अथर्ववेदः/काण्डं १९/सूक्तम् ७१
दिखावट
← सूक्तं १९.७० | अथर्ववेदः - काण्डं १९ सूक्तं १९.७१ ब्रह्मा। |
सूक्तं १९.७२ → |
दे. गायत्री । त्र्यवसाना पञ्चपदाऽतिजगती। |
स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम् ।
आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम् ।
मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥१॥