अथर्ववेदः/काण्डं १९/सूक्तम् ७१

विकिस्रोतः तः
← सूक्तं १९.७० अथर्ववेदः - काण्डं १९
सूक्तं १९.७१
ब्रह्मा।
सूक्तं १९.७२ →
दे. गायत्री । त्र्यवसाना पञ्चपदाऽतिजगती।

स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम् ।
आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम् ।
मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥१॥