अथर्ववेदः/काण्डं १/सूक्तम् १०

विकिस्रोतः तः
← सूक्तं १.९ अथर्ववेदः - काण्डं १
सूक्तं १.१०
अथर्वा।
सूक्तं १.११ →
दे. १ असुरः, २-४ वरुणः। त्रिष्टुप्, ३ ककुम्मती अनुष्टुप्, ४ अनुष्टुप्।

अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः ।
ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि ॥१॥
नमस्ते रजन् वरुणास्तु मन्यवे विश्वं ह्युग्र निचिकेषि द्रुग्धम् ।
सहस्रमन्यान् प्र सुवामि साकं शतं जीवाति शरदस्तवायम् ॥२॥
यदुवक्थानृतं जिह्वया वृजिनं बहु ।
राज्ञस्त्वा सत्यधर्मणो मुञ्चामि वरुणादहम् ॥३॥
मुञ्चामि त्वा वैश्वानरादर्णवान् महतस्परि ।
सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ॥४॥

सायणभाष्यम्

अयं देवानाम् इति सूक्तेन जलोदररोगनिवृत्तये गृहतृणदर्भपिञ्जूलीयुक्तघटजलेन अभिषेकं कुर्यात् । सूत्रितं हि--अयं देवानाम् इति एकविंशत्या दर्भपिज्जूलीभिर्वलीकैः सार्धम् अधिशिरोऽवसिञ्चति' ( कौसू २५,३७) इति ।


अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः ।

ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि ॥१॥

अ॒यम् । देवानाम् । असुरः । वि । राजति । वशा । हि । सत्या । वरुणस्य । राज्ञः।

ततः । परि । ब्रह्मणा । शाशदानः । उग्रस्य । मन्योः । उत् । इमम् । नयामि ॥ १॥

देवानाम् इन्द्रादीनां मध्ये असुरः क्षेप्ता पापिनां निग्रहीता । असु क्षेपणे । 'असेरुरन्' (पाउ १,४२) इति उरन् प्रत्ययः। 'नित्यादिर्नित्यम्' (पा ६,१,१९७) इति आद्युदात्तवम् । ईदृशः अयम् वरुणो वि राजति विशेषेण दीप्यते। सर्वनियन्तृत्वात् सर्वोत्कृष्टतया वर्तत इत्यर्थः । राजृ दीप्तौ । तत्र हेतुम् आह -- हि यस्मात् कारणात् सत्या सत्यानि सद्रूपं प्राप्तानि पदार्थजातानि। 'शेश्छन्दसि बहुलम्' (पा ६,१,७०) इति शेर्लोपः। राज्ञः राजमानस्य वरुणस्य देवस्य वशा वशानि स्ववशेन स्वाधीनानि। नियम्यत्वेन स्वाधीनानि भवन्तीत्यर्थः । यद्वा राज्ञः वरुणस्य सत्यानि यथार्थभाषणानि स्ववशानि भवन्ति । सर्वदा सत्यभाषणशील इत्यर्थः। आम्नास्यते हि -- 'राज्ञस्त्वा सत्यधर्मणः' ( अ १,१०,३ ) इति । ततः तस्मात् कारणात् परि परितः सर्वतः ब्रह्मणा मन्त्रेण वरुणविषयस्तुतिरूपेण हविषा वा शाशदानः अत्यर्थं तीक्ष्णः स्तोत्रादिना तोषितस्य वरुणस्य अनुग्रहेण प्राप्तबलः। शद्लृ शातने । अस्मात् यङ्लुगन्ताद् व्यत्ययेन लटः शानच् । 'अभ्यस्तानाम् आदिः' (पा ६,१,१८९) इति आद्युदात्तत्वम् । ईदृशोहम् उग्रस्य उद्गूर्णबलस्य दुष्प्रधर्षस्य वरुणस्य मन्योः क्रोधात् अनृतभाषणादिपापजनितात् जलोदररोगहेतुभूतात् इमम् जलोदररोगार्तं पुरुषम् उन्नयामि उद्गमयामि । रोगाद् उन्मोचयामीत्यर्थः।


नमस्ते रजन् वरुणास्तु मन्यवे विश्वं ह्युग्र निचिकेषि द्रुग्धम् ।

सहस्रमन्यान् प्र सुवामि साकं शतं जीवाति शरदस्तवायम् ॥२॥

नमः । ते । राजन् । वरुण । अस्तु । मन्यवे । विश्वम् । हि। उग्र। निऽचिकेषि । द्रुग्धम् ।

