अथर्ववेदः/काण्डं १/सूक्तम् ११
← सूक्तं १.१० | अथर्ववेदः - काण्डं १ सूक्तं १.११ अथर्वा। |
सूक्तं १.१२ → |
दे. पूषा, अर्यमा, वेधाः, दिशः, देवाः। पङ्क्तिः, २ अनुष्टुप्, ३ चतुष्पदोष्णिग्गर्भा ककुम्मत्यनुष्टुप्, ४-६ पथ्यापङ्क्तिः। |
वषट्ते पूषन्न् अस्मिन्त्सूतावर्यमा होता कृणोतु वेधाः ।
सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥१॥
चतस्रो दिवः प्रदिशश्चतस्रो भूम्या उत ।
देवा गर्भं समैरयन् तं व्यूर्णुवन्तु सूतवे ॥२॥
सूषा व्यूर्णोतु वि योनिं हापयामसि ।
श्रथया सूषणे त्वमव त्वं बिष्कले सृज ॥३॥
नेव मांसे न पीवसि नेव मज्जस्वाहतम् ।
अवैतु पृश्नि शेवलं शुने जराय्वत्तवेऽव जरायु पद्यताम् ॥४॥
वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके ।
वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ॥५॥
यथा वातो यथा मनो यथा पतन्ति पक्षिणः ।
एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ॥६॥
सायणभाष्यम्
‘वषट् ते पूषन्' इति सूक्तेन गर्भिण्याः शिरसि संपाताभिहुतोष्णजलेन आप्लावनम् शालाग्रन्थिविमोचनम् योक्त्रबन्धनम् इत्येवमादीनि सुखप्रसवकर्माणि पुत्रजननविज्ञानकर्मान्तानि कुर्यात् । तत्र 'वषट् ते पूषन्निति चतुर उदपात्रे संपातान् आनीय' इत्यादि 'पुंनामधेये कुमारः' ( कौसू ३३,१-२०) इत्येतदन्तं सूत्रं द्रष्टव्यम् ।
वषट्ते पूषन्न् अस्मिन्त्सूतावर्यमा होता कृणोतु वेधाः ।
सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥१॥
वषट् । ते । पूषन् । अस्मिन् । सूतौ । अर्यमा । होता । कृणोतु । वेधाः ।
सिस्रताम् । नारी । ऋतऽप्रजाता । वि। पर्वाणि । जिहताम् । सूतवै । ऊँ इति ॥१॥
हे पूषन् सकलप्राणिजातस्य पोषक देव । 'पूषापोषयत्' (तैब्रा १,६,२,२) इति श्रुतेः। ते तुभ्यम्। 'नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च' (पा २,३,१६) इति चतुर्थी । 'तेमयावेकवचनस्य' (पा ८,१,२२ ) इति युष्मदस्ते आदेशः। 'अनुदात्तं सर्वम् अपादादौ' (पा ८,१,१८) इति अनुवृत्तेः स च अनुदात्तः। अस्मिन् सूतौ इदानीं संप्राप्ते सुखप्रसवकर्मणि । षूङ् प्राणिप्रसवे इत्यस्मात् भावे क्तिन् । अस्मिन्निति । लिङ्गव्यत्ययः। होता देवानाम् आह्वाता ऋत्विक् अर्यमा प्राणिजातस्य प्रेरको देवः आदित्यः तदात्मको भूत्वा वषट् कृणोतु । वषट्कारेण हविः प्रयच्छतु । तथा वेधाः धाता सकलजगतो निर्माता देवः ध्यानविशेषेण तदात्मकश्च भूत्वा वषट् कृणोतु । यद्वा अर्यमा वेधाश्च होता भूत्वा तुभ्यं वषट् कृणोतु । देवैरेव क्रियमाणम् इदं कर्म सुखप्रसवलक्षणं फलं दातुं शक्नोतीत्यर्थः । कृवि हिंसाकरणयोश्च । इदित्त्वात् नुम् । अस्मात् लोटि शपि प्राप्ते ‘धिन्विकृण्व्योर च' (पा ३,१,८०) इति उप्रत्ययः । तत्संनियोगेन धात्वन्तस्य अकारादेशश्च । 