अथर्ववेदः/काण्डं १/सूक्तम् १२
← सूक्तं १.११ | अथर्ववेदः - काण्डं १ सूक्तं १.१२ भृग्वङ्गिराः। |
सूक्तं १.१३ → |
दे. यक्ष्मनाशनम्। जगती(त्रिष्टुप्?), ४ अनुष्टुप्। |
जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या ।
स नो मृडाति तन्व ऋजुगो रुजन् य एकमोजस्त्रेधा विचक्रमे ॥१॥
अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम ।
अङ्कान्त्समङ्कान् हविषा विधेम यो अग्रभीत्पर्वास्या ग्रभीता ॥२॥
मुञ्च शीर्षक्त्या उत कास एनं परुष्परुराविवेशा यो अस्य ।
यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च ॥३॥
शं मे परस्मै गात्राय शमस्त्ववराय मे ।
शं मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे मम ॥४॥
सायणभाष्यम्
तृतीयेनुवाके पञ्च सूक्तानि । तत्र 'जरायुजः' इत्येतत् प्रथमं सूक्तम् । तस्य वातपित्तश्लेष्मविकारजेषु रोगेषु यथोचितमेदोमधुसर्पिस्तैलपायनादिकर्मसु विनियोगः । " 'जरायुज' इति मेदोमधुसर्पिस्तैलं पाययति" ( कौसू २६,१) इत्यादि सूत्रम् ।
तथा दुर्दिननिवारणे अतिवृष्टेर्निवारणे च “ 'जरायुज' इति दुर्दिनम् आयन् प्रत्युत्तिष्ठति । अन्वृचम्" ( कौसू ३८,१;२ ) इत्यादिसूत्रोक्तानि सूर्योपस्थानोदकप्रक्षेपादीनि कर्माणि अनेन सूक्तेन कुर्यात् । अस्य 'मुञ्च शीर्षक्त्याः' इति तृतीयया ऋचा सर्वेषु व्याधिषु संपाताभिमन्त्रणसंस्कृतेन उदकघटेन व्याधितम् अभिषिञ्चेत् । “ 'मुञ्च' इत्याप्लावयति" ( कौसू २७,३४) इति सूत्रात् ।
जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या ।
स नो मृडाति तन्व ऋजुगो रुजन् य एकमोजस्त्रेधा विचक्रमे ॥१॥
जरायुजः। प्रथमः । उस्रियः। वृषो । वातऽअभ्रजाः । स्तनयन् । एति । वृष्ट्या ।
सः । नः । मृडाति । तन्वे । ऋजुऽगः । रुजन् । यः । एकम् । ओजः । त्रेधा । विऽचक्रमे ॥ १॥
जरायुजः जरायोः सकाशाद् उत्पन्नः । अदितिपुत्रत्वात् जरायुजत्वम् । श्रूयते हि -- ‘अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनम् अपचत् । तस्या उच्छेषणम् अददुः । तत् प्राश्नात् । सा रेतोऽधत्त । तस्यै चत्वार आदित्या अजायन्त' (तै ६,५,६,१) इति । यद्वा दिवि जरायुस्थानानि नक्षत्राणि अभिभूय उद्भूतत्वात् जरायुजः । आम्नायते हि -- 'द्यौर्वशा स्तनयित्नुर्गर्भो नक्षत्राणि जरायु सूर्यो वत्सो वृष्टिः पीयूषः' ( काठ ३९,८ ) इति । जनी प्रादुर्भावे । अस्मात् ‘पञ्चम्याम् अजातौ' ( पा ३,२,९८ ) इति डप्रत्ययः। टेः' ( पा ६,४,१४३ ) इति टिलोपः । प्रत्ययस्वरेण अन्तोदात्तत्वम् । प्रथमः सर्वस्मात् जगतः पूर्वम् उद्भूतः । उस्रियः । उस्राः किरणाः । वसन्ति निवसन्ति एभिर्जना इति व्युत्पत्तेः। वस निवासे इत्यस्मात् ‘स्फायितञ्चि' (पाउ २,१३) इत्यादिना रक्प्रत्ययः । 