् । विलीढमिव स्थितं केशानां प्रातिलोम्यरूपं ललाटप्रान्ते वर्तमानं यद् दुर्लक्ष्म तदपि नाशयाम इत्यर्थः। अत्र ऋश्यपदीत्वादीनि स्त्रीणामेव दुर्लक्षणानि न पुरुषाणाम् इत्यभिप्रायेण तत्र स्त्रीलिङ्गनिर्देशः। यद् विलीढ्यरूपं दुर्लक्षणं तत् स्त्रीपुरुषोभयसाधारणम् इति ततः पार्थक्येन निर्देशः।

इति चतुर्थेनुवाके द्वितीयं सूक्तम् ।