'अतो लोपः' (पा ६,४,४८ ) इति तस्य लोपे 'अचः परस्मिन् पूर्वविधौ' (पा १,१,५७ ) इति स्थानिवद्भावेन ऋकारस्य उपधात्वविघातात् लघूपधगुणाभावः। हविःस्वीकारेण तुष्टस्य पूष्णः प्रसादात् नारी गर्भिणी स्त्री। 'नृनरयोर्वृद्धिश्च' (पाग ४,१,७३) इति शार्ङ्गरवादिषु पाठात् ङीन्प्रत्ययः तत्संनियोगेन वृद्धिश्च । ऋतप्रजाता सत्यप्रसवा जीवदपत्या सती सिस्रताम् प्रसवजनितक्लेशाद् विनिःसृता भवतु । अक्लेशेन प्रसूता भवतु इत्यर्थः। सृ गतौ। अस्मात् लोटि व्यत्ययेन आत्मनेपदम् । जुहोत्यादित्वात् शपः श्लुः। 'श्लौ' (पा ६,१,१०) इति द्विर्वचनम् । 'अर्तिपिपर्त्योश्च' (पा ७,४,७७ )। 'बहुलं छन्दसि' (पा ७,४,७८) इति अभ्यासस्य इत्त्वम् । 'द्विविकरण अपि धातवो भवन्ति' इति पुनरपि विकरणः शः। तस्य ङित्त्वाद् गुणाभावे यण् । 'अभ्यस्तानाम् आदिः' (पा ६,१,१८९) इत्याद्युदात्तत्वम् । उ अपि च सूतवै सुखप्रसवार्थम् । षूङ् प्राणिगर्भविमोचने । 'कृत्यार्थे तवैकेन्केन्यत्वनः' (पा ३,४,१४ ) इति भावे तवैप्रत्ययः। यद्वा सूतवै प्रसवितुम् । 'तुमर्थे सेसन्' (पा ३,४,९ ) इति तवैप्रत्ययः । 'अन्तश्च तवै युगपत्' ( पा ६,१,२०० ) इति आद्यन्तयोर्यौगपद्येन उदात्तत्वम् । पर्वाणि प्रसवनिरोधकाः संधिबन्धाः वि जिहताम् विगच्छन्तु। विश्लथा भवन्तु इत्यर्थः । ओहाङ् गतौ । लोटि जुहोत्यादित्वात् शपः श्लुः । 'श्लौ' (पा ६,१,१०) इति द्विर्वचनम् । 'भृञामित्' (पा ७,४,७६ ) इति अभ्यासस्य इत्त्वम् । 'श्नाम्यस्तयोरातः' (पा ६,४,११२ ) इति आकारलोपः।
चतस्रो दिवः प्रदिशश्चतस्रो भूम्या उत ।
देवा गर्भं समैरयन् तं व्यूर्णुवन्तु सूतवे ॥२॥
चतस्रः । दिवः । प्रऽदिशः । चतस्रः । भूम्याः । उत ।
देवाः । गर्भम् । सम् । ऐरयन् । तम् । वि । ऊर्णुवन्तु । सूतवे ॥ २ ॥