सहस्रम् । अन्यान् । प्र। सुवामि । साकम् । शतम् । जीवाति । शरदः। तव । अयम् ॥२॥

हे राजन् द्योतमान वरुण ते तव मन्यवे क्रोधाय नमः नमस्कारः अस्तु भवतु। सर्वत्र हिंसनस्य मन्युपूर्वकत्वाद् अत्र मन्योर्नमस्कार्यतया निर्देशः । यथा 'नमस्ते रुद्र मन्यवे' (तै ४,५,१,१) इति । 'नमःस्वस्तिस्वाहा' (पा २,३,१६) इति मन्युशब्दात् चतुर्थी । तत्र हेतुम् आह— हि यस्मात् कारणात् त्वं हे उग्र उद्गूर्णबल वरुण विश्वम् कृत्स्नं द्रुग्धम् द्रोहम् । भावे क्तः । समस्तप्राणिकृतम् अपराधं निचिकेषि जानासि । अपराधज्ञानात् हि मन्युरुत्पद्यते अतः तदुत्पत्तिर्मा भूद् इति मन्योः अत्र नमस्कारः कृत इति द्रष्टव्यम् । यद्वा उत्तरशेषोयम् । हे वरुण द्रुग्धम् द्रोहकर्तृ अपकारकम् । द्रुह जिघांसायाम् । कर्तरि क्तः। रधादित्वेन विकल्पितेट्त्वात् 'यस्य विभाषा' (पा ७,२,१५) इति इट्प्रतिषेधः । 'वा द्रुहमुहष्णुहष्णिहाम्' (पा ८,२,३३) इति हकारस्य घत्वम् । ‘झषस्तथोर्धोऽधः' (पा ८,२,४०) इति निष्ठातकारस्य धत्वम् । प्रत्ययस्वरेण अन्तोदात्तता । ईदृशं विश्वम् प्राणिजातं हि यस्मात् निचिकेषि जानासि । कि ज्ञाने। अस्मात् लट् । जुहोत्यादित्वात् शपः श्लुः । तस्मात् कारणात् सहस्रम् सहस्त्रसंख्याकान् अन्यान् सापराधान् द्वेष्यान् जनान् साकम् सह । युगपदेव इत्यर्थः । प्र सुवामि प्रेरयामि । अस्य प्रतिनिधित्वेन प्रयच्छामीत्यर्थः । वरुणस्य सकाशात् प्रतिनिधिप्रदानेन आत्मनो निष्क्रयणम् ऐतरेयके समाम्नातम्-- 'ऋषेहं ते शतं ददाम्यहम् एषाम् एकेनात्मानं निष्क्रीणै' (ऐब्रा ७,१५) इति । षू प्रेरणे। तुदादित्वात् शः। तस्य ङित्त्वात् गुणप्रतिषेधे उवङ् । 'तिङ्ङतिङः' (पा ८,१,२८) इति निघातः । तस्मात् कारणात् अयम् व्याधिपीडितो जनः तव अनुग्रहात् शतं शरदः शतसंख्याकान् संवत्सरान् जीवाति जीवतु । सापराधान् अन्यान् अपरिमितान् जनान् स्वीकृत्य एनं नीरोगं कृत्वा शतसंवत्सरं जीवयेत्यर्थः । 'कालाध्वनोरत्यन्तसंयोगे' (पा २,३,५) इति द्वितीया । जीव प्राणधारणे इत्यस्मात् लेटि आडागमः।


यदुवक्थानृतं जिह्वया वृजिनं बहु ।

राज्ञस्त्वा सत्यधर्मणो मुञ्चामि वरुणादहम् ॥३॥

यत् । उवक्थ । अनृतम् । जिह्वया । वृजिनम् । बहु ।

राज्ञः । त्वा । सत्यऽधर्मणः । मुञ्चामि । वरुणात् । अहम् ॥ ३ ॥

हे जलोदररोगग्रस्त पुरुष जिह्वया अभिवदनसाधनेन इन्द्रियेण यत् रोगनिदानभूतम् अनृतम् असत्यम् उवक्त उवक्थ । अयथार्थकथनं कृतवानसीत्यर्थः । ब्रूञ् व्यक्तायां वाचि । 'ब्रुवो वचिः' (पा २,४,५३ ) इति लिटि वच्यादेशः। 'लिट्यभ्यासस्योभयेषाम्' (पा ६,१,१७) इति अभ्यासस्य संप्रसारणम् । छान्दसो वर्णव्यत्ययः। अनृतस्य रोगहेतुत्वम् उपपादयन् विशिनष्टि - बहु अधिकं वृजिनम् पापम् । हेतुहेतुमतोरभेदेन सामानाधिकरण्यम् । अन्यस्मात् पापकर्मणः अधिकतरपापहेतुः अनृतवदनम् इत्यर्थः । वृजी वर्जने । तस्माद् औणादिक इनच् प्रत्ययः । 'चितः' (पा ६,१,१६३ ) इति अन्तोदात्तत्वम् । अनृतस्य वृजिनरूपत्वं तैत्तिरीयकेपि आम्नातम्--'वृजिनम् अनृतं दुश्चरितम् । ऋजुकर्म सत्यं सुचरितम्' (तैब्रा ३,३,७,१० ) इति । यस्माद् अनृतं पापरूपं तस्माद् रोगनिदानम् इत्यर्थः । उक्तं हि--