'वचिस्वपि' (पा ६,१,१५ )इत्यादिना संप्रसारणम् । ते अस्य सन्तीत्युस्रियः। मत्वर्थीयो घः। वृषा वर्षप्रदः सूर्यः । वृष सेचने। 'कनिन् युवृषितक्षि' (पाउ १,१५६) इत्यादिना कनिन्प्रत्ययः वातव्रजाः वातवत् शीघ्रं व्रजति गच्छतीति वातव्रजाः। व्रज गतौ। अस्माद् असुन् प्रत्ययः । यद्वा वातानां व्रजः समूहो यस्यासौ वातव्रजाः। प्रयाणसमये बहुतरवायुयुक्तत्वात् । 'सुपां सुपो भवन्ति' (पावा ७,१,३९) इति सोर्जसादेशः। ईदृशः सूर्यः स्तनयन् मेघान् गर्जयन् वृष्ट्या महत्तरेण प्रवर्षणेन सह एति आगच्छति । स्तनयन् इति । स्तन देवशब्दे । चुरादिः अदन्तोयम् । श्रूयते हि - ‘यदा खलु वा असावादित्यो न्यङ् रश्मिभिः पर्यावर्ततेथ वर्षति' (तै २,४,१०,२ ) इति ।
'अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज्जायते वृष्टिः xxx॥' ( मस्मृ ३,७६ )
इति स्मृतेश्च । सः आदित्यः नः अस्माकं तन्वे । तनूं शरीरम् । ‘क्रियाग्रहणं कर्तव्यम्' ( पावा १,४,३२ ) इति कर्मणः संप्रदानत्वात् चतुर्थी । मृडाति मृडयतु । मृडाति । मृड सुखने । अस्मात् लेटि आडागमः। किं कुर्वन् । रुजन् त्रिदोषजनितरोगादिकं भञ्जन् निवर्तयन् । रुजो भङ्गे। तुदादित्वात् शः। तमेव आदित्यं विशिनष्टि-- ऋजुगः ऋजु अकुटिलं गच्छतीति ऋजुगः। 'डोऽन्यत्रापि दृश्यते' (पावा ३,२,४८) इति गमेर्डप्रत्ययः । यः सूर्यः एकम् अभिन्नम् ओजः आत्मीयं तेजः त्रेधा त्रिप्रकारेण अग्निवायुसूर्यात्मना विचक्रमे विविधम् आक्रान्तवान् । पृथिव्यादिलोकत्रयम् आक्रम्य अधिपतित्वेन स्थितवान् इत्यर्थः । स सूर्यः मृडातीति पूर्वेण संबन्धः। क्रमु पादविक्षेपे। ‘वेः पादविहरणे' (पा १,३,४१) इति आत्मनेपदम् । यद्वा यः सूर्यः एकमेव स्वकीयम् ओजः तेजः त्रेधा त्रिप्रकारेण वाय्वग्निचन्द्रात्मना विचक्रमे कृत्स्नशरीराणि आक्रम्य वर्तते । वातपित्तश्लेष्मलक्षणदोषत्रयकारिदेवतात्मना सर्वत्र अयमेव वर्तत इत्यर्थः । अतः सूर्यप्रार्थनया दोषत्रयोद्भूतस्य रोगजातस्य निवृत्तिरुपपन्ना ।
अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम ।
अङ्कान्त्समङ्कान् हविषा विधेम यो अग्रभीत्पर्वास्या ग्रभीता ॥२॥
अङ्गेऽअङ्गे । शोचिषा । शिश्रियाणम् । नमस्यन्तः । त्वा । हृविषा । विधेम ।
अङ्कान् । सम्ऽअङ्कान् । हविषा । विधेम । यः । अग्रभीत्। पर्व । अस्य । ग्रभीता ॥२॥