दिवः द्युलोकस्य संबन्धिन्यः याः चतस्रः चतुःसंख्याकाः प्रदिशः प्रकृष्टा दिशः प्राच्याद्याः प्रधानदिशः सन्ति । उत अपि च भूम्याः भूलोकस्य याः चतस्रः प्रदिशः सन्ति । चतुर्शब्दस्य जसि त्रिचतुरोः स्त्रियां तिसृचतसृ' (पा ७,२,९९) इति चतस्रादेशः । 'अचि र ऋतः' ( पा ७, २,१०० ) इति रेफादेशः । 'न्रः संख्यायाः' (फि २,५) इति चतुर्शब्द आद्युदात्तः। स्थानिवद्भावात् तदादेशोपि आद्युदात्त एव । ता दिग्देवताः देवाः इन्द्रादयश्च गर्भम् पूर्वं समैरयन् संगतम् अकुर्वन् । गर्भम् उदपादयन्नित्यर्थः । इदानीं ते देवाः सूतवे प्रसवितुं गर्भाशयाद् विनिर्गन्तुं तम् उदरस्थं गर्भं व्यूर्णवन्तु विगताच्छादनं कुर्वन्तु । जरायोः सकाशाद् विमुक्तं कुर्वन्तु इत्यर्थः । ऊर्णुञ् आच्छादने । लोटि अदादित्वात् शपो लुक् । छान्दसो गुणः । विः उपसर्गः 'उपसर्गाश्चाभिवर्जम्' (फि ४,१३) इति उदात्तः । यणादेशे 'उदात्तस्वरितयोर्यणः स्वरितोनुदात्तस्य' (पा ८,२,४ ) इति पर ऊकारः स्वर्यते ।
सूषा व्यूर्णोतु वि योनिं हापयामसि ।
श्रथया सूषणे त्वमव त्वं बिष्कले सृज ॥३॥
सूषा । वि । ऊर्णोतु । वि । योनिम् । हापयामसि ।
श्रथय । सूषणे । त्वम् । अव । त्वम् । बिष्कले । सृज ॥ ३ ॥
सूषा सवित्री प्रजनयित्री देवता। षूङ् प्राणिगर्भविमोचने । अस्माद् औणादिकः क्सप्रत्ययः । यद्वा सूः सवनम् उत्पत्तिः । संपदादिलक्षणो भावे क्विप् । सुवं सनोति प्रयच्छतीति सूषा । षणु दाने । 'जनसनखनक्रमगमो विट्' (पा ३,२,६७ ) इति विट्प्रत्ययः । 'विड्वनोरनुना सकस्यात्' (पा ६,४,४१ ) इति आत्त्वम् । छान्दसः सुलोपः। यद्वा शोभना उषाः सूषा । 'सुपां सुलुक्' ( पा ७,१,३९ ) इति सोर्डादेशः । भसंज्ञाऽभावपि डित्करणसामर्थ्यात् टिलोपः। एवंभूता देवता व्यूर्णोतु गर्भं विगतावरणं करोतु। जरायुबन्धनं विश्लेषयतु इत्यर्थः। ऊर्गुञ् आच्छादने । अस्मात् लोटि अदादित्वात् शपो लुक् । 'ऊर्णोतेर्विभाषा' (पा ७,३,९० ) इति वृद्धिविकल्पनाद गुणः। वयमपि सुखप्रसवाय योनिम् गर्भनिर्गममार्गं वि हापयामसि विहापयामः । यथा गर्भः सुखेन निपतति तथा विवृतं कारयाम इत्यर्थः । ओहाङ् गतौ । अस्मात् णिच् । 'अर्तिह्री' ( पा ७,३,३६ ) इत्यादिना पुगागमः । 'इदन्तो मसि' (पा ७,१,४६ )। हे सूषणे । सुवं सनोति प्रयच्छतीति सूषणिः सुखप्रसवकारिणी देवता । 'छन्दसि वनसनरक्षिमथाम्' (पा ३,२,२७ ) इति सनोतेः इन्प्रत्ययः । तस्याः संबोधनम् । त्वम् अपि मदीयेन अनेन सुखप्रसवकर्मणा प्रीता सती श्रथय योनिं विश्लेषय ! यद्वा श्रथय गर्भिण्याः संधिबन्धान् विमुञ्च । सार कृप श्रथ दौर्बल्ये । चुरादित्वात् स्वार्थिको णिच् । अदन्तत्वाद् उपधावृद्ध्यभावः । तथा हे बिष्कले । बिष्क इत्यनुकरणशब्दः। तं लाति आदत्ते करोतीति बिष्कलिः सूतिमारुतः। ला आदाने । अस्माद् औणादिकः किप्रत्ययः। 'आतो लोप इटि च' (पा ६,४,६४ ) इति आकारलोपः । यद्वा विट् व्याप्ता सती कलयति प्रेरयतीति विष्कला। विष्लृ व्याप्तौ। 'क्विप् च' (पा ३,२,७६ ) इति कर्तरि क्विप् । कल गतौ इत्यस्मात् पचाद्यच् । विट् चासौ कला चेति विष्कला। हे तथाविधे देवते त्वम् अव सृज गर्भम् अवाङ्मुखं प्रेरय । सृज विसर्गे । तुदादित्वात् शः।