'जन्मान्तरकृतं पापं व्याधिरूपेण जायते ।

तच्छान्तिरौषधैर्दानैर्जपहोमार्चनादिभिः ॥' इति ।

यद्यपि अनृतवदनरूपं पापं कृतवान् असि तथापि सत्यधर्मणः सत्यं धर्मो यस्यासौ सत्यधर्मा । 'धर्माद् अनिच् केवलात्' (पा ५,४,१२४ ) इति अनिच्प्रत्ययः समासान्तः। सत्यभाषणस्वभावात् । विवक्षितविशेषणम् एतत् । यतोयं वरुणः सत्यधर्मा अतः असौ अनृतभाषणं न सहत इत्यर्थः । श्रूयते हि –'अनृते खलु वै क्रियमाणे वरुणो गृह्णाति' (तैब्रा १,७,२,६ ) इति। ईदृशात् राज्ञः राजमानात् नियामकाद् वरुणात् हे रोगग्रस्त अहं त्वा त्वां मुञ्चामि मोचयामि। तस्माद् अनृतवदनसंभूतात् जलोदररूपाद् वरुणपाशात् मन्त्रप्रभावेन त्वां वियोजयामीत्यर्थः। मुच्लृ मोक्षणे । तुदादित्वात् शः। 'शे मुचादीनाम्' (पा ७,१,५९) इति नुम् ।


मुञ्चामि त्वा वैश्वानरादर्णवान् महतस्परि ।

सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ॥४॥

मुञ्चामि । त्वा । वैश्वानरात् । अर्णवात् । महतः । परि।

सऽजातान् । उग्र । इह । आ । वद । ब्रह्म । च । अप । चिकीहि । नः ॥ ४ ॥

हे रोगग्रस्त त्वा त्वाम् । 'त्वामौ द्वितीयायाः' ( पा ८,१,२३ ) इति युष्मदस्त्वादेशः । 'अनुदात्तं सर्वम् अपादादौ' ( पा ८,१,१८) इति अनुवृत्तेः स च अनुदात्तः । वैश्वानरात् विश्वनरहितात् महतः प्रभूताद् अर्णवात् । अर्ण इत्युदकनाम। तद् अस्मिन् बहुलम् अस्तीत्येतस्मिन् अर्थे 'अर्णसो लोपश्च' ( पावा ५,२,१०९) इति वप्रत्ययः तत्संनियोगेन सकारलोपश्च । तथाविधात् समुद्रात् । अनेन च तदभिमानी देवो लक्ष्यते । समुद्राभिमानिनो वरुणात् मुञ्चामि । तत्कृतात् जलोदररोगाद् मुञ्चामीत्यर्थः। परिः पञ्चम्यर्थानुवादी। यद्वा वैश्वानरः विश्वनरहितो जाठराग्निः तस्य आवरकत्वेन संबन्धी सोपि वैश्वानरः। 'तस्येदम्' (पा ४,३,१२० ) इत्यण् । तथाविधात् महतः अधिकाद् दुश्चिकित्स्याद् अर्णवात् उदकसहितात् जलमयाद् रोगात् त्वां मुञ्चामि । हे उग्र उद्गूर्णबल वरुण त्वमपि सजातान् सहचारिणः शिक्षकान् भटान् इह अस्मिन् पुरुषविषये आ वद आ समन्तात् कथय । यथा पुनःपुनरागत्य एनं पुरुषं न निघ्नन्ति तथा कथयेत्यर्थः । तत्र हेतुम् आह -- नः अस्मदीयं ब्रह्म हवीरूपम् अन्नम् । यद्वा ब्रह्म अस्माभिः प्रयुज्यमानां मन्त्ररूपां स्तुतिम् अप योग्यक्रियाध्याहारः । अपहाय । अनृतभाषणादिनिमित्तम् अपराधं विस्मृत्येत्यर्थः। चिकीहि जानीहि । अनुक्तसमुच्चयार्थश्चकारः । मदीयया स्तुत्या परितुष्टः सन् भयादि नाशयेत्यर्थः । चिकीहि । कि ज्ञाने। अस्मात् लोटि जुहोत्यादित्वात् शपः श्लुः । छान्दसो दीर्घः ।

इति प्रथमकाण्डे द्वितीयेनुवाके चतुर्थं सूक्तम् ॥