अङ्गेअङ्गे सर्वेष्वङ्गेषु । 'नित्यवीप्सयोः' (पा ८,१,४) इति द्विर्वचनम् । 'अङ्ग इत्यादौ च' (पा ६,१,११९) इति प्रकृतिभावात् 'एङः पदान्तादति' (पा ६,१,१०९) इति पूर्वरूपत्वाभावः। 'तस्य परम् आम्रेडितम्' (पा ८,१,२) । 'अनुदात्तं च' (पा ८,१,३) इति परस्य अङ्गशब्दस्य अनुदात्तत्वम् । सर्वप्राणिशरीरेषु शोचिषा दीप्त्या शिश्रियाणम् व्याप्य वर्तमानम् । प्राणात्मना व्याप्य वर्तमानम् इत्यर्थः। श्रूयते हि -- 'प्राणः प्रजानाम् उदयत्येष सूर्यः' (प्रउ १,८) इति । श्रिञ् सेवायाम् । अस्मात् 'छन्दसि लिट्' (पा ३,२,१०५) इति वर्तमाने लिट् । 'लिटः कानज्वा' (पा ३,२,१०६) इति तस्य कानजादेशः । 'अचि श्नुधातु' (पा ६,४,७७) इत्यादिना इयङादेशः। 'चितः' (पा ६,१,१६३ ) इति अन्तोदात्तत्वम् । न च 'अभ्यस्तानामादिः' (पा ६,१,१८९) इति आद्युदात्तत्वं शङ्कनीयम् । तस्य सार्वधातुकविषयत्वात् । हे सूर्य ईदृशं त्वा त्वां नमस्यन्तः नमस्कुर्वन्तः । स्तुतिनमस्कारादिभिः पूजयन्त इत्यर्थः । हविषा चर्वाज्यसमिदादिना विधेम परिचरेम । विधतिः परिचरणकर्मा । विध विधाने । तुदादित्वात् शः। शस्य ङित्त्वात् लघूपधगुणाभावः। नमस्यन्त इति। 'नमोवरिवश्चित्रङः क्यच्' (पा ३,१,१९) इत्यत्र 'नमसः पूजायाम्' इति विशेषितत्वात् पूजार्थे क्यच् । 'नः क्ये' (पा १,४,१५) इति पदसंज्ञाया नियमितत्वात् तत्र पदसंज्ञाया अभावेन रुत्वाद्यभावः । तदन्तात् लटः शत्रादेशः । शपः पित्त्वाद् अनुदात्तत्वम् , शतुश्च लसार्वधातुकस्वरेण । अतः चित्स्वरेण क्यजन्तस्य अन्तोदात्तत्वे शबकारेण सह एकादेशस्यापि 'एकादेश उदात्तेनोदात्तः' (पा ८,२,५) इति उदात्तत्वम् । तथा अङ्कान् अञ्चनशीलान् गमनशीलान् सूर्यस्य अनुचरान् समङ्कान् समञ्चनशीलान् समीपे वर्तमानान् अन्तरङ्गानपि परिवारभूतान् देवान् हविषा विधेम परिचरेम । अञ्चु गतिपूजनयोः । अस्मात् 'हलश्च' (पा ३,३,१२१) इति कर्तरि बाहुलकाद् घञ् । 'चजोः कु घिण्ण्यतोः' (पा ७,३,५२) इति कुत्वम् । हविःप्रदानस्य प्रयोजनम् आह -- यो अग्रभीदिति । ग्रभीता ग्रहीता ग्राहको यः ज्वरादिरूपो रोगः अस्य पुरुषस्य पर्व पर्वाणि शरीरावयवसंधीन् अग्रभीत् अग्रहीत् । व्याप्य बाधत इत्यर्थः। तस्य रोगजातस्य निवृत्तये हविषा विधेमेति पूर्वेण संबन्धः । ग्रह उपादाने । अस्मात् लुङि 'च्लेः सिच्' (पा ३,१,४४) । 'अतो हलादेः०' (पा ७,२,७) इति प्राप्ताया वृद्धेः 'ह्य्'न्तक्षण' (पा ७,२,५) इति प्रतिषेधः । 'हृग्रहोर्भश्छन्दसि' (पावा ८,२,३२) इति भत्वम् । 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधः।
मुञ्च शीर्षक्त्या उत कास एनं परुष्परुराविवेशा यो अस्य ।
यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च ॥३॥
मुञ्च । शीर्षक्त्याः । उत । कासः । एनम् । परुःऽपरुः । आऽविवेश । यः । अस्य ।
यः । अभ्रऽजाः । वातऽजाः । यः । च । शुष्मः । वनस्पतीन् । सचताम् । पर्वतान् । च ॥३॥