नेव मांसे न पीवसि नेव मज्जस्वाहतम् ।
अवैतु पृश्नि शेवलं शुने जराय्वत्तवेऽव जरायु पद्यताम् ॥४॥
नऽइव । मांसे । न । पीवसि । नऽइव । मज्जऽसु । आऽहतम् ।
अव । एतु । पृश्नि । शेवलम् । शुने । जरायु । अत्तवे । अव । जरायु । पद्यताम् ॥ ४ ॥
हे प्रसवित्रि त्वं मांसेन उदरगतेन नेव पीवसि । इवशब्दो भिन्नक्रमः। मांसेनेव न पीवसि । यथा मांसेन शरीरगतेन स्थवीयसी भवसि न तथा अनेन जरायुणा । किंतु(ए) तत् जरायु शैवल्यकल्पम् । पीव मीव णीव स्थौल्ये इति धातुः। एतत्पतने शरीरबाधो नास्ति इत्याह -– मज्जसु मज्जोपलक्षितेषु धातुषु एतत् जरायु आहतम् आबद्धं स्नाय्वादिकमिव न भवति । किंतु तदसंबंद्धमेव वर्तत इत्यर्थः। यद्वा हे जरायु त्वं मांसेन शरीरगतेन संबद्धं सत् नेव पीवसि । इवशब्दः अवधारणे । नैव प्रवृद्धं भवसि । तथा त्वं मज्जसु नेव आहतम् नैव संबद्धम् असि । तथा च निगमान्तरम् -- स्थवित्र्यवपद्यस्व न मांसेषु न स्नावसु न बद्धम् असि मज्जसु' (आपमं २,११,१९) इति । अतः कारणात् शेवलम् जलस्योपरिस्थितशैवालवत् आन्तरावयवासंबद्धं पृश्नि शुभ्रवर्णं तत् जरायु गर्भवेष्टनम् अवैतु । अवाक् पततु। तस्य मलवत्त्याज्यताम् आह -- शुने अत्तवे । षष्ठ्यर्थे चतुर्थी । 'श्वयुवमघोनाम् अतद्धिते' (पा ६,४,१३३ ) इति संप्रसारणम् । शुनो भक्षणाय । अव पततु इति संबन्धः । अद भक्षणे इत्यस्मात् 'तुमर्थे सेसेन्” (पा ३, ४,९) इति तवेन्प्रत्ययः। आदरार्थं पुनस्तदेवाह --जरायु अव पद्यताम् अवाग् भूमौ निपततु । पद गतौ। दिवादित्वात् श्यन् । नित्त्वाद् आद्युदात्तत्वे प्राप्ते 'तिङ्ङतिङः' (पा ८,१,२८ ) इति निघातः।
वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके ।
वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ॥५॥
वि । ते । भिनद्मि । मेहनम् । वि । योनिम् । वि । गवीनिके इति ।
वि । मातरम् । च । पुत्रम् । च । वि । कुमारम् । जरायुणा । अव । जरायु । पद्यताम् ॥ ५॥
हे गर्भिणि ते तव मेहनम् मूत्रावसेकद्वारं वि भिनद्मि विदारयामि । भिदिर् विदारणे । रुधादित्वात् श्नम्प्रत्ययः। न केवलं मेहनम् अपि तु तदाधारभूतां योनिं वि भिनद्मि शिशुनिर्गमनयोग्यां करोमि। तथा गवीनिके योनेः पार्श्ववर्तिन्यौ निर्गमनप्रतिबन्धिके नाड्यौ वि भिनद्मि। मेहनादिविभेदनस्य प्रयोजनं दर्शयति - वि मातरम् इति । मातरम् जननीं पुत्रम् । पुन्नाम्नो नरकात् त्रायत इति पुत्रः। पुरु बहुलं त्रायत इति वा पुत्रः। तद् उक्तं यास्केन - 'पुत्रः पुरु त्रायते निपरणाद्वा पुन्नरकं . ततस्त्रायत इति वा' (या २,११) इति। परस्परसमुच्चयार्थौ चकारौ । तौ उभौ वि भिनद्मि विश्लेषयामि । गर्भाशयात् पुत्रं निर्गमयामीत्यर्थः। तथा जरायुणा उल्बेन कुमारम् पुत्रं वि भिनद्मि। जरायुकुमारावपि परस्परं विश्लिष्टौ करोमीत्यर्थः। अनन्तरं जरायु अपि उदरस्थम् उल्बम् अव पद्यताम् अवपततु ।
यथा वातो यथा मनो यथा पतन्ति पक्षिणः ।
एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ॥६॥
यथा । वातः । यथा । मनः । यथा । पतन्ति । पक्षिणः ।
एव। त्वम् । दशऽमास्य। साकम् । जरायुणा । पत। अव । जरायु । पद्यताम् ॥६॥
गर्भस्य अविलम्बेन निर्गमनं दृष्टान्तैः समर्थयते - यथा येन प्रकारेण वातः वायुः शीघ्रं गच्छति । यथा वा मनः ज्ञानसाधनम् अन्तःकरणम् अप्रतिबन्धं सत् शीघ्रतरं गच्छति । यथा वा पक्षिणः विहगाः सशरीरा अपि अप्रतिबद्धगतयः सन्तः पतन्ति आकाशे उड्डीयन्ते । पत्लृ गतौ । लटि ‘कर्तरि शप्' (पा ३,१,६८) इति शप् । 'तास्यनुदात्तेन्ङिददुपदेशात्' (पा ६,१,१८६ ) इति लसार्वधातुकस्य अनुदात्तत्वम् । शपश्च पित्त्वाद् अनुदात्तत्वम् । धातुस्वरेण आदिरुदात्तः। 'तिङ्ङतिङः' (पा ८,१,२८ ) इति निघातस्य ‘यावद्यथाभ्याम्' (पा ८,१,३६) इति प्रतिषेधः। एव एवम् । 'निपातस्य च' (पा ६, ३,१३६) इति सांहितिको दीर्घः । हे दशमास्य दशसु मासेषु मात्रा पोषित शिशो । दश मासान् भृत इति विगृह्य 'तद्धितार्थोत्तरपदसमाहारे च' (पा २,१,५१ ) इति तद्धितार्थे विषयभूते समासः। 'संख्यापूर्वो द्विगुः' (पा २,१,५२) इति द्विगुसंज्ञायां द्विगोर्यप्' (पा ५,१,८२) इति भरणार्थे यप् । 'आमन्त्रितस्य च' (पा ८,१,१९) इति आष्टमिकं सर्वानुदात्तत्वम् । एवंभूत शिशो त्वं जरायुणा गर्भवेष्टनेन साकम् सह पत गर्भाशयात् शीघ्रं निर्गच्छ। 'सहयुक्तेऽप्रधाने' (पा २,३,१९) इति सहार्थेन साकंशब्देन योगे जरायुणा इति अप्राधान्ये तृतीया। अप्राधान्येनोक्तं जरायुपतनं प्राधान्येनापि निर्दिशति - अव जरायु पद्यताम् इति । व्याख्यातम् ।
इति प्रथमकाण्डे द्वितीयेनुवाके पञ्चमं सूक्तम् ।
इति द्वितीयोनुवाकः समाप्तः।