हे सूर्य शीर्षक्त्याः शीर्ष शिरः अञ्चति गच्छति व्याप्य बाधत इति शीर्षक्तिः शिरोरोगः । तस्मात् सकाशाद् एनं पुरुषं मुञ्च मोचय । शिरोरोगं निवर्तयेत्यर्थः । उत अपि च यः कासः हृत्कण्ठमध्यवर्ती प्रसिद्धः श्लेष्मरोगविशेषः एनं पुरुषम् आविवेश प्रविष्टवान् । प्रवेशनप्रकारमेव आह--अस्य पुरुषस्य परुःपरुः सर्वान् संधिबन्धान आविवेश । विश प्रवेशने । अस्मात् लिट् । तथाविधात् कासरोगाद् एनं मोचयेति पूर्वेण संबन्धः। इदानीं वातपित्तश्लेष्मविकारजनितानां सर्वेषामपि व्याधीनाम् अस्मात् पुरुषाद् अन्यत्रावस्थानं प्रार्थयते यो अभ्रजा इति । यो रोगः अभ्रजाः । अपो बिभर्तीत्यभ्रं प्रवर्षको मेघसंघः, तस्मात जायते प्रवर्षणोदकसंसर्गेण उत्पद्यत इति अभ्रजाः श्लेष्मरोगः । 'जनसनखनक्रमगमो विट्' (पा ३.२,६७) इति विट्प्रत्ययः। विडवनोरनुनासिकस्यात्' (पा ६.४,४१) इति आत्त्वम । कृदत्तरपदप्रकृतिस्वरत्वम । तथा यो वातजाः वातात् कौष्ठ्यात् वायोर्जात उत्पन्नो रोगः यश्च शुष्मः शोषकः पित्तविकारजनितो ज्वरादिरोगोस्ति दोषत्रयोद्भूतः स सर्वोपि रोगः एनं पुरुषं विहाय वनस्पतीन् काननस्थान् वृक्षान् पर्वतांश्च मनुष्यसंचाररहितान् शिलोच्चयांश्च सचतां समवैतु । आश्रयतु इत्यर्थः। षच समवाये । शुष्म इति । शुष शोषणे । अस्मात् 'अविसिविसिशुषिभ्यः कित्' (पाउ १,१४४) इति मन्प्रत्ययः । तस्य किद्वद्भावात् लघूपधगुणाभावः । नित्स्वरेण आद्युदात्तत्वम् । वनस्पतीन् इति । वनानां पतिः वनस्पतिः । 'पारस्करप्रभृतीनि च संज्ञायाम्' (पा ६,१,१५७) इति सुडागमः । 'उभे वनस्पत्यादिषु युगपत्' (पा ६,२,१४०) इति उभयपदप्रकृतिस्वरत्वम् ।
शं मे परस्मै गात्राय शमस्त्ववराय मे ।
शं मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे मम ॥४॥
शम् । मे । परस्मै । गात्राय । शम् । अस्तु । अवराय । मे।
शम् । मे । चतुःऽभ्यः। अङ्गेभ्यः । शम् । अस्तु । तन्वे । मम ॥ ४ ॥
अधुना रोगार्तः स्वस्य आरोग्यं स्वयमेव आशास्ते –- मे मम परस्मै परस्ताद् उपरि वर्तमानाय शिरोरूपाय गात्राय शरीरावयवाय शम् तत्रत्यरोगशमनेन सुखम् अस्तु भवतु । तथा मे मम अवराय अवस्ताद् वर्तमानाय चरणलक्षणाय अङ्गाय शम् सुखम् अस्तु भवतु । तथा मे मम । चतुर्भ्यः द्वौ पादौ द्वौ हस्तौ इति चत्वारि तेभ्यः । अङ्गेभ्यः अवयवेभ्यः शम् सुखम् अस्तु । 'झल्युपोत्तमम्' (पा ६,१,१८०) इति भ्यसः पूर्वस्य अचः उदात्तत्वम । तथा मम तन्वे मध्यशरीराय सर्वसमष्टिरूपाय शरीराय वा शम् सुखम् अस्तु भवतु। तनुशब्दाद् 'ऊङ् उतः' (पा ४,१,६६) इति ऊङ्प्रत्ययः । ततश्चतुर्थ्येकवचने यण् । 'उदात्तयणो हल्पूर्वात्' (पा ६,१,१७४) इति प्राप्तस्य विभक्त्युदात्तत्वस्य 'नोङ्धात्वोः' (पा ६,१,१७५) इति प्रतिषेधः । 'उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (पा ८,२,४) इति विभक्तेः स्वरितत्वम् । 'युष्मदस्मदोर्ङसि' (पा ६,१,२११) इति ममशब्द आद्युदात्तः । इति तृतीयेनुवाके प्रथमं सूक्तम